Page loading... Please wait.
5|3|40 - अस्ताति च
॥ तस्मै पाणिनये नमः ॥
5|3|40
SK 1976
अस्ताति च   🔊
सूत्रच्छेदः
अस्ताति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पुर्-अध्-अवः  5|3|39 (प्रथमाबहुवचनम्) , पूर्व-अधर-अवराणाम्  5|3|39 (षष्ठीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
पूर्व-अधर-अवराणाम् अस्ताति पुर्-अध्-अवः
सूत्रार्थः
"पूर्व", "अधर", "अवर" शब्दानाम् अस्ताति-प्रत्यये परे यथासङ्ख्यम् "पुर्", "अध्", "अव्" आदेशाः भवन्ति ।
"दिशा", "देश", तथा "काल" इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5|3|27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण "अस्ताति" प्रत्ययः विधीयते । अस्मिन्नवे "अस्ताति" प्रत्यये परे "पूर्व", "अधर", "अवर" इत्येतेषाम् अङ्गस्य यथासङ्ख्यम् "पुर्", "अध्", "अव्" एते आदेशाः भवन्ति । यथा -

1. पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः
पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि
= पूर्व + अस्ताति [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ पुर् + अस्तात् [ "पूर्व" इत्यस्य "पुर्" इति आदेशः]
→ पुरस्तात्

2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः
→ अधर + अस्ताति [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ अध् + अस्तात् ["अधर" इत्यस्य "अध्" आदेशः]
→ अधस्तात्

3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः
→ अवर + अस्ताति [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ अव् + अस्तात् ["अवर" इत्यस्य "अव्" आदेशः]
→ अवस्तात्

अनेन सूत्रेण निर्मितानाम् "पुरस्तात्", "अधस्तात्", "अवस्तात्" एतेषां शब्दानां तद्धितश्चासर्वविभक्तिः 1|1|38 अव्ययसंज्ञा भवति ।

ज्ञातव्यम् -
1. "अवर"शब्दस्य विषये वर्तमानसूत्रेण नित्यम् "अव्" आदेशे प्राप्ते अग्रिमसूत्रेण विभाषावरस्य 5|3|41 इत्यनेन अयम् "अव्" आदेशः विकल्पेन भवति । अतः "अवरस्तात्" अयं शब्दः अपि सिद्ध्यति ।

2. दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5|3|27 इत्यनेन "पूर्व", "अधर" तथा "अपर" शब्दानाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण "अस्ताति" प्रत्यये प्राप्ते, तं बाधित्वा पूर्वाधरावराणामसि पुरधवश्चैषाम्‌ 5|3|39 इत्यनेन "असि" प्रत्यये विधीयते । परन्तु वर्तमानसूत्रेण "अस्ताति" प्रत्यये परे एव एतेषाम् आदेशाः उक्ताः सन्ति । एतत् विधानम् अस्यैव ज्ञापकम्, यत् एतेभ्यः शब्देभ्यः "असि" प्रत्ययेन सह "अस्ताति"प्रत्ययः अपि भवितुम् अर्हति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सप्तम्यान्तम् एतत्। अस्तातिप्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति। इदम् एव आदेशविधानं ज्ञापकम् , अस्तातिरेभ्यो भवति, असिप्रत्ययेन न आध्यते इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्।
ननु चासिना बधितत्वात्? पूर्वादिभ्योऽस्तातिना न भवितव्यम्? इत्याह--`इदमेव` इत्यादि। गतार्थम्॥
अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥
सिद्धान्तकौमुदी
अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥
अस्ताति च - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति "पुरधव" इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः "पुर्" आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः "पुर्" आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः "अध्" आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः "अव्" आदेशे रूपम् ।
अस्ताति च - पुरः पुरस्तादिति । कथं तर्हिपश्यामि तामित इतः पुरतश्च पश्चा॑दिति भवभूतिः,स्यात्पुरः परुतोऽग्रतः॑इत्यमरः,पुरतः प्रथमे चाऽग्रे॑इति विआस्च ।समानकालीनं॑पूर्वकालीन॑मित्यादिवत्प्रामादिकमेवेति बहवः । केचित्तुदक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौअतसु॑जित्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति ।पुर अग्रगमने॑ क्विपि — पुर् ।र्वोः॑इति दीर्घस्तु न भवति, भत्वात् । न च अतसुचाश्चित्त्वेऽप्यकारोच्चारणं पक्षे आद्युदात्तत्वार्थमिति वाच्यं, बहूनां प्रयोगानुरोधेनाऽन्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासङ्ख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति अधस्तादागतः — इत्यादि सिध्यति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.