Page loading... Please wait.
5|4|118 - अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌
॥ तस्मै पाणिनये नमः ॥
5|4|118
SK 856
अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌   🔊
सूत्रच्छेदः
अच् (प्रथमैकवचनम्) , नासिकायाः (षष्ठ्येकवचनम्) , संज्ञायाम् (सप्तम्येकवचनम्) , नसम् (प्रथमैकवचनम्) , च (अव्ययम्) , अस्थूलात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नासिकान्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समादेशम् आपद्यते। अस्थूलातिति नासिकाविशेषणं, न चेत् स्थूलशब्दात् परा नासिका भवति इति। संज्ञायाम् इति समुदायोपाधिः। द्रुरिव नासिका अस्य द्रुणसः। वाद्ग्रीणसः। पूर्वपदात् संज्ञायाम् अगः 8|4|3 इति णत्वम्। गोनसः। संज्ञायाम् इति किम्? तुङ्गनासिकः। अस्थूलातिति किम्? स्थूलनासिको वराहः। खुरखराभ्यां नस् वक्तव्यः। खुरणाः। खरणाः। पक्षे ऽच्प्रत्ययो ऽपि इष्यते। खुरणसः। खरणसः। शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते।
`संज्ञायामिति समुदायोपाधिः` इति। एतेन यदि प्रकृतिप्रत्ययसमुदायः कस्याचित्? संज्ञा भवत्येवं प्रत्ययो भवति, नान्यथेति दर्शयति। `द्रुणसः` इति। `पूर्वपदात्? संज्ञायामगः` 8|4|3 इति णत्वम्। वर्ध्रे भवा स्त्री वार्ध्री, सा नासिका यस्य स `वार्ध्रीणसः` इति। `वृद्धिनिमित्तस्य च तद्वितस्यरक्तविकारे` 6|3|38 इति पुंवद्भावप्रतिषेधः। गौरिव नासिकास्य गोनसः। अच श्चित्करणं बहुव्रीहिस्वरबाधनार्थम्। `खरणाः खुरणाः` इति। `अत्वसन्तस्य चाधातोः` 6|4|14 इति दीर्घः। शितर्नासिकास्य `शितिनाः`। अहिरिव नासिकास्य `अहिनाः`। अर्चेव नासिकास्य `अर्चनाः`। `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|62 इति ह्यस्वः॥
नसमिति। द्वितीयानिर्द्देशो वैचित्र्यार्थः। द्रणस इति। द्रुरिव नासिकास्य ठ्पूर्वपदात्संज्ञायागःऽ इति णत्वम्। वध्रे भवा वाध्री, सा नासिकास्य वाध्रीणसः, ठ्वृद्धिनिमितस्य च तद्धैतस्यऽ इति पुंवद्भावप्रतिषेधः। गौरिव नासिकाऽस्य गोनसः। खुरखराभ्यां नस् वक्तव्य इति। केवलादेशवचनं प्रत्ययनिवृत्यर्थम्। खुरणाः, खरणा इति। ठत्वसन्तस्य चऽ इति दीर्घः। शितिः कृष्णा नासिकास्य शितिनाः, अहेरिव नासिकाऽस्य अहिनाः। अर्चाउप्रतिमा, तस्या इव नासिकास्य अर्चनाः, ठ्ङ्यापोः संज्ञाच्छन्दसोःऽ इति ह्रस्वत्वम् ॥
सिद्धान्तकौमुदी
नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥
अञ्नासिकायाः संज्ञायां नसं चास्थूलात् - अञ्नासिकायाः ।अ॑जिति च्छेदः । नासिकाया॑ इत्यस्य बहुव्रीहेर्विशेषणणत्वात्तदन्तविदिमभिप्रेत्याह — नासिकान्तादिति.नसमित्यनन्तरंप्राप्नोती॑त्यध्याहार्यम् । उपस्तितत्वान्नासिकाशब्द इति लभ्यते । तदाह — नासिकाशब्दश्च नसं प्राप्नोतीति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अञ्ञ्नासिकायाः संज्ञायां नसं चास्थूलात् (2395) (उपसंख्यानभाष्यम्) खरखुराभ्यां च नस् वक्तव्यः। खरणाः, खुरणाः। शितिना अर्चना अहिना इति नैगमाः। शितिनाः, अर्चनाः, अहिनाः।।