Page loading... Please wait.
5|3|71 - अव्ययसर्वनाम्नामकच् प्राक् टेः
॥ तस्मै पाणिनये नमः ॥
5|3|71
SK 2026
अव्ययसर्वनाम्नामकच् प्राक् टेः  
सूत्रच्छेदः
अव्ययसर्वनाम्नाम् (षष्ठीबहुवचनम्) , अकच् (प्रथमैकवचनम्) , प्राक् (अव्ययम्) , टेः (पञ्चम्येकवचनम्)
अनुवृत्तिः
तिङः  5|3|36 (पञ्चम्येकवचनम्) , च  5|3|56 (अव्ययम्) , सुपः  5|3|68 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्रागिवात्कः  5|3|70 वा  4|1|82
सम्पूर्णसूत्रम्
तिङः, अव्यय-सर्वनाम्नाम्, सुपः अकच् प्राक् टेः
सूत्रार्थः
अव्ययानाम् सर्वनामशब्दानाम् तिङन्तानाम् च विषये प्राग्-इवीयेषु विषयेषु स्वार्थे क-प्रत्ययस्य अपवादरूपेण अकच्-प्रत्ययः टेः प्राक् भवति ।
इवे प्रतिकृतौ 5|3|96 इति यावत् ये सन्दर्भाः प्रोक्ताः सन्ति, तेषु सर्वेषु प्रागिवात् कः 5|3|70 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण "क" इति प्रत्ययः विधीयते । परन्तु अव्ययसंज्ञकेभ्यः सर्वनामसंज्ञकेभ्यः च शब्देभ्यः एतम् क-प्रत्ययम् बाधित्वा वर्तमानसूत्रेण "अकच्" इति प्रत्ययः विधीयते । तथा च, अस्मिन् सूत्रे "तिङः" इत्यस्यापि अनुवृत्तिः स्वीक्रियते, अतः अयम् प्रत्ययः तिङन्तेभ्यः अपि भवितुम् अर्हति ।

अस्य "अकच्" प्रत्ययस्य कश्चन विशेषः आदौ एव ज्ञेयः - अयम् प्रत्ययः यद्यपि परश्च 3|1|2 अस्मिन् अधिकारे उक्तः अस्ति, तथापि विधानसामर्थ्यात् अयम् प्रत्ययः टिसंज्ञकात् पूर्वम् विधीयते ।

"अकच्" प्रत्यये चकारः इत्संज्ञकः अस्ति, ककारोत्तरः अकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् द्वयोः लोपः भवति, "अक्" इत्येव अवशिष्यते ।

कानिचन उदाहरणानि पश्यामः -

[अ] अव्ययसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -
अव्ययसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्यये कृते ये शब्दाः सिद्ध्यन्ति, तेऽपि अव्ययसंज्ञकाः एव भवन्ति । उदाहरणानि एतानि -

1. "उच्चैस्" इत्यस्मात् अव्ययात् अज्ञाते 5|3|73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तं बाधित्वा "अकच्" इति प्रत्ययः भवति । अयम् प्रत्ययः अङ्गस्य टि-संज्ञकात् पूर्वम् विधीयते । यथा -
अज्ञातः उच्चैः [अज्ञाते 5|3|73 इति प्रत्ययविधानम्]
= उच्चैस् + अकच् [अकच्-प्रत्ययविधानम्]
उच्च् + अकच् + ऐस् ["उच्चैस्" इत्यत्र "ऐस्" इति टि-संज्ञकः अस्ति, अतः अकच्-प्रत्ययः अस्मात् पूर्वम् विधीयते ।]
→ उच्च् + अक् + ऐस् [चकारस्य इत्संज्ञा, ककारोत्तरः अकारः उच्चारणार्थः । उभयोः लोपः]
→ उच्च् + अकैस्
→ उच्चकैस्
→ उच्चकैः [सकारस्य रुत्वम्, विसर्गः]

2. नीचैस् + अकच् → नीचकैः ।
3. शनैस् + अकच् → शनकैः ।

[आ] सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययविधानम् -
वर्तमानसूत्रेण विहितः अकच्-प्रत्ययः सर्वनामशब्दानाम् विषये सुप्-प्रत्ययान्तरूपात् विधीयते, न हि प्रातिपदिकात् । अस्य स्पष्टीकरणार्थम् विभाषा सुपो बहुच् पुरस्तात्तु 5|3|68 इत्यस्मात् "सुप" इतस्य अनुवृत्तिः क्रियते । कानिचन उदाहरणानि एतानि -
1) सर्वे + अकच् ।
→ सर्व् + अक् + ए
→ सर्वके ।
2. तौ + अकच्
→ त् + अकच् + औ
→ तकौ
3. एषः + अकच्
→ एष् + अक् + अः
→ एषकः
4. तेभ्यः + अकच्
→ तेभ्य् + अक् + अः
→ तेभ्यकः
5. त्वया + अकच्
→ त्वय् + अक् + आ
→ त्वयका

विशेषः -
1. "किम्" सर्वनाम्नः विषये अकच्-प्रत्ययः नित्यम् प्रातिपदिकस्य टि-संज्ञकात् प्राक् एव भवति, तथा च अकच्-प्रत्ययस्य प्रयोगेन निर्मितम् यत् प्रातिपदिकम्, तस्यापि सुबन्तप्रक्रियायाम् किमः कः 7|2|103 इत्यनेन ककारादेशः विधीयते । यथा -
किम् + अकच् + सुँ
→ ककिम् + सुँ [अकच्-प्रत्ययस्य "किम्" इत्यस्य टेः पूर्वम् योजनम् क्रियते]
→ क + सुँ [किमः कः 7|2|103 इत्यनेन "ककिम्" इत्यस्यापि ककारादेशः भवति]
→ कः ।
इत्युक्ते, "किम्" सर्वनाम्नः विषये अकच्-प्रत्ययान्तस्यापि रूपाणि सर्वत्र मूलशब्दवत् एव भवन्ति ।

2. "युष्मद्" तथा "अस्मद्" एतयोः सर्वनामशब्दयोः विषये अत्र एकं वार्त्तिकम् ज्ञातव्यम् -ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् ; अन्यत्र तु सुबन्तस्य टेः प्रागकच्‌ । अस्य अर्थः अयम् - यदि युष्मद् तथा अस्मद् शब्दाभ्याम् ओकारादिः / भकारादिः / सकारादिः सुप्-प्रत्ययः विधीयते, तर्हि वर्तमानसूत्रेण पाठितः अकच्-प्रत्ययः सर्वनामशब्दात् (= प्रातिपदिकात्) विधीयते, न हि सुबन्तात् । अन्येषु विभक्तिप्रत्ययेषु परेषु तु सुबन्तात् एव प्रत्ययविधानं भवति । यथा -
अ) "युष्माभिः + अकच्" इत्यत्र विभक्तिप्रत्ययः "भिस्" इति भकारादिः अस्ति । अतः अत्र सुबन्तात् अकच्-प्रत्ययः न विधीयते, अपितु प्रातिपदिकात् आदौ अकच्-प्रत्ययं योजयित्वा ततः भिस्-प्रत्ययः प्रयोक्तव्यः । यथा -
युष्माभिः + अकच्
→ युष्म् + अकच् + अद् + भिस्
→ युष्मकाभिः
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र "युष्माभकिः" इति अनिष्टम् रूपम् स्यात् ।

आ) अस्मासु + अकच् इत्यत्र "सुप्" इति सकारादिप्रत्ययः अस्ति, अतः अत्रापि प्रातिपदिकात् परः अकच्-प्रत्ययः भवति । यथा -
अस्मासु + अकच्
→ अस्म् + अकच् + अद् + सुप्
→ अस्मकासु
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र "अस्मासकु" इति अनिष्टम् रूपम् स्यात् ।
इ) "युवयोः + अकच्" इत्यत्र विभक्तिप्रत्ययः "ओस्" इति ओकारादिः अस्ति । अतः अत्रापि प्रातिपदिकात् एव अकच्-प्रत्ययः भवति ।
युवयोः + अकच्
→ युष्म् + अकच् + अद् + ओस्
→ युवकयोः
यदि अत्र सुबन्तात् परः अकच्-प्रत्ययः अभविष्यत्, तर्हि अत्र "युवयकोः" इति अनिष्टम् रूपम् स्यात् ।

अनेन प्रकारेण सर्वनामसंज्ञकेभ्यः शब्देभ्यः अकच्-प्रत्ययः विधीयते ।

स्मर्तव्यम् - अत्र निर्दिष्टस्य वार्त्तिकस्य प्रयोगः केवलं "युष्मद्" तथा "अस्मद्" एतयोः शब्दयोः विषये एव कर्तव्यः । यद्यपि वार्त्तिके तादृशः स्पष्टः निर्देशः नास्ति, तथापि लघुशब्देन्दुशेखरे नागेशेन अस्मिन् विषये स्पष्टीक्रियते ।

[इ] तिङन्तेभ्यः अकच्-प्रत्ययविधानम् -
वर्तमानसूत्रेण उक्तः अकच्-प्रत्ययः भिन्नेभ्यः तिङन्तेभ्यः अपि विधीयते । यथा -
1. "पचति" इत्यस्मात् तिङन्तात् अज्ञाते 5|3|73 इत्यनेन स्वार्थे क-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य स्थाने अपवादत्वेन अकच्-प्रत्ययः आगच्छति । अयम् प्रत्ययः टि-संज्ञकात् पूर्वम् आगच्छति, अतः -"पचत् + अकच् + इ" इति जायते । इत्संज्ञालोपं वर्णमेलनं कृत्वा "पचतकि" इति सिद्ध्यति । "पचति" इत्येव अर्थः । अयम् शब्दः अपि क्रियापदरूपेणैव प्रयुज्यते । यथा - "रामः पचतकि" ।

अस्य सूत्रस्य विषये वार्त्तिकद्वयम् ज्ञातव्यम् -
1. अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः । इत्युक्ते, "तूष्णीम्" अव्ययस्य विषये अकच्-इत्यस्य स्थाने "काम्" प्रत्ययः भवति । मिदचोऽन्त्यात्परः 1|1|47 इत्यनेन अयं प्रत्ययः अन्त्यात् अचः परः आगच्छति । अतः "तूष्णीम् + काम् → तूष्णीकाम्" इति रूपं सिद्ध्यति । "तूष्णीम्" इत्यस्यैव अर्थे अयम् शब्दः प्रयुज्यते ।
2. शीले को मलोपश्च वक्तव्यः । इत्युक्ते, "तूष्णीम्" शब्दात् परम् "शील" इति उत्तरपदम् विद्यते चेत् "तूष्णीम्" शब्दात् क-प्रत्ययः तथा "तूष्णीम्" इत्यस्य मकारस्य लोपः भवति । यथा - तूष्णींशीलः (= silent character) इत्येव = तूष्णीम् + क → तूष्णीक ।
One-line meaning in English
For an अव्यय, a सर्वनामशब्द and a तिङ्गन्त word the प्रत्यय "अकच्" comes just before the "टि"संज्ञक component of that word under all the प्राग्-इवीय meanings.
काशिकावृत्तिः
तिङश्च 5|3|56 इत्येव। अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्य अपवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि सर्वके। विश्वके। उभयके। प्रातिपदिकात्, सुपः इति द्वयम् अपि इह अनुवर्तते। तत्र अभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य। अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः। स च मित्त्वादन्त्यातचः परो भवति। तुष्णीकाम् आस्ते। तूष्णीकां तिष्ठति। शीले को मलोपश्च वक्तव्यः। तूष्णींशीलः तूष्णीकः। तिङश्च 5|3|56 इति प्रकृतमत्र सम्बध्यते। पचतकि। जल्पतकि।
`कस्यापवादः` इति। ननु च भिन्नदेशत्वात्? काकचोर्विरोधो नास्ति, न चासति विरोधे बाध्यबाधकभावः, ततः कथं कस्यापवादः? नैष दोषः; नैवावश्यं देशकृत एव विरोधो भवति, अपि त्वर्थकृतोऽपीत्युक्तम्---`अकच्प्रत्ययेन समानोर्थः` इति। अकचा द्योतिततवात्? तस्यार्थस्य कप्रत्ययो न भविष्यति। यद्यत्र प्रातिपदिकादित्यनुवृत्तेः प्रातिपदिकस्य प्राक्? टेरकज्विधीयते, त्वयका मयकेत्यादि न सिध्यति? अथ सुप इति प्राक्? टेर्विधीयेत, एवमपि युष्मकाभिरिति न सिष्यति? इत्यत आह--`प्रातिपदिकात्सुपः` इति। `द्वयमपि` इत्यादि। ननु च द्वयानुवृत्तावपि क्वचित्? सुबन्तस्यैव प्राक्टेर्भवति, क्वचित्? प्रातिपदिकस्य--इत्येषा व्यवस्था न लभ्यते? इत्याह--`तत्र` इत्यादि। वचनग्रहणं व्यवस्थार्थमिहानुवत्र्तते। तेन यत्र प्रातिपदिकस्य प्राक्टेरुत्पद्यमानेनार्थद्योतनं शक्यते कर्तुम्, तत्र प्रातिपदिकस्य प्राक्? टेर्भवति; यत्र सुबन्तादुत्पन्नेनार्थद्योतनं शक्यं सम्पादयितुं, तत्र सुबन्तस्यैव। अकचश्चित्करणमन्तोदात्तार्थम्। तद्धि सप्रकृतेः समुदायस्य। तथा च वक्ष्यति--`चितः सप्रकृतेर्बह्वकजर्थम्` (वा। 6.1.169)। `तूष्णीमः काम्प्रत्ययो वक्तव्यः` इति। यथासम्भवं कुत्सादिष्वर्थेषु। चकारो देशविध्यर्थः। `शीले को मलोपश्च` इति। शीलमिति न स्वभाव एवोच्यते, किं तर्हि? नियमोऽपि। तथा हि--शीलवान्? भिक्षुरित्यभिधीयते, यः सम्यङ्नियममनुपालयतीति। तेन योऽपि नियमपरतया वाचं नियमयति सोऽपि तूष्णीक उच्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
तिङश्च (कौमुदी-2002) इत्यनुवर्तते ॥
अव्ययसर्वनाम्नामकच् प्राक् टेः - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।
अव्ययसर्वनाम्नामकच् प्राक् टेः - अव्ययसर्वनाम्नाम् । अनुवर्तते इति । मण्डूकप्लुत्येति बावः ।ङ्याप्प्रातिपदिकात्सुपः॑इति चानुवर्तत एव ।
लघुसिद्धान्तकौमुदी
कापवादः। तिङश्चेत्यनुवर्तते॥
महाभाष्यम्
अव्ययसर्वनाम्नामकच्प्राक् टेः (2229)