Page loading... Please wait.
5|2|58 - षष्ट्यादेश्चासंख्यादेः
॥ तस्मै पाणिनये नमः ॥
5|2|58
SK 1858
षष्ट्यादेश्चासंख्यादेः   🔊
सूत्रच्छेदः
षष्टि-आदेः (पञ्चम्येकवचनम्) , च (अव्ययम्) , असङ्‍ख्या-आदेः (पञ्चम्येकवचनम्)
अनुवृत्तिः
डट्  5|2|48 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , पूरणे  5|2|48 (सप्तम्येकवचनम्) , तस्य  5|2|48 (षष्ठ्येकवचनम्) , तमट्  5|2|56 (प्रथमैकवचनम्) , नित्यम्  5|2|57 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य पूरणे" (इति) असङ्ख्यादेः षष्ट्यादेः डटः नित्यम् तमट् |
सूत्रार्थः
असङ्ख्यादयः "षष्टि" आदयः ये शब्दाः, तेभ्यः "पूरणः" अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् "तमट्" आगमः भवति ।
तस्य पूरणे डट् 5|2|48 अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः "पूरणम्" अस्मिन् अर्थे औत्सर्गिकरूपेण "डट्" इति प्रत्ययः भवति । "विंशति" तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य विंशत्यादिभ्यस्तमडन्यतरस्याम् 5|2|56 इत्यनेन "तमट्" इति विकल्पेन आगमः अपि भवति । परन्तु "षष्टि", "सप्तति", अशीति", तथा "नवति" एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् तमट्-आगमः विधीयते ।

यथा -
1. षष्टेः पूरणम् षष्टितमः ।
2. सप्ततेः पूरणः सप्ततितमः ।
3. अशीतेः पूरणः अशीतितमः ।
4. नवतेः पूरणः नवतीतमः ।

ज्ञातव्यम् -
1. अस्य सूत्रस्य प्रसक्तिः "असङ्ख्यादेः" विषये एव अस्ति । अतः एकषष्टि, द्विषष्टि, एकसप्तति - एतेषां विषये वर्तमानसूत्रम् न प्रयुज्यते, अतः तेभ्यः विहितस्य डट्-प्रत्ययस्य विकल्पेनैव तमट्-आगमः भवति । यथा - एकषष्टः / एकषष्टितमः , एकसप्ततः / एकसप्ततितमः - आदयः ।
2. "शत" इत्यस्मात् अग्रे विद्यमानाः ये शब्दाः तेभ्यः विहितस्य डट्-प्रत्ययस्य तु नित्यं शतादिमासार्धमाससंवत्सराच्च 5|2|57 इत्यनेन नित्यमेव "तमट्" आगमः भवति । अतः वर्तमानसूत्रस्य प्रसक्तिः केवलम् "षष्टि", "सप्तति", अशीति", तथा "नवति" एतेषां विषये एव वर्तते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति। विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेः इति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः।
प्राक्शतात्? षष्टआदायो विज्ञेयाः। शतादीनां स्वशब्देन तमटो विधानात्॥
संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ॥
सिद्धान्तकौमुदी
षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य--(कौमुदी-1856) इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥
षष्ट्यादेश्चासंख्याऽ‌ऽदेः - षष्ठआदेश्चासह्ख्यादेः । सङ्ख्यापूर्वपदात्पष्टआदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । विंशत्यादिभ्यः॑ इति विकल्पस्याऽपवादः । एकषष्टः एकषष्टितम इति । सङ्ख्यादित्वान्नित्यस तमटोऽभावे "विंशत्यादिभ्यः" इति डटस्तमड्विकल्पः । तमडभावे डटियस्येति चे॑ति इकारलोपे "एकषष्ट" इति रूपम् । ननु केवलसात्षष्टआदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपिग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति । तेन "विंशत्यादिभ्यः" इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवंच "एकान्नविंशतितमः" इत्यपि सिद्धम् ।
षष्ट्यादेश्चासंख्याऽ‌ऽदेः - षष्टदेश्चेति ।विशत्यादिभ्यः॑इति विकल्पे प्राप्ते नित्यार्थोऽमारम्भः । सङ्ख्यादेस्त्विति । एतच्च प्राक्शताब्दोध्यम्,नित्यं शतादी॑त्युक्तत्वात् । मतौ छः । मत्वर्थ इति । मतोर्विषय इत्यर्थः । तेनत॑दिति प्रथमा समर्थविभक्तिः,अस्याऽस्मि॑न्निति प्रत्ययार्थश्चेह लभ्यते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षष्टदेश्चासंख्यादेः (2076) (पदकृत्यभाष्यम्) असंख्यादेरिति किमर्थम्? इह मा भूत् ‐ एकषष्टः, द्विषष्टः।। (असङ्ख्यादिपदस्य वैर्यथ्यबोधकभाष्यम्) असंख्यादेरिति शक्यमवक्तुम्। कस्मान्न भवति ‐ एकषष्टः, द्विषष्ट इति? षष्टिशब्दात्प्रत्ययो विधीयते, कः प्रसङ्गो यदेकषष्टिशब्दात्स्यात्। नैव प्राप्नोति नार्थः प्रतिषेधेन। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।। (असङ्ख्यादिपदस्य ज्ञापकत्वबोधकभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः ‐ भवतीह तदन्तविधिरिति। किमेतस्य ज्ञापने प्रयोजनम्? एकविंशतितमः-एतत्सिद्धं भवति।।