Page loading... Please wait.
5|2|84 - श्रोत्रियंश्छन्दोऽधीते
॥ तस्मै पाणिनये नमः ॥
5|2|84
SK 1884
श्रोत्रियंश्छन्दोऽधीते  
सूत्रच्छेदः
श्रोत्रियन् (प्रथमैकवचनम्) , छन्दः (द्वितीयैकवचनम्) , अधीते (क्रियापदम्)
अनुवृत्तिः
वा  5|2|77 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"छन्दः अधीते" (इति) श्रोत्रियन् वा (निपात्यते)
सूत्रार्थः
"छन्दः अधीते" अस्मिन् अर्थे "श्रोत्रिय" इति शब्दः विकल्पेन निपात्यते ।
"छन्दः अधीते" (studies a certain part of vedas) अस्मिन् अर्थे "श्रोत्रिय" इति शब्दः अनेन सूत्रेण निपात्यते । छन्दः अधीते सः श्रोत्रियः ।

"श्रोत्रिय" शब्दस्य निर्माणप्रक्रिया एतादृशम् दीयते -
छन्दः अधीते
→ श्रोत्र + घन् [छन्दस्-शब्दस्य निपातनात् "श्रोत्र" इति आदेशः, "घन्" इति च प्रत्ययः]
→ श्रोत्र + इय [नकारस्य इत्संज्ञा, लोपः । आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति इय-आदेशः ]
→ श्रोत्र् + इय [यस्येति च 6|4|148 इति अकारलोपः]
→ श्रोत्रिय

स्मर्तव्यम् - "छन्दः अधीते" इत्यत्र तदधीते तद्वेद 4|2|59 इत्यस्मिन् अर्थे अण्-प्रत्ययं प्रयुज्य "छान्दस" इति अपि शब्दः सिद्ध्यति । अतएव वर्तमानसूत्रे "वा" इति ग्रहणम् कृत्वा "श्रोत्रियः इति विकल्पेन निपात्यते" इति निर्देशः क्रियते । पक्षे "छान्दसः" इत्यपि साधु - इति एव अत्र आशयः ।

विशेषः - अस्मिन् सूत्रे "श्रोत्रियन्" इत्यत्र निर्दिष्टः नकारः इत्संज्ञकः अस्ति, येन "श्रोत्रिय" शब्दस्य आदिस्वरः ञ्नित्यादिर्नित्यम् 6|1|197 इति आद्युदात्तत्वं प्राप्नोति । अतएव अत्र निर्दिष्टायां प्रक्रियायाम् "घन्" इति नित्-प्रत्ययः गृह्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
श्रोत्रियनिति निपात्यते छन्दो ऽधीते इत्येतस्मिन्नर्थे। नकारः स्वरार्थः। श्रोत्रियो ब्राह्मणः। श्रोत्रियंश् छन्दो ऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन् च प्रत्ययः। कथं छन्दो ऽधीते छन्दसः? बाग्रहणम् अनुवर्तते तावतिथं ग्रहणम् इति लुग् वा 5|2|77 इत्यतः।
`नकारः स्वरार्थः` इति। ननु च नकार इद् यस्य तर्स्मिन्निति परतः स्वर उच्यते, न च समुदायानुबन्धे नकारे नित्परत्वमस्ति? नैष दोषः; न एवेत् नित्, तत्पुरुषोऽयम्। तेन नकार इत्संज्ञे परतः पूर्वस्य स्वरो भविष्यति। किं पुनरत्र निपात्यते? इत्याह--`छन्दोऽधीते` इति। अस्य वाक्यस्यार्थे श्रोतिंरयन्निति निपात्यते। `छन्दसो वा` इत्यादि। पूर्वत्र वाक्यार्थे पदमविद्यमानप्रकृतिप्रत्ययविभागं निपातितम्; इदानीं तु प्रकृतिप्रत्ययौ निपात्येते तदवीत इत्यस्मिन्नर्थे। अत्र यद्यपि निदित बहुव्रीहिः, तथापि स्वरः सिध्यत्येव; घन्प्रत्ययस्य नितः परस्य विद्यमानत्वात्।`कथम्` इत्यादि। यदि च्छब्दःशब्दस्य श्रोत्रशब्द आदेशो घंश्च प्रत्ययः `तदधीते` इत्यस्मिन्नर्थे निपात्यते, निपातनेन बाधितत्वादत्रार्थे च्छान्दस इति न सिष्यतीत्यभिप्रायः॥
वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्च्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्वभूतः। श्रोत्रियशब्दस्तु सत्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यातदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम्--नश्चासाविच्च नित्, तत्र परत इति। कथमित्यादि। च्छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च च्छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह--यश्च्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। ठेकां शाखामधीत्य श्रोत्रियो भवतिऽ इति धर्मसास्त्रम् ॥
सिद्धान्तकौमुदी
श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
श्रोत्रियंश्छन्दोऽधीते - श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यवृत्तेरिति ।तावतिथ॑मिति सूत्रान्मण्डूकप्लुत्ये॑ति शेषः । ततश्च घनभावे अद्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।
श्रोत्रियंश्छन्दोऽधीते - श्रोत्रियन् । यश्छन्दोऽधीते सः श्रोत्रियो भवति । अत्र भाष्येछन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते॑इति वाक्यार्थे पदवचनपक्षः ।छन्दसो वा श्रोत्रभावो निपात्यते, तदधीत इत्येतस्मिन्नर्थे, घश्च प्रत्ययः॑इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेनवाक्यार्थस्य =संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात्,श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्ययी अभिधीयत इति ।एकां शाखामधीत्य श्रोत्रियो भवती॑ति धर्मशास्त्रम् । वेत्यनुवृत्तेरिति ।तावतिथं ग्रहणमिति लुग्वे॑त्यतः ।
लघुसिद्धान्तकौमुदी
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥
महाभाष्यम्
श्रोत्रियंश्छन्दोऽधीते (2102) (घप्रत्ययनिपातनाधिकरणम्) (वार्तिकावतरणभाष्यम्) किं निपात्यते? (5752 सूत्रार्थोपोद्बलकवार्तिकम्।। 1 ।।) - श्रोत्रियंश्छन्दोऽधीत इति वाक्यार्थे पदवचनम् - (भाष्यम्) छन्दोऽधीत इत्यस्य वाक्यस्यार्थे श्रोत्रियन् इत्येतत्पदं निपात्यते।। (5753 प्रकारान्तरवर्णनवार्तिकम्।। 2 ।।।) - छन्दसो वा श्रोत्रभावः, तदधीत इति घंश्च - (भाष्यम्) छन्दसो वा श्रोत्रभावो निपात्यते, तदधीते इत्यस्मिन्नर्थे घंश्च प्रत्ययः। छन्दोऽधीते ‐ श्रोत्रियः।।