Page loading... Please wait.
5|3|108 - अङ्गुल्यादिभ्यष्ठक्
॥ तस्मै पाणिनये नमः ॥
5|3|108
SK 2063
अङ्गुल्यादिभ्यष्ठक्   🔊
सूत्रच्छेदः
अङ्‍गुल्यादिभ्यः (पञ्चमीबहुवचनम्) , ठक् (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अङ्गुल्यादिभ्यः इवे ठक्
सूत्रार्थः
अङ्गुल्यादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे स्वार्थे "ठक्" इति प्रत्ययः भवति ।
अङ्गुल्यादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे "ठक्" इति प्रत्ययः भवति ।

अङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश ।

उदाहरणानि -
1. अङ्गुलिः इव
= अङ्गुलि + ठक्
→ अङ्गुलि + इक [ठस्येकः 7|3|50 इति इक्]
→ आङ्गुलि + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ आङ्गुल् + इक [यस्येति च 6|4|148 इति इकारलोपः]
→ आङ्गुलिक

2. बभ्रुः इव
= बभ्रु + ठक्
→ बभ्रु + क [इसुसुक्तान्तात् कः 7|3|51 इति ककारादेशः]
→ बाभ्रु + क [किति च 7|2|118 इति आदिवृद्धिः]
→ बाभ्रुक ।

3. उदश्वित् इव
= उदश्वित् + ठक्
→ उदश्वित् + क [इसुसुक्तान्तात् कः 7|3|51 इति ककारादेशः]
→ औदश्वित् + क [किति च 7|2|118 इति आदिवृद्धिः]
→ औदश्वित्क


विशेषः -
1. स्त्रीत्वे विवक्षिते सर्वत्र टिड्ढाणञ्.. 4|1|15 इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे ठक्-प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अङ्गुल्यादिभ्यः इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीव आङ्गुलिकः। भारुजिकः। अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥
अङ्गुल्यादिभ्यष्ठक् - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.