Page loading... Please wait.
5|2|86 - पूर्वादिनिः
॥ तस्मै पाणिनये नमः ॥
5|2|86
SK 1886
पूर्वादिनिः   🔊
सूत्रच्छेदः
पूर्वात् (पञ्चम्येकवचनम्) , इनिः (प्रथमैकवचनम्)
अनुवृत्तिः
अनेन  5|2|85 (तृतीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"अनेन" (इति) पूर्वात् इनिः
सूत्रार्थः
"अनेन (कृतम्)" अस्मिन् अर्थे कालवाचकात् "पूर्व" शब्दात् इनि-प्रत्ययः भवति ।
अनेन सूत्रेण "पूर्व" इति शब्दात "इनि" इति प्रत्ययं कृत्वा "पूर्विन्" इति प्रातिपदिकस्य निर्माणम् क्रियते । इदम् प्रातिपदिकम् कस्मिन् अर्थे प्रयुज्यते इति सूत्रात् तु न स्पष्टीभवति परन्तु व्याख्यानैः अस्य स्पष्टीकरणम् दीयते । केनचन मनुष्येन काचन क्रिया यदि "पूर्वस्मिन् काले" कृता विद्यते, तर्हि तस्य मनुष्यस्य निर्देशः "पूर्वी" इत्यनेन भवति । यथा -

1. पूर्वम् अनेन गतम् सः पूर्वी । One who has left in past.
2. पूर्वम् अनेन पीतम् सः पूर्वी । One who has drank in past.
3. पूर्वम् अनेन भुङ्क्तम् सः पूर्वी । One who has ate in past.
4. पूर्वम् अनेन कृतम् सः पूर्वी । One who has done in past.

शिष्टप्रयोगं दृष्ट्वैव अस्य सूत्रस्य प्रयोगः करणीयः इति स्मर्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनेन इति प्रत्ययार्थः कर्ता ऽनुवर्तते। न च क्रियाम् अन्तरेण कर्ता सम्भवति इति यां काञ्चित् क्रियामध्याहृत्य प्रत्ययो विधेयः। पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं गतम् अनेन पीतम् भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः।
`पूर्व गतं पीतं भूक्तम्` इति। पूर्वशब्दोऽत्र क्रियाविशेषणत्वात्? कर्म भवतीति द्वितीयासमर्थात्? प्रत्ययो विज्ञायते। `पूर्वो` इति। `सौ च` 6|4|13 इति दीर्घः॥
पूर्वं गतमनेनेत्यादि। क्रियाविसेषणाद् द्वितीयान्तात्प्रत्ययः ॥
सिद्धान्तकौमुदी
पूर्वं कृतमनेन पूर्वी ॥
पूर्वादिनिः - पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः ।
पूर्वादिनिः - पूर्वादिनिः । पूर्वमिति क्रियाविशेषणाद्द्वितीयान्तात्प्रत्ययः ।अनेने॑ति कर्तृवाचकमनुवर्तते । न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्मत्य प्रत्ययो विधेयस्तदाह — -पूर्व कृतमनेनेति ।
लघुसिद्धान्तकौमुदी
पूर्वं कृतमनेन पूर्वी॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.