Page loading... Please wait.
5|4|64 - दुःखात्‌ प्रातिलोम्ये
॥ तस्मै पाणिनये नमः ॥
5|4|64
SK 2135
दुःखात्‌ प्रातिलोम्ये   🔊
सूत्रच्छेदः
दुःखात् (पञ्चम्येकवचनम्) , प्रातिलोम्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
डाच्  5|4|57 (प्रथमैकवचनम्) , कृञः  5|4|58 (पञ्चमीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
दुःखात् कृञः प्रातिलोम्ये डाच्
सूत्रार्थः
कृ-धातोः योगे प्रयुक्तात् "दुःख"शब्दात् प्रातिलोम्ये गम्यमाने डाच्-प्रत्ययः भवति ।
"प्रातिलोम्य" इत्युक्ते प्रतिकूल-वर्तनम् । "कृ" धातोः योगे प्रयुक्ताभ्याम् "दुःख" शब्दात् आनुलोम्ये गम्यमाने "डाच्" प्रत्ययः स्वार्थे विधीयते ।

यथा - गुरुम् प्रति दुःखपूर्वकं (= प्रतिकूलम् इत्याशयः) वर्तनं करोति = दुःखा करोति । प्रक्रिया एतादृशी -
दुःख + डाच्
→ दुःख् + आ [टेः 6|4|143 इति टिलोपः]
→ दुःखा

विशेषः -
1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1|4|61 इत्यनेन "निपात" तथा "गति" द्वेऽपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1|1|37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः "अव्यय"संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा "गतिसंज्ञा"कारणात् कुगतिप्रादयः 2|2|18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - "दुःखाकृत्य" / "दुःखाकृतः" आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषाम् उच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र "दुःखा करोति" एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1|4|80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः "दुःखा करोति" इत्येव वक्तव्यम्, न हि "करोति दुःखा" इति ।

2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, अतः अनेन सूत्रेण उक्तः "डाच्" प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - "दुःखम् वर्तनम् करोति" इति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृञः इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिकूल्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। कुःखाकरोति भृत्यः। प्रातिलोम्ये इति किम्? दुःखं करोति कदन्नम्।
`स्वाम्यादेश्चित्तपीडनम्` इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्=प्रातिलोम्यम्। तदपि प्राणिधर्म एव॥
चितपीडनमिति। स्वाम्यादेर्यदनिष्टस्याचरणेन इष्टस्याकरणेन वा चितस्य पीडनं तत्प्रातिलोम्यम् ॥
सिद्धान्तकौमुदी
दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥
दुःखात् प्रातिलोम्ये - दुःखात् ।डा॑जिति शेषः । आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.