Page loading... Please wait.
5|3|116 - दामन्यादित्रिगर्तषष्ठाच्छः
॥ तस्मै पाणिनये नमः ॥
5|3|116
SK 2069
दामन्यादित्रिगर्तषष्ठाच्छः   🔊
सूत्रच्छेदः
दामन्यादि-त्रिगर्तषष्ठात् (पञ्चम्येकवचनम्) , छः (प्रथमैकवचनम्)
अनुवृत्तिः
आयुधजीविसङ्‍घात्  5|3|114 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
आयुधजीविसङ्‍घात् दामन्यादि-त्रिगर्तषष्ठात् छः
सूत्रार्थः
आयुधजीविनाम् सङ्घस्य निर्देशवाचिभ्यः दामन्यादिगणस्य शब्देभ्यः त्रिगर्तषष्ठेभ्यः च स्वार्थे छ-प्रत्ययः भवति ।
"दामन्यादिगणः" इति कश्चन शब्दसमूहः । अस्मिन् समूहे विद्यमानाः शब्दाः यदि आयुधजीविनाम् सङ्घस्य निर्देशं कुर्वन्ति, तदा तेभ्यः स्वार्थे "छ" प्रत्ययः विधीयते । तथैव, आयुधजीविनाम् ये सङ्घाः "त्रिगर्तषष्ठ" नाम्ना ज्ञायन्ते, तेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । क्रमेण पश्यामः -

1. दामन्यादिगणः - अस्मिन् शब्दे एते सङ्घवाचकाः शब्दाः पाठ्यन्ते - दामनि, औलपि, आकिदन्ती, काकरन्ति, काकदन्ति, शत्रुन्तपि, सार्वसेनि, बिन्दु, मौञ्जायन, उलभ, सावित्रीपुत्र ।
एते सर्वे शब्दाः यदा आयुधजीवीनाम् सङ्घस्य नामरूपेण प्रयुज्यते, तदा तेभ्यः स्वार्थे "छ" प्रत्ययः भवति । यथा -
अ) दामनि इत्येव
= दामनि + छ
→ दामनि + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति छकारस्य ईय-आदेशः]
→ दामन् + ईय [यस्येति च 6|4|148 इति इकारलोपः]
→ दामनीय
एवमेव -
आ) औलपि इत्येव = औलपीयः ।
इ) आकिदन्ती इत्येव = आकिदन्तीयः ।

2. त्रिगर्तषष्ठः - केचन आयुधजीविनः सङ्घाः "त्रिगर्तषष्ठ" इति नाम्ना अपि ज्ञायन्ते । एतेषाम् आवली एकेन श्लोकेन दीयते -
आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानकिः।
इत्युक्ते, "कौण्डोपरथ", "दाण्डकि", "क्रौष्टकि", "जालमानि", "ब्रह्मगुप्त" (कुत्रचित् "ब्राह्मगुप्त" इत्यपि दृश्यते) तथा "जानकि" (कुत्रचित् "जालकि" इत्यपि दृश्यते) एते षट् आयुधजीविनः सङ्घाः "त्रिगर्तषष्ठः" नाम्ना ज्ञायन्ते । एतेभ्यः अपि स्वार्थे छ-प्रत्ययः भवति । यथा -
अ) कौण्डोपरथः इत्येव = कौण्डोपरथीयः ।
आ) दाण्डकिः इत्येव = दाण्डकीयः ।

स्मर्तव्यम् -

1. समर्थानां प्रथमात् वा 4|1|86 इत्यस्मात् "वा" इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः छ-प्रत्ययः विकल्पेनैव भवति । अतः "दामनिः" इत्यपि साधु प्रयोगः, "दामनीयः" इत्यपि च साधु प्रयोगः ।

2. अनेन सूत्रेण उक्तस्य छ-प्रत्ययस्य ञ्यादयस्तद्राजाः 5|3|119 इत्यनेन "तद्राज" इति संज्ञा भवति । तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2|4|62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । इत्युक्ते, अत्र "दामनि" शब्दस्य बहुवचनस्य प्रक्रियायाम् "छ" प्रत्ययस्य लुक् भवति । यथा -
दामनी + छ + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ दामनि + जस् [छ-प्रत्ययस्य तद्राजस्य बहुषु तेनैवास्त्रियाम् 2|4|62 इति लुक्]
→ दामनयः
अतः "दामनीय" शब्दस्य रूपाणि - "दामनीयः, दामनीयौ, दामनयः" इति भवति । एवमेव अन्येषां विषये अपि ज्ञेयम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आयुधजीविसङ्घातिति वर्तते। दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति। येषाम् आयुधजीविनां सङ्घानां षडन्तवर्गास् तेषाम् च त्रिगर्तः षष्ठः। त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्युच्यन्ते। तेषु च इयं स्मृतिः आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी। क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तो ऽर्थ जानकिः। इति। दामन्यादिभ्यस् तावत् दामनीयः, दामनीयौ, दामनयः। औलपीयः, औलपीयौ, उलपयः। त्रिगर्तषष्ठेभ्यः खल्वपि कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः। दाण्डकीयः, दाण्डकीयौ, दाण्डकयः। कौष्टकीयः। जालमानीयः। ब्रहमगुप्तीयः। जानकीयः। दामनी। औलपि। आकिदन्ती। काकरन्ति। काकदन्ति। शत्रुन्तपि। सार्वसेनि। बिन्दु। मौञ्जायन। उलभ। सावित्रीपुत्र। दामन्यादिः।
`तेषु चेयं स्मृतिः` इति त्रिगत्र्तषष्ठाः स्मय्र्यन्ते ज्ञायन्तेऽनयेति स्मृतिः। सा पुनः--`आहुस्त्रिगत्र्तषष्ठान्` इति। अयमेवाप्तप्रणीतश्लोकः एषु च त्रिगत्र्तषष्ठेषु प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः। केचिदतद्धितान्तमेव पञ्चमं पठन्ति। तेषां ब्राहृगुप्तशब्दादेव च्छो भवति॥
अभिजयतीत्यभिजित्, वेतीति विदः, इगुपधलक्षणः कः, तान्बिभर्तीति विदभृत्, अन्ये मन्वन्ताः। अभिजिदादिभ्योऽणन्तेभ्य इति। सूत्रेऽभिजिदादय एवाणिति विशेषण समासः। अभिजिदादिप्रकृतयश्चाणन्ता अभिजिदादयः उच्यन्ते। गोत्रप्रत्ययस्येति। अपत्यप्रत्ययस्येत्यर्थः। आभिजितो मुहूर्त इति। ठ्नक्षत्रेण युक्तःऽ इत्यण्, उतरस्य--ठ्सास्य देवताऽ इति। इहाभिजित्यस्यायम् आभिजितक इति ठ्गोत्रचरणाद्वुञ्ऽ भवति, ठापत्यस्यऽ इति यलोपः। गोत्रप्रत्ययान्ताद्ध्ययमिष्यते। तेन स्वार्थिकत्वादयमपि यञ् गोत्रप्रत्यय एव भवति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां पञ्चमस्याध्यायस्य तृतीयः पादः ॥
सिद्धान्तकौमुदी
दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥
दामन्यादित्रिगर्तषष्ठाच्छः - दामन्यादि । दानिरादिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगत्र्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी । फलितमाह — दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगत्र्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह — आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः ।जालकि॑रिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ । शेष इञन्तः । दामादिगणमुदाहरति — दामनीय इति । दामनिरेव दामनीयः । औलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात्स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकीय इति । दाण्डकिशब्दात्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः — इत्यप्युदाहार्यम् ।
दामन्यादित्रिगर्तषष्ठाच्छः - दामन्यादित्रिगर्तषष्ठात् । समाहारद्वन्द्वात्पञ्चमी । त्रिगर्तषष्ठेभ्य इति । येषामायुधजीविनां षङन्तर्वर्गाः, षष्ठवर्गस्तु त्रिगर्तस्तेभ्य इत्यर्थः । त्रिगर्तवर्गषष्ठकाः के इत्याकाङ्क्षायामाह — -आहुस्त्रिगर्तषष्ठांश्चेति । अत्र जानकयस्त्रिगर्तवर्गः । तेषु च त्रिगर्तषष्ठेषु[तु]प्रथमपञ्चमौ कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः । केचित्तु अतद्धितान्तमेव पञ्चमं ब्राहृगुप्तशब्दं पठन्ति । कौण्डोपरथीय इति । बहुवचने तु कौण्डोरपथाः दाण्डकय इत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.