Page loading... Please wait.
5|2|83 - कुल्माषादञ्
॥ तस्मै पाणिनये नमः ॥
5|2|83
SK 1883
कुल्माषादञ्   🔊
सूत्रच्छेदः
कुल्माषात् (पञ्चम्येकवचनम्) , अञ् (प्रथमैकवचनम्)
अनुवृत्तिः
अस्मिन्  5|2|8 (सप्तम्येकवचनम्) , संज्ञायाम्  5|2|83 (सप्तम्येकवचनम्) , प्राये  5|2|83 (सप्तम्येकवचनम्) , अन्नम्  5|2|83 (प्रथमैकवचनम्) , तत्  5|2|83 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अन्नम् अस्मिन्" (इति) संज्ञायाम् कुल्माषात् प्राये अञ्
सूत्रार्थः
"तत् अन्नम् बाहुल्येन विद्यते" इत्यस्मिन् अर्थे प्रथमासमर्थात् "कुल्माष"शब्दात् संज्ञायाः निर्देशार्थम् अञ् -प्रत्ययः भवति ।
"तत् अन्नम् बाहुल्येन विद्यते" इत्यस्मिन् अर्थे प्रथमासमर्थात् अन्नवाचिशब्दात् संज्ञायाः निर्देशार्थम् तदस्मिन्नन्नं प्राये संज्ञायाम्‌ 5|2|82 अनेन सूत्रेण औत्सर्गिकरूपेण कन्-प्रत्यये विहिते "कुल्माष"(a certain type of grain) शब्दात् अस्य अपवादरूपेण "अञ्" प्रत्ययः भवति । कुल्माषाः प्रायेण अन्नम् अस्याम् पौर्णमास्याम्, सा कौल्माषी पौर्णमासी । प्रक्रिया इयम् -

कुल्माष + अञ्
→ कौल्माष + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ कौल्माष् + अ [यस्येति च 6|4|148 इति अकारलोपः]
→ कौल्माष
→ कौल्माष + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4|1|15 इति ङीप्]
→ कौल्माष् + ई [यस्येति च 6|4|148 इति अकारलोपः]
→ कौल्माषी
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुल्माषशब्दातञ् प्रत्ययो भवति, तदस्मिन्नन्नं प्राये संज्ञायाम् 5|2|82 इत्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेण अन्नमस्याम् कौल्माषी पौर्णमासी।
संज्ञाग्रहणेन पूर्वेण कनः प्राप्तावसत्यां वाक्येनाभिधाने प्राप्ते मत्वर्थीये मतुबादाविदमुच्यते। `व्कौल्माणी` इति। `टिड्ढाणञ्` 4|1|15 इति ङीप्॥
कुल्माषाःउमुद्गाः ॥
सिद्धान्तकौमुदी
कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
कुल्माषादञ् - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.