Page loading... Please wait.
5|4|106 - द्वंद्वाच्चुदषहान्तात् समाहारे
॥ तस्मै पाणिनये नमः ॥
5|4|106
SK 930
द्वंद्वाच्चुदषहान्तात् समाहारे  
सूत्रच्छेदः
द्वन्द्वात् (पञ्चम्येकवचनम्) , चु-द-ष-हान्तात् (पञ्चम्येकवचनम्) , समाहारे (सप्तम्येकवचनम्)
अनुवृत्तिः
टच्  5|4|91 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
द्वन्द्वात् चु-द-ष-हान्तात् समाहारे टच्
सूत्रार्थः
यस्य समाहारद्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति ।
यस्य द्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः उत हकारः विद्यते, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति । अयम् प्रत्ययः केवलम् समाहारद्वन्द्वसमासस्य विषये एव विधीयते, इतरेतरद्वन्द्वसमासस्य विषये न - इति स्पष्टीकर्तुम् अस्मिन् सूत्रे "समाहारे" इति पदं प्रयुक्तम् अस्ति ।

उदाहरणानि एतानि -

[अ] चकारान्तस्य उदाहरणद्वयम् -
1. वाक् च त्वक् च एतयोः समाहारः = वाच् + त्वक् + टच् → वाक्त्वच ।
2. स्रक् च त्वक् च एतयोः समाहारः = स्रच् + त्वच् + टच् → स्रक्त्च ।

[आ] जकारान्तस्य उदाहरणद्वयम् -
3. श्रीः च स्रक् च एतयोः समाहारः = श्री + स्रज् + टच् → श्रीस्रज ।
4. वाक् च ऊर्क् च एतयोः समाहारः = वाच् + ऊर्ज् + टच् → वाचूर्ज ।

[इ] दकारान्तस्य उदाहरणद्वयम् -
5. समिध् च दृषद् च एतयोः समाहारः = समिद् + दृषद् + टच् → समिद्दृषद ।
6. सम्पद् च विपद् च एतयोः समाहारः = सम्पद् + विपद् + टच् → सम्पद्विपद ।

[ई] षकारान्तस्य उदाहरणद्वयम् -
7. वाक् च विपृट् च एतयोः समाहारः = वाच् + विपृष् + टच् → वाग्विपृष ।
8. वरम् च आशीः च एतयोः समाहारः = वर + आशीष् + टच् → वराशीष ।

[उ] हकारान्तस्य उदाहरणद्वयम् -
9. छत्रं च उपानत् च एतयोः समाहारः = छत्र + उपानह् + टच् → छत्रोपानह ।
10. धेनुः च गोधुक् च एतयोः समाहारः = धेनु + गोदुह् + टच् → धेनुगोदुह ।


ज्ञातव्यम् -
1. यदि समासस्य अन्ते विद्यमानः वर्णः कश्चन अन्यः अस्ति, तर्हि टच्-प्रत्ययः न भवति । यथा - वाक् च समिध् च = वाक् + समिध् → वाक्समित् ।
2. इतरेतरद्वन्द्वसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रावृट् च शरद् च = प्रावृट्शरदौ । अत्र टच्-प्रत्ययः न भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, न इतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वातिति किम्? तत्पुरुषान् मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तातिति किम्? वाक्षमित्। समाहारे इति किम्? प्रावृट्शरदौ।
Text Unavailable. Please use feedback link below to provide the text if you have.
तत्पुरुषान्मा भूदिति। तत्पुरुषादेव मा भूदित्यर्थः। ठ्द्वन्द्वात्ऽ इत्यनुच्यमाने हि तत्पुरुषाधिकारो न निवर्तेत ॥
सिद्धान्तकौमुदी
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥। इति द्वन्द्वसमासप्रकरणम्‌ ।
Text Unavailable. Please use feedback link below to provide the text if you have.
द्वंद्वाच्चुदषहान्तात् समाहारे - द्वन्द्वात् । अन्तग्रहणं विस्पष्टार्थं । चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति — -त्वक्रुआजमिति । बहूनां द्वन्द्वे तु वाक्त्वक्रुआजम् । द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वाचरुआजम् । इति तत्त्वबोधिन्यां द्वन्द्वः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.