Page loading... Please wait.
5|3|79 - घनिलचौ च
॥ तस्मै पाणिनये नमः ॥
5|3|79
SK 2034
घनिलचौ च   🔊
सूत्रच्छेदः
घन्-इलचौ (प्रथमाद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अनुकम्पायाम्  5|3|76 (सप्तम्येकवचनम्) , तद्युक्तात्  5|3|77 (पञ्चम्येकवचनम्) , च  5|3|77 (अव्ययम्) , नीतौ  5|3|77 (सप्तम्येकवचनम्) , मनुष्यनाम्नः  5|3|78 (पञ्चम्येकवचनम्) , वा  5|3|78 (अव्ययम्) , बह्वचः  5|3|78 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
अनुकम्पायाम् नीतौ तद्युक्तात् बह्वचः मनुष्यनाम्नः घन्-इलचौ वा
सूत्रार्थः
अनुकम्पायाम् गम्यमानायाम् अनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायाम् अनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन घन् तथा इलच्-प्रत्ययौ भवतः ।
अनुकम्पायाम् 5|3|76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे "क" प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात्‌ 5|3|77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् "नीतिम् अनुसृत्य प्रयुक्तम् यत् साधनम्", तस्मात् स्वार्थे "क"प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः बह्वचो मनुष्यनाम्नष्ठज्वा 5|3|78 इत्यनेन ठच्-प्रत्ययः विकल्पेन विधीयते । पक्षे वर्तमानसूत्रेण "घन्" तथा "इलच्" एतौ प्रत्ययौ अपि विकल्पेन विधीयेते ।

कानिचन उदाहरणानि पश्यामः -

1. कश्चन देवदत्तः यज्ञदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् "यज्ञदत्त" इति अस्ति । अत्र "यज्ञदत्त" इति मनुष्यस्य नाम अस्ति, तथा च अस्मिन् शब्दे चत्वारः स्वराः विद्यन्ते, अतः अयम् "बह्वच्" शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे "घन्" तथा "इलच्" एतौ प्रत्ययौ भवतः ।
घन् -प्रत्यये परे प्रकिया एतादृशी जायते -
यज्ञदत्त + घन्
→ यज्ञदत्त + घ [नकारस्य इत्संज्ञा, लोपः]
→ यज्ञदत्त + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इत्यनेन इय-आदेशः]
→ यज्ञ + इय [ठाजादावूर्ध्वं द्वितीयादचः 5|3|83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ यज्ञ् + इय [यस्येति च 6|4|148 इति अकारलोपः]
→ यज्ञिय

इलच्-प्रत्यये परे प्रक्रिया एतादृशी जायते -
यज्ञदत्त + इलच्
→ यज्ञदत्त + इल [चकारस्य इत्संज्ञा, लोपः]
→ यज्ञ + इलच् [ठाजादावूर्ध्वं द्वितीयादचः 5|3|83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ यज्ञ् + इल [यस्येति च 6|4|148 इति अकारलोपः]
→ यज्ञिल
अनेन प्रकारेण "अनुकम्पितः यज्ञदत्तः" इत्यस्मिन् अर्थे "यज्ञिय" तथा "यज्ञिल" एतौ शब्दौ सिद्ध्यतः । एवमेव "अनुकम्पितः देवदत्तः = देवियः / देविलः", "अनुकम्पितः समीहनः = समियः / समिलः" , "अनुकम्पितः वायुदत्तः = वायवियः, वायविलः" एतादृशाः शब्दाः सिद्ध्यन्ति ।

2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै "वायुदत्तः" नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् "वायुदत्त" इति मनुष्यः अस्ति, तथा च अस्मिन् शब्दे चत्वारः अच्-वर्णाः सन्ति अतः अयम् "बह्वच्" शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे "घन्" तथा "इलच्" प्रत्ययौ भवतः । एतयोः प्रत्ययोः परयोः प्रक्रिया इयम् भवति -
वायुदत्त + घन् / इलच्
→ वायुदत्त + घ / इल [इत्संज्ञालोपः]
→ वायुदत्त + इय / इल [प्रत्ययादेशः]
→ वायु + इय / इल [ठाजादावूर्ध्वं द्वितीयादचः 5|3|83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति]
→ वायो + इय / इल [ओर्गुणः 6|4|146 इति गुणादेशः]
→ वायव् + इय / इल [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ वायविय, वायविल
अनुकम्पायाः साधनम् यः वायुदत्तः , सः वायवियः वायविलः वा - इति आशयः ।

ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे बह्वचो मनुष्यनाम्नष्ठज्वा 5|3|78 इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा "यज्ञिक" / "वायुक", तथा च औत्सर्गिकम् क-प्रत्ययं संस्थाप्य "यज्ञदत्तक" , "वायुदत्तक" एतादृशानि प्रातिपदिकानि अपि सिद्ध्यन्ति ।

विशेषः - वस्तुतस्तु पूर्वसूत्रे बह्वचो मनुष्यनाम्नष्ठज्वा 5|3|78 इत्यत्रैव "घन्" तथा "इलच्" प्रत्यययोः स्थापना कर्तुम् शक्यते । परन्तु पाणिनिना अत्र भिन्नम् सूत्रम् निर्मितम् अस्ति । अस्य किमपि विशिष्टम् प्रयोजनम् न विद्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुकम्पायाम् इत्यादि सर्वम् अनुवर्तते। पूर्वेण ठचि विकल्पेन प्राप्ते वचनम्। बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः। चकाराद् यथाप्राप्तं च। देवियः, देविलः, देविकः, देवदत्तकः। यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः।
`देवियः` इति। घन्? पूर्ववल्लोपः। `देविलः` इति इलच्। `देविकः` इति। ठन्। `देवदत्तकः` इति कः॥
चकाराद्यथाप्राप्तं चेति। ननु च ठच् पूर्वण विहितः, वावचनात् कोऽपि, कात्र चकारेणाभ्यनुज्ञा ? इति चिन्त्यम्। योगविभागोऽपि चिन्त्यप्रयोजनः ॥
सिद्धान्तकौमुदी
तत्रैव ॥
घनिलचौ च - घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । "बह्वच" इति पूर्व सूत्रविषये इत्यर्थः ।अनुकम्पाया॑मिति,नीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः ।
घनिलचौ च - घनिलचौ च । चकाराद्यथाप्राप्तमिति काशिका । इह पूर्वसूत्रेणाव ठञ् विहितः । वावचनात्कोऽपि । चकारेण तु कस्याभ्यमुज्ञेति चिन्त्यं, योगविभागे फलमपि चिन्त्यमिति हरदत्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.