Page loading... Please wait.
5|2|50 - थट् चच्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|2|50
SK 3497
थट् चच्छन्दसि   🔊
सूत्रच्छेदः
थट् (प्रथमैकवचनम्) , च (अव्ययम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
संख्यायाः  5|2|47 (पञ्चम्येकवचनम्) , पूरणे  5|2|48 (सप्तम्येकवचनम्) , तस्य  5|2|48 (षष्ठ्येकवचनम्) , असङ्‍ख्यादेः  5|2|49 (पञ्चम्येकवचनम्) , मट्  5|2|49 (प्रथमैकवचनम्) , नान्तात्  5|2|49 (पञ्चम्येकवचनम्) , डट्  5|2|58 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य पूरणे" (इति) असङ्ख्यादेः नान्तात् सङ्ख्यायाः डटः छन्दसि मट् थट् च
सूत्रार्थः
यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् "पूरणः" इत्यस्मिन् अर्थे विहितस्य "डट्" प्रत्ययस्य वेदेषु "थट्" उत "मट्" आगमः कृतः दृश्यते ।
तस्य पूरणे डट् 5|2|48 अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः "पूरणः" अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । यदि अत्र विहितः प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदम् अन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य वेदेषु "थट्" आगमः उत "मट्" आगमः कृतः दृश्यते ।

अस्य सूत्रस्य प्रसक्तिः "पञ्चन्", "सप्तन्", "अष्टन्", "नवन्" तथा "दशन्" एतेषां विषये एव भवति, यतः "एकादशन्" इत्यतः अग्रे विद्यमानानाम् नकारान्तशब्दानाम् पूर्वपदम् अपि सङ्ख्यावाची शब्दः एव अस्ति ।

मट्-आगमे परे रूपाणि -
1. पञ्चन् + मट् + डट् → पञ्चम ।
2. सप्तन् + मट् + डट् → सप्तम ।
3. अष्टन् + मट् + डट् → अष्टम ।
4. नवन् + मट् + डट् → नवम ।
5. दशन् + मट् + डट् → दशम ।

थट्-आगमे परे रूपाणि -
1. पञ्चन् + थट् + डट् → पञ्चथ ।
2. सप्तन् + थट् + डट् → सप्तथ ।
3. अष्टन् + थट् + डट् → अष्टथ ।
4. नवन् + थट् + डट् → नवथ ।
5. दशन् + थट् + डट् → दशथ ।

सर्वत्र सङ्ख्यावाचिनः शब्दस्य अन्ते विद्यमानस्य नकारस्य नलोपः प्रातिपदिकान्तस्य 8|2|7 इति लोपः भवति ।

स्मर्तव्यम् -
1. "थट्" इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् "आद्यन्तौ टकितौ 1|1|46 इत्यनेन आद्यवयवविधानम्" - इति अस्ति ।
2. अस्मिन् सूत्रे "च" इति उक्तम् अस्ति, परन्तु तस्य अर्थः "थट् आगमः मट्-आगमः च कृतः दृश्यते" इति न कर्तव्यः । उभावपि आगमौ एकस्मिन्नेव शब्दे कदापि न भवतः । "केषुचन स्थलेषु थट्-आगमः कृतः दृश्यते, केषुचन अन्येषु च स्थलेषु मट्-आगमः कृतः दृश्यते" इति अत्र चकारेण स्पष्टीक्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नान्तादसङ्ख्यादेः परस्य डटः छन्दसि विषये थडागमो भवति। चकारात् पक्षे मडपि भवति। पर्णमयानि पञ्चथानि भवन्ति। पञ्चथः। सप्तथः। मट् पञ्चममिन्द्रियस्यापाक्रामत्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - (कौमुदी-1889) । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.