Page loading... Please wait.
5|2|2 - व्रीहिशाल्योर्ढक्
॥ तस्मै पाणिनये नमः ॥
5|2|2
SK 1803
व्रीहिशाल्योर्ढक्  
सूत्रच्छेदः
व्रीहि-शाल्योः (षष्ठीद्विवचनम्) , ढक् (प्रथमैकवचनम्)
अनुवृत्तिः
क्षेत्रे  5|2|1 (सप्तम्येकवचनम्) , भवने  5|2|1 (सप्तम्येकवचनम्) , धान्यानाम्  5|2|1 (षष्ठीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"धान्यानाम् भवने क्षेत्रे" (इति) व्रीहि-शाल्योः ढक्
सूत्रार्थः
षष्ठीसमर्थात् "व्रीहि" तथा "शालि" शब्दात् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् ढक् प्रत्ययः भवति ।
धान्यानां भवने क्षेत्रे खञ् 5|2|1 इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषाम् उत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण "व्रीहि" तथा "शालि" (द्वयोः अर्थः तण्डुलम् - rice - इत्येव) एताभ्याम् शब्दाभ्याम् ढक्-प्रत्ययः भवति । यथा -

1. व्रीहीणाम् भवनम् क्षेत्रम्
= व्रीहि + ढक्
→ व्रीहि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति एय-आदेशः]
→ व्रैहि + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ व्रैह् + एय [यस्येति च 6|4|148 इति इकारलोपः]
→ व्रैहेय
व्रीहीणाम् भवनम् क्षेत्रम् व्रैहेयम् ।

2. तथैव, शालिनाम् भवनम् क्षेत्रम् शालेयम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
व्रीहिशालिशब्दाभ्यां ढक् प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञो ऽपवादः। व्रीहीणां भवनं क्षेत्रम् व्रैहेयम्। शालेयम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥
सिद्धान्तकौमुदी
व्रैहेयम् । शालेयम् ॥
व्रीहिशाल्योर्ढक् - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः ।
व्रीहिशाल्योर्ढक् - व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् ।
लघुसिद्धान्तकौमुदी
व्रैहेयम्। शालेयम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.