Page loading... Please wait.
5|3|26 - था हेतौ च च्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|3|26
SK 3500
था हेतौ च च्छन्दसि   🔊
सूत्रच्छेदः
था (प्रथमैकवचनम्) , हेतौ (सप्तम्येकवचनम्) , च (अव्ययम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
प्रकारवचने  5|3|23 (सप्तम्येकवचनम्) , किमः  5|3|25 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
किमः हेतौ प्रकारवचने च था छन्दसि
सूत्रार्थः
"किम्" शब्दात् प्रकारवचने उत हेतौ अभिधेये वेदेषु "था" प्रत्ययः कृतः दृश्यते ।
"किम्" इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् "था" प्रत्यये कृते प्राप्यमाणः "कथा" इति शब्दः वेदेषु प्रयुक्तः दृश्यते । अस्य शब्दस्य सिद्ध्यर्थ वर्तमानसूत्रस्य निर्माणम् कृतम् अस्ति । "किम्" इत्यस्मात् शब्दात् स्वार्थे "केन हेतुना" उत "केन प्रकारेण" एतयोः सन्दर्भयोः अयम् "था" प्रत्ययः वेदेषु प्रयुक्तः दृश्यते । क्रमेण पश्यामः -


1. हेतुः - हेतुः इत्युक्ते कारणम् / प्रयोजनम् । "केन हेतुना" (= केन कारणेन) इति अभिधेये "केन" इत्यस्मात् तृतीयान्तात् स्वार्थे "था" प्रत्ययं कृत्वा "कथा" इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु "केन हेतुना" इत्यस्मिन् अर्थे प्रयुक्तः दृश्यते । यथा -
ऋग्वेदे 10.146.1 - क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ।
अत्र "केन हेतुना ग्रामं न पृच्छसि" (Why do you not decorate the city - इत्याशयः) ।


2. प्रकारवचनम् - "केन प्रकारेण" इति अभिधेये अपि "केन" इत्यस्मात् तृतीयान्तात् स्वार्थे "था" प्रत्ययं कृत्वा "कथा" इति शब्दः सिद्ध्यति । अयम् शब्दः वेदेषु "केन प्रकारेण" इत्यस्मिन्नेव अर्थे प्रयुक्तः दृश्यते । यथा -
ऋग्वेदे 4.3.5 - क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑: । क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒: कद॑र्य॒म्णे कद्भगा॑य ॥
अत्र "कथा" शब्दः त्रिवारं प्रयुक्तः अस्ति । सर्वत्र अस्य अर्थः "केन प्रकारेण" इत्येव वर्तते ।

ज्ञातव्यम् - पञ्चमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् प्रारब्धः प्राग्दिशीयः विभक्त्यधिकारः अत्र समाप्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किंशब्दाद् धेतौ वर्तमानात् था प्रत्ययो भवति, चकारात् प्रकारवचने छन्दसि विषये। हेतौ तावत् कथा ग्रामं न पृच्छसि। केन हेतुना न पृच्छसि इत्यर्थः। प्रकारवचने कथा देवा आसन् पुराविदः। विभक्तिसंज्ञायाः पूर्णो ऽवधिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.