Page loading... Please wait.
5|3|97 - संज्ञायां च
॥ तस्मै पाणिनये नमः ॥
5|3|97
SK 2052
संज्ञायां च   🔊
सूत्रच्छेदः
संज्ञायाम् (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
कन्  5|3|95 (प्रथमैकवचनम्) , इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
संज्ञायाम् इवे कन्
सूत्रार्थः
"इव" इत्यस्य प्रयोगेन यत्र संज्ञा निर्दिश्यते, तत्र प्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।
इवे प्रतिकृतौ 5|3|96 इत्यनेन प्रतिकृतेः विषये कन्-प्रत्ययविधानम् क्रियते । परन्तु यत्र "इव" इत्यस्य प्रयोगः प्रतिकृतिभिन्नविषये क्रियते (When the word इव is used to indicate similarity between two distinct entities, neither of which is a photocopy or a model of another), तत्रापि केषुचन स्थलेषु कन्-प्रत्ययान्तरूपम् प्रयुज्यते । एतादृशानां रूपाणां साधुत्वार्थम् अस्य सूत्रस्य निर्माणं कृतम् अस्ति ।

यथा - "अश्वः इव इदम् वस्तु, अस्य नाम अश्वकः" । अत्र किञ्चन वस्तु अश्वः (उत तस्य प्रतिकृतिः) नास्ति, परन्तु अश्वः इव दृश्यते । तस्य संज्ञानिर्माणार्थम् "अश्व" शब्दात् "कन्" प्रत्ययं कृत्वा "अश्वक" इति शब्दः सिद्ध्यति । यथा - शिशूनाम् क्रीडनकम् अश्व इव दृश्यते, तस्य नाम "अश्वक" इति दीयते । A toy horse is termed अश्वक if it looks similar (not necessarily identical) to an अश्व.

ज्ञातव्यम् - केवलम् संज्ञायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति । अतः इदम् सूत्रम् शिष्टप्रयोगम् अनुसृत्यैव प्रयोक्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इव इत्यनुवर्तते, कनिति च। इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। अप्रतिकृत्यर्थ आरम्भः। अश्वसदृशस्य संज्ञा अश्वकः। उष्ट्रकः। गर्दभकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥
संज्ञायां च - संज्ञायां च ।क॑निति शेषः । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः । पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह — अआसदृशस्येति । अआसदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा । अआसदृशोऽयमआकसंज्ञक इति बोधः ।
संज्ञायां च - समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेदआसदृशस्य संज्ञेत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.