Page loading... Please wait.
5|3|103 - शाखादिभ्यो यत्‌
॥ तस्मै पाणिनये नमः ॥
5|3|103
SK 2058
शाखादिभ्यो यत्‌   🔊
सूत्रच्छेदः
शाखादिभ्यः (पञ्चमीबहुवचनम्) , यत् (प्रथमैकवचनम्)
अनुवृत्तिः
इवे  5|3|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
शाखादिभ्यः इवे यत्
सूत्रार्थः
शाखादिगणस्य शब्देभ्यः "इव" अस्मिन् सन्दर्भे स्वार्थे "यत्" प्रत्ययः विधीयते ।
शाखादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे "यत्" इति प्रत्ययः भवति ।

शाखादिगणः अयम् - शाखा, मुख, जघन, शृङ्ग, मेघ, चरण, स्कन्ध, शिरस्, उरस्, अग्र, शरण, सोम।

रूपाणि एतानि -
1. शाखा इव = शाखा + यत् → शाख्य ।
2. मुखः इव = मुख्य । यथा मुखम् शरीरस्य प्रमुखः अवयवः, स एव च भाषते (अन्ये अवयवाः न भाषन्ते), तथैव यः सङ्घस्य प्रमुखः सः "मुख्यः" इत्यनेन निर्दिश्यते ।
3. जघनः इव = जघन्य ।
4. शृङ्गः इव = शृङ्ग्यः ।
5. मेघः इव = मेघ्यः ।
6. चरणः इव = चरण्यः ।
7. स्कन्धः इव = स्कन्ध्यः ।
8. शिरः इव = शिरस्यः ।
9. उरः इव = उरस्यः ।
10. अग्रः इव = अग्र्यः ।
11. शरणः इव = शरण्यः ।
12. सोमः इव = सोम्यः ।

विशेषः -
1. स्त्रीत्वे विवक्षिते सर्वत्र अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः विधीयते । यथा - मुख्या, शाख्या - आदयः ।
2. केषुचन पुस्तकेषु / संस्करणेषु अत्र "यत् " इत्यस्य स्थाने "य" इति प्रत्ययः पाठ्यते ।परन्तु तत् असमीचीनम् अस्ति इति बालमनोरमायां स्पष्टीक्रियते ।

स्मर्तव्यम् - इवे प्रतिकृतौ 5|2|96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शाखादिगणस्य शब्देभ्यः "इव" इति सन्दर्भे यत्-प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शाखा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरन। शाखादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥
शाखाऽ‌ऽदिभ्यो यत् - शाखादिभ्यो यत् । "य" इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.