Page loading... Please wait.
5|3|33 - पश्च पश्चा च च्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|3|33
SK 3501
पश्च पश्चा च च्छन्दसि   🔊
सूत्रच्छेदः
पश्च (अव्ययम्) , पश्चा (अव्ययम्) , च (अव्ययम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
छन्दसि पश्च, पश्चा (निपात्येते)
सूत्रार्थः
वेदेषु "पश्च" तथा "पश्चा" एतौ शब्दौ प्रयुक्तौ दृश्येते, ते निपात्येते इति ज्ञेयम् ।
पश्चात्‌ 5|3|32 इत्यनेन पाठितस्य "पश्चात्" शब्दस्य अर्थे एव वेदेषु "पश्च" तथा "पश्चा" शब्दौ प्रयुज्येते, तयोः निपातनम् अनेन सूत्रेण दीयते । "दिशा", "देश", तथा "काल" इत्येतेषु अर्थेषु प्रयुज्यमणस्य "अपर" शब्दस्य प्रथमान्तरूपात्, पञ्चम्यन्तरूपात्, तथा च सप्तम्यन्तरूपात् स्वार्थे "अ" तथा "आ" प्रत्ययौ कृत्वा एतयोः सिद्धिः भवति । यथा -


अपरा दिक् / अपरस्याः दिशः / अपरस्याम् दिशि / अपरः देशः / अपरस्मात् देशात् / अपरस्मिन् देशे
= अपर + अ/आ [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ अपर + अ/आ
→ पश्च + अ/आ ["अपर" शब्दस्य "पश्च" आदेशः निपात्यते]
→ पश्च् + अ/आ [यस्येति च 6|4|148 इति अकारलोपः]
→ पश्च / पश्चा

यथा - सामवेदे पूर्वार्चिकायाम् 4.2.7 - "न पश्चा पश्चात् दध्यति तस्मै" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पश्चपश्चाशब्दौ निपात्येते छन्दसि विषये अस्तातेरर्थे। चकारात् पश्चादपि भवति। अपरस्य पश्चभावो ऽकाराकारौ च प्रत्ययौ निपात्येते। पुरा व्याघ्रो जायते पश्च सिंहः। पश्चा सिंहः। पश्चात् सिंहः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि (कौमुदी-2007) तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.