Page loading... Please wait.
5|2|5 - सर्वचर्मणः कृतः खखञौ
॥ तस्मै पाणिनये नमः ॥
5|2|5
SK 1806
सर्वचर्मणः कृतः खखञौ   🔊
सूत्रच्छेदः
सर्व-चर्मणः (पञ्चम्येकवचनम्) , कृतः (प्रथमैकवचनम्) , ख-खञौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"चर्मणः सर्वः कृतः" (इति) ख-खञौ
सूत्रार्थः
तृतीयासमर्थात् सर्वचर्मन्-शब्दात् "सर्वः कृतः" अस्मिन् अर्थे ख तथा खञ्-प्रत्ययौ भवतः ।
अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् बिन्दुद्वयम् ज्ञातव्यम् -

1. अनेन सूत्रेण उक्तौ ख-खञ्-प्रत्ययौ "तृतीयासमर्थात्" उच्येते । अत्र वस्तुतः कोऽपि तृतीयासमर्थः शब्दः नास्ति, परन्तु "कृतः" इत्यनेन "तेन कृतः" इति अर्थः स्पष्टीभवति, अतः अत्र "तृतीयासमर्थात्" सर्वचर्मन्-शब्दात् प्रत्ययविधानम् क्रियते ।
2. यद्यपि अस्मिन् सूत्रे "सर्वचर्म" शब्दात् प्रत्ययः उच्यते, तथापि अत्र "सर्वचर्मन्" इति मूलम् प्रातिपदिकम् नास्ति, यतः "सर्व" शब्दस्य अन्वयः अत्र "चर्मन्" इत्यनेन सह न क्रियते, अपितु "कृतः" इत्यनेन सह क्रियते । "चर्मणा सर्वम् कृतम्" इति अत्र विग्रहवाक्यं दत्त्वा अग्रे प्रत्ययविधानम् "सर्वचर्मन्" शब्दात् कर्तव्यम् । अतएव व्याख्यानानि अत्र "असमर्थ-समासः" अस्ति स्पष्टीकुर्वन्ति ।

इदानीम् सूत्रार्थः स्पष्टः स्यात् - "तृतीयासमर्थात् "सर्वचर्मन्" शब्दात् "चर्मणा सर्वम् कृतम्" अस्मिन् अर्थे "ख" तथा "खञ्" प्रत्ययौ भवतः ।

1. सर्वचर्मन् + ख
→ सर्वचर्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ईन-आदेशः]
→ सर्वचर्म् + ईन [नस्तद्धिते [6।4।144]] इति टिलोपः[
→ सर्वचर्मीन
→ सर्वचर्मीण [अट्कुप्वाङ्नुम्व्ययायेऽपि 8|4|2 इति णत्वम्]

2. सर्वचर्मन् + खञ्
→ सर्वचर्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ईन-आदेशः]
→ सार्वचर्म + इन [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ सार्वचर्म् + ईन [नस्तद्धिते [6।4।144]] इति टिलोपः[
→ सार्वचर्मीन
→ सार्वचर्मीण [अट्कुप्वाङ्नुम्व्ययायेऽपि 8|4|2 इति णत्वम्]

चर्मणा सर्वः कृतः सः सर्वचर्मीणः सार्वचर्मीणः वा स्यूतः । A bag that is made completely with leather - इत्यर्थः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सर्वचर्मन् शब्दात् तृतीयासमर्थात् कृतः इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः। सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा। तत्र अयम् असमर्थसमासो द्रष्टव्यः। सर्वश्चर्मणा कृतः इत्येतस्मिन् वाक्यार्थे वृत्तिः। सर्वचर्मीणः, सार्वचर्मीणः।
इह कृतः प्रत्ययार्थः। तत्र चर्मणः करणत्वं स्यात्, कर्तृत्वं वा। तत्र यदि करणत्वं तदा नियतं करणलक्षणया तृतीयया भवितव्यम्। अथ कर्त्तृत्वमेव `न लोक` 2|3|69 इत्यादिना षष्ठआं प्रतिषिद्धायां कर्त्तृलक्षणा तृतीयैव। तस्मात्? प्रत्ययार्थसामथ्र्यालभ्या तृतीया समर्थविभक्तिरिति मत्वाऽ‌ऽह--`तृतीयासमर्थात्` इति। स च सर्वचर्मण इति निर्देशः सर्वशब्दस्य चर्मशब्देन समासं कृत्वा कृतः। ततः `चर्मणैवास्य सम्बन्धो न हयन्यता समास उपपद्यते` इति यो मन्यते, तं प्रत्याह--`सर्वशब्दश्चात्र` इत्यादि। यद्येवम्, असामथ्र्यात्? समासो न प्राप्नोति? इत्यत आह--`तत्रायम्` इत्यादि। अस्मादेव निपातनादित्यभिप्रायः। अथ चर्मणैवभिसम्बन्धः कस्मान्न विज्ञायते? इत्याह--`सर्वश्चर्मणा कृतः` इति। अत्र हि वाक्यार्थे तद्धितवृत्तिरिष्यति। तथा ह्रयमेव वाक्यार्थस्तद्धितानुगतः प्रतीयते। अस्मश्चार्थे वाक्यार्थ एवं तद्धितवृत्तिर्लभ्यते, यदि सर्वशब्दः कृतेन सम्बध्यते न चर्मणा। यदि सर्वशब्दश्चर्मणा सम्बध्यते, सर्वचर्मणा इति षष्ठीसमासो वा स्यात्, कर्मधारयो वा; तत्र षष्ठीसमासे तद्धितान्तात्? सर्वसम्बन्धिना चर्मणा कृत इत्येषोऽर्थः प्रतीयते। कर्मधारये तु सर्वचर्मणा कृत इत्येषोऽर्थः। न चायं द्विष्प्रकारो यस्तद्धितान्तादवसीयते, अपि तु सर्वचर्मणा कृत इत्ययमेव। तस्मादशक्यः सर्वशब्दस्य चर्मणा सम्बन्धो विज्ञातुमिति कृतेनैव सम्बन्धो युक्तः॥
तृतीयासमर्थादिति। कृत इति प्रत्यर्थार्थे चर्मणः करणत्वात्सामर्थ्यलभ्या तृतीया समर्थविभक्तिः। सर्वशब्दस्य चर्मशब्देन समासं कृत्वायं निर्द्देशः। सर्वचर्मण इति समासश्च सामर्थ्ये सति भवति, ततश्चर्मशब्देनास्य सम्बन्ध इति कश्चिद्भाम्येतं प्तय्याह--सर्वशब्दश्चात्रेति। कथं तर्हि समासः? इत्याह--तत्रायमिति। अस्मादेव निपातनादिति भावः। किं पुनः कारणं सर्वशब्दः कृतेन सम्बध्यते न चर्मणा ? इत्याह--सर्वश्चर्मणेत्यादि। सर्वश्चर्मणा कृत इति योऽयं वाक्यार्थः, अस्मिंस्तद्धितवृत्तिरिष्यते, यदि चर्मणा सम्बध्येत, ततो यदि सर्वचर्मेति षष्ठीसमासः, ततः सर्वस्म्बन्धैना चर्मणा कृत इत्यर्थः स्यात्। अथ कर्मधारयः, ततः सर्वेण चर्मणा कृत इति, न तु कृतस्य सर्वत्वमुभयथापि लभ्यते। तस्मात्कृतेनैव सम्बन्धो न्याय्य इति भावः ॥
सिद्धान्तकौमुदी
असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥
सर्वचर्मणः कृतः खखञौ - सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह — असामर्थ्येऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः । सर्वचर्मीण इति । "नस्तद्धिते" इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात् ।
सर्वचर्मणः कृतः खखञौ - सर्वचर्मणः ।खश्चे॑त्येव तु नोक्तं, यतोऽप्यनुकर्षः संभाव्येतेति । अत्र तृतीया समर्थविभक्तिः, कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात् । सर्वश्चर्मणेति । सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.