Page loading... Please wait.
5|4|16 - विसारिणो मत्स्ये
॥ तस्मै पाणिनये नमः ॥
5|4|16
SK 2084
विसारिणो मत्स्ये   🔊
सूत्रच्छेदः
विसारिणः (पञ्चम्येकवचनम्) , मत्स्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
अण्  5|4|15 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
मत्स्ये विसारिणः अण्
सूत्रार्थः
"विसारिन्" शब्दात् मत्स्यस्य निर्देशे कर्तव्ये स्वार्थे अण् प्रत्ययः भवति ।
"मत्स्य (fish) इत्यस्य निर्देशार्थम् "वि + सृ" धातोः णिनिँ प्रत्ययः यदा भवति, तदा तस्मात् स्वार्थे अण् प्रत्ययः अपि नित्यम् विधीयते - इति अस्य सूत्रस्य आशयः ।

यथा - विसरति (इतरत्र गच्छति, moves in different direction) मत्स्यः सः
= वि + सृ + णिनि + अण् [नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3|1|134 इति णिनि-प्रत्ययः । ततः स्वार्थे अण्]
→ वि + सृ + इन् + अ [इत्संज्ञालोपः]
→ वि + सारिन् + अ [अचो ञ्णिति 7|2|115 इति वृद्धिः]
→ वैसारिन् + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ वैसारिन [नस्तद्धिते 6|4|144 इति टिलोपे प्राप्ते इनण्यनपत्ये 6|4|164 इति प्रकृतिभावः]
→ वैसारिण [अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इति णत्वम्]

विसरति सः वैसारिणः मत्स्यः ।

स्मर्तव्यम् - केवलम् मत्स्यस्य निर्देशार्थम् एव अत्र अण्-प्रत्ययः विधीयते । अन्येषु विषयेषु तु केवलम् "णिनि" प्रत्ययान्तरूपमेव प्रयुज्यते । यथा - विसारतिः सः विसारी मण्डूकः सर्पः वा । (विसारिन् इति प्रातिपदिकम् । अस्य पुँल्लिङ्गस्य प्रथमैकवचनम् "विसारी" इति ।)

ज्ञातव्यम् - यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, तथापि अत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - "आमादयः प्राङ्मयटः नित्याः" । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 इत्यस्मात् आरभ्य एकस्य सकृच्च 5|4|19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि मत्स्यस्य निर्देशे कर्तव्ये "वैसारिण" इति अण्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विसरति इति विसारी। विसारिन्शब्दात् स्वार्थे अण् प्रत्ययो भवति मत्स्ये ऽभिधेये। वैसारिणो मत्स्यः। मत्स्ये इति किम्? विसारी देवदत्तः।
`विसारी` इति। पूर्ववण्णिनिः। `वैसारिणः` इति। पूर्ववत्प्रकृतिभावः॥
विसारीति। पूर्ववण्णिनिः। वैसारिण इति। पूर्ववत्प्रकृतिभावः ॥
सिद्धान्तकौमुदी
अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥
विसारिणो मत्स्ये - विसारिणो मत्स्ये । "अणिनुणः" इति पूर्वसूत्रादण्णित्यनुवर्तते । तदाह — अण् स्यादिति । मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । इनण्यनपत्ये॑ इति प्रकृकतिभावाट्टिलोपो न ।
विसारिणो मत्स्ये - विसारिणो । पूर्ववदिहापि णिनिः । हरदत्तस्तु — -॒सुप्यजातौ॑इति णिनिरूपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मश्च अतएव निपातनाण्णिनिरित्याह । तदयुक्तम् ।स बभूवोपजीविनाम्,अनुयायिवर्गः॑,न वञ्चनीयाः प्रभावोऽनुजीविभि॑रित्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात् ।अणिनुणः॑इत्यतोऽनुवर्तनादाह — -अण् स्यादिति । वैसारिण इति ।इनण्यनपत्ये॑इति प्रकृतिभावः । सङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमाह — -अभ्यावृत्तिर्जन्मेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.