Page loading... Please wait.
5|3|21 - अनद्यतने र्हिलन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
5|3|21
SK 1969
अनद्यतने र्हिलन्यतरस्याम्   🔊
सूत्रच्छेदः
अनद्यतने (सप्तम्येकवचनम्) , र्हिल् (प्रथमैकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
सप्तम्याः  5|3|10 (पञ्चम्येकवचनम्) , सर्व-एक-अन्य-किम्-यत्-तदः  5|3|15 (पञ्चम्येकवचनम्) , काले  5|3|15 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दिशो विभक्तिः  5|3|1 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः  5|3|2 वा  4|1|82
सम्पूर्णसूत्रम्
किम्-सर्वनाम-बहुभ्यः अद्व्यादिभ्यः अनद्यतने काले अन्यतरस्याम् र्हिल्
सूत्रार्थः
सर्वादिगणे विद्यमानेभ्यः "सर्व" इत्यस्मात् आरभ्य "एक" इति यावद्भ्यः शब्देभ्यः, "बहु" शब्दात् तथा च "किम्" शब्दात् सप्तम्यन्तात् अनद्यतने काले अभिधेये स्वार्थे "र्हिल्" प्रत्ययः विकल्पेन भवति ।
अनेन सूत्रेण "र्हिल्" इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः "र्हि" इत्येव प्रयोगे दृश्यते ।

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5|3|2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । एतेषाम् शब्दानाम् सप्तम्यन्तरूपात् सप्तम्यास्त्रल् 5|3|10 इत्यनेन "त्रल्" इति प्रत्ययः उक्तः अस्ति । यत्र अयम् सप्तम्यन्तशब्दः "कालस्य" विशेषणरूपेण प्रयुज्यते, तत्र "सर्व", "एक", "अन्य", "किम्", "यद", "तद्" - एतेभ्यः षड्भ्यः शब्देभ्यः सर्वैकान्यकिंयत्तदः काले दा 5|3|15 इत्यनेन "दा" इति प्रत्ययः भवति, अन्येभ्यः च शब्देभ्यः "त्रल्" इत्येव प्रत्ययः क्रियते । परन्तु यत्र अयम् सप्तम्यन्तशब्दः "अनद्यतनकालस्य" (= Time that does not belong to today) विशेषणरूपेण प्रयुज्यते, तत्र एतयोः प्रत्यययोः वैकल्पिक-अपवादरूपेण "र्हिल्" इति प्रत्ययः वर्तमानसूत्रेण उच्यते । यथा -

1. कस्मिन् काले
= कस्मिन् + र्हिल्
→ किम् + र्हि [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ क + र्हि [किमः कः 7|2|103 इति "क" आदेशः]
→ कर्हि
"कस्मिन् काले" इत्यस्मिन्नेव अर्थे "कर्हि" इति शब्दः प्रयुज्यते । पक्षे "दा" प्रत्ययं कृत्वा "कदा" इत्यपि रूपं सिद्ध्यति ।

2. यस्मिन् काले
= यस्मिन् + र्हि
= यद् + र्हि [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2|4|71 इति सुप्-प्रत्ययस्य लुक्]
→ य + र्हि [त्यदादीनामः 7|2|102 इति दकारस्य अकारादेशः। अतो गुणे 6|1|97 इति पररूपम् ]
→ यर्हि

एवमेव "तर्हि", "एतर्हि", "अन्यर्हि" एते शब्दाः अपि सिद्ध्यन्ति ।

स्मर्तव्यम् -
1. अनेन सूत्रेण निर्मिताः शब्दाः "अनद्यतन काले" इत्यस्मिन् सन्दर्भे एव विधीयन्ते ।
2. अनेन सूत्रेण उक्तः "र्हिल्" प्रत्ययः विकल्पेनैव भवति । अतः पक्षे सर्वैकान्यकिंयत्तदः काले दा 5|3|15 इत्यनेन "दा" प्रत्ययः उत सप्तम्यास्त्रल् 5|3|10 इत्यनेन "त्रल्" - एताभ्याम् यथायोग्यं प्रत्ययः अपि भवितुम् अर्हति ।
3. "इदम्" शब्दात् तु इदमो र्हिल् 5|3|16 इत्यनेन सर्वेषु कालेषु अभिधेयेषु "र्हिल्" प्रत्ययः विधीयते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि इति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल् प्रत्ययो भवत्यन्तरस्याम्। कर्हि, कदा। यर्हि, यदा। तर्हि, तदा।
तसिलादिषु प्राप्तेषु हिल्प्रत्ययो विधीयते। `कहि` इति। `किमः कः` 7|2|103 । `कदा, यदा, तदा` इति। `सर्वैकान्यकियत्तदः काले दा` 5|3|15
अहन्यभिधेय इति। सप्तम्यन्तस्याहन्शब्दस्यार्थ इत्यर्थः। तद्दर्शयति--समानेऽह्नि सद्य इति। एवं संवत्सरेऽभिधेय इत्यादिष्वपि द्रष्टव्यम् । उभयोरह्नोरुभयेद्यौरिति पाठः। प्रायेण तु उभयस्मिन्नहनीति पठ।ल्ते, तत्रोभे अहनी अवयवौ यस्य समुदायस्य तदहर्द्वयमुभयमहरित्युक्तम् ॥
सिद्धान्तकौमुदी
कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥
अनद्यतने र्हिलन्यतरस्याम् - अनद्यतने र्हिल् । अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः । पक्षे दाप्रत्ययः । एतर्हीति । एतच्छब्दात् र्हिल् । "एतद" इति योगविभागाद्रेफादौ एतादेशः ।
अनद्यतने र्हिलन्यतरस्याम् - एतस्मिन्काले एतर्हीति ।एतदः॑इति योगविबागाद्रेफादावेतादेशः ।
लघुसिद्धान्तकौमुदी
कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.