Page loading... Please wait.
5|3|24 - इदमस्थमुः
॥ तस्मै पाणिनये नमः ॥
5|3|24
SK 1972
इदमस्थमुः   🔊
सूत्रच्छेदः
इदमः (पञ्चम्येकवचनम्) , थमुः (प्रथमैकवचनम्)
अनुवृत्तिः
प्रकारवचने  5|3|23 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
प्रकारवचने इदमः थमुः
सूत्रार्थः
"इदम्" सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।
"इदम्" इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् "प्रकारवचने" वाच्ये प्रकारवचने थाल् 5|3|23 इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण "थमु" इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे "थम्" इत्येव दृश्यते । प्रक्रिया इयम् -

अनेन प्रकारेण इत्येव
= अनेन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।]
→ अनेन + थम् [उकारस्य लोपः]
→ इदम् + थम् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ इत् + थम् [एतेतौ रथोः 5|3|4 इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः]
→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1|4|17 इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8|2|39 इति जश्त्वे तकारस्य दकारः]
→ इत् + थम् [खरि च 8|4|55 इति चर्त्वे तकारः]
→ इत्थम् ।

एतादृशम् "अनेन प्रकारेण" इत्यस्मिन् अर्थे "इत्थम्" इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अस्य अव्ययसंज्ञा अपि जायते ।

अत्र एकम् वार्त्तिकम् ज्ञेयम् - थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः । इत्युक्ते, वर्तमानसूत्रेण पाठितः थमु-प्रत्ययः "एतद्" शब्दात् अपि विधीयते । यथा -
एतेन प्रकारेण इत्येव
= एतद् + थम् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ इत् + थम् [एतदोऽन् 5|3|5 इत्यस्य योगविभागेन एतद्-शब्दात् थकारादौ प्रत्यये परे तस्य इत्-आदेशः]
→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1|4|17 इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते 8|2|39 इति जश्त्वे तकारस्य दकारः]
→ इत् + थम् [खरि च 8|4|55 इति चर्त्वे तकारः]
→ इत्थम् ।

विशेषः - अस्मिन् सूत्रे "थमु" इति प्रत्यये मकारोत्तरः उकारः उच्चारणार्थः अस्ति । यद्यपि अत्र उकारः न पाठ्यते, तथापि "थम्" इति स्थिते मकारस्य हलन्त्यम् 1|3|3 इत्यनेन इत्संज्ञा नैव भवितुम् अर्हति, यतः विभक्तिप्रत्ययस्य अन्ते विद्यमानस्य मकारस्य इत्संज्ञा न विभक्तौ तुस्माः 1|3|4 इत्यनेन निषिध्यते । अतः वस्तुतः अस्मिन् सूत्रे मकारोत्तरस्य अकारस्य न किमपि प्रयोजनम् ; केवलम् "थम्" इत्येव उच्येत चेदपि साधु एव । एवं सत्यपि आचार्यः अत्र मकारात् अनन्तरम् उकारं स्थापयति । अयम् उकारः अस्य ज्ञापकम् , यत् न विभक्तौ तुस्माः 1|3|4 इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः अनित्यः अस्ति - इत्युक्ते, केषुचन स्थलेषु अयम् न विधीयते । एतत् अनित्यत्वम् एव कारणम् यत् किमोऽत्‌ 5|3|12 इत्यत्र पाठिते "अत्" प्रत्यये तकारस्य इत्संज्ञानिषेधः न भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालो ऽपवादः अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
थालोऽपवादः ॥ ।एतदोऽपि वाच्यः (वार्तिकम्) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥
इदमस्थमुः - इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम् । यद्यपि "न विभक्तौ" इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः । इत्थमिति ।एतेतौ रथो॑रिति प्रकृतेरिदम इदादेशः । एतच्छब्दात्थमुप्रत्यये तु "एतद" इति योगविभागादिदादेशः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
थालोऽपवादः। (एतदोऽपि वाच्यः)। अनेन एतेन वा प्रकारेण इत्थम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.