Page loading... Please wait.
5|3|99 - जीविकार्थे चापण्ये
॥ तस्मै पाणिनये नमः ॥
5|3|99
SK 2054
जीविकार्थे चापण्ये   🔊
सूत्रच्छेदः
जीविकार्थे (सप्तम्येकवचनम्) , च (अव्ययम्) , अपण्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
कन्  5|3|95 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
इवे कनः जीविकार्थे अपण्ये लुप्
सूत्रार्थः
यदि कश्चन प्रतिकृतिः जीविकार्थे प्रयुज्यते परन्तु विक्रयणार्थम् नास्ति, तर्हि तस्मात् "इव" अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुक् भवति ।
"इव" शब्दस्य प्रयोगेन यत्र प्रतिकृतिः निर्दिश्यते, तत्र इवे प्रतिकृतौ 5|3|96 इत्यनेन प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति । परन्तु यदि इयम् प्रतिकृतिः जीविकार्थे अस्ति (used in the process of earning money) परन्तु पण्यम् नास्ति (not sold away / not made available for selling), तर्हि तस्य विषये कन्-प्रत्ययस्य लुप् भवति ।

यथा -
1. कश्चन ब्राह्मणः शिवस्य कांश्चन मूर्तिम् स्वीकृत्य मन्दिरे स्थापयति इति चिन्तयामः । अत्र ब्राह्मणस्य कृते इयम् मूर्तिः जीविकायाः साधनम् अस्ति (यतः मन्दिरे भक्तजनाः दर्शनं स्वीकृत्य दक्षिणाम् ददति येन धनिकस्य जीविका प्रचलति) परन्तु इयम् मूर्तिः पण्या नास्ति (यतः ब्राह्मणः मूर्तेः विक्रयणम् न करोति) । अस्यां स्थितौ शिवस्य अस्याः प्रतिकृतेः निर्देशार्थम् इवे प्रतिकृतौ 5|3|96 इत्यनेन विहितस्य कन्-प्रत्ययस्य लुप् भवति । शिवः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति सा = शिव + कन् → शिव + X → शिव ।

2. कश्चन भिक्षुकः कृष्णस्य एकां मूर्तिम् गृहीत्वा गृहं गृहं गत्वा कृष्णस्य नाम्ना भिक्षां याचते इति चिन्तयामः । अत्र भिक्षुकस्य कृते इयम् प्रतिकृतिः जीविकायाः साधनम् अस्ति, परन्तु पण्यम् नास्ति । अस्यां स्थितौ अतः अस्याः प्रतिकृतेः निर्देशम् कर्तुम् इवे प्रतिकृतौ 5|3|96 इत्यनेन विहितः कन्-प्रत्ययः लुप्यते । यथा - कृष्णः इव इयम् प्रतिकृतिः या जीविकार्थे अस्ति परन्तु पण्ये नास्ति, सा = कृष्ण + कन् → कृष्ण + X → कृष्णः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जीविकार्थं यदपण्यम् तस्मिन्नभिधेये कनो लुब् भवति। विक्रीयते यत् तत् पण्य। वासुदेवः। शिवः। स्कन्दः। विष्णुः। आदित्यः। देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते। अपण्ये इति किम्? हस्तिकान् विक्रीणीते। अश्वकान्। रथकान्। देवपथादेरेव अयं प्रपञ्चः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥
जीविकाऽर्थे चापण्ये - जीविकार्थे चापण्ये । पण्यं — विक्रीयमाणम् । तदाह — अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत आह — देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थं हस्तितुल्यप्रतिकृतीर्विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् ।सज्ञायां चे॑तिज विहितस्य नायं लुप्, किन्तु "इवे प्रतिकृतौ" इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति । चाभियुक्ताः — ॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुब्दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः ।
जीविकाऽर्थे चापण्ये - वासुदेवः । शिव इत्यादि । याः प्रतिमाः प्रतिगृह्र गृहाद्गृहं भिक्षमाणाअटन्ति ता एवमुच्यन्ते । देवलका अपि त एव भिक्षवोऽभिप्रेताः । यास्त्वायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप् । तदुक्तम् — -॒अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ । इति । अर्चासु=प्रतिमासु — -कीदृशीषु । पूजनार्हासु । गेहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते । अर्चासूदाहरणं — शिवः । विष्णुः । चित्ककर्मणि — अर्जुनः । दुर्योधनः । ध्वजेषु — कपिः । गरुडः । सिंहः । सुपर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति । हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति — -॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्इति । अयं भावः — ॒अपण्ये॑इत्युक्तत्वात्पण्ये हस्तिकानितिवत् रामकं सीतिकां लक्ष्मणकमिति प्रयोगा एव साधव इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
जीविकार्थे चापण्ये (2257) (सूत्रोदाहरणप्रदर्शकभाष्यम्) अपण्ये इत्युच्यते, तत्रेदं न सिध्यति ‐ शिवः, स्कन्दः, विशाख इति। किं कारणम्? मौर्यैर्हिरण्यार्थिभिरर्चाः प्रकल्पिताः। भवेत्तासु न स्यात्। यास्त्वेताः संप्रतिपूजार्थास्तासु भविष्यति।।