Page loading... Please wait.
5|2|19 - अश्वस्यैकाहगमः
॥ तस्मै पाणिनये नमः ॥
5|2|19
SK 1820
अश्वस्यैकाहगमः   🔊
सूत्रच्छेदः
अश्वस्य (षष्ठ्येकवचनम्) , एकाहगमः (प्रथमैकवचनम्)
अनुवृत्तिः
खञ्  5|2|18 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"एकाहगमः" (इति) अश्वस्य खञ्
सूत्रार्थः
"एकाहगम" अस्मिन् अर्थे अश्वशब्दात् खञ्-प्रत्ययः भवति ।
"एकाहगम" इति "मार्ग" इत्यस्य किञ्चन विशेषणम् । एकस्मिन् अहनि यावत् अन्तरम् गन्तुम् शक्यते, तावन्ती व्याप्तिः यस्य मार्गस्य, सः मार्गः "एकाहगमः" नाम्ना ज्ञायते । A road (or its part) whose length is almost as same as the distance that can be traversed in one day is called एकाहगम ।

वर्तमानसूत्रेण "एकाहगम" अस्मिन् अर्थे "अश्व" शब्दात् खञ्-प्रत्ययः उच्यते ।अश्व + खञ् → आश्वीन । एकस्मिन् दिने अश्वः यावन्तम् मार्गम् गन्तुम् शक्नोति, तावान् मार्गः "आश्वीनः" नाम्ना ज्ञायते । अश्वस्य एकाहगमः अध्वा आश्वीनः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "अश्वस्य" इत्यनेन षष्ठीसामर्थ्यम् निर्दिश्यते । अतएव विग्रहवाक्ये "अश्वस्य एकाहगमः" इति उक्तम् अस्ति ।
2. "एकाहगम" अस्य शब्दस्य निर्माणम् एतादृशम् भवति -
(अ) "एकम् च इदम् अहः च" इति कर्मधारयसमासं कृत्वा "एकाह" शब्दः सिद्ध्यति ।
(आ) "एकाहेन गम्यते" इत्यत्र तृतीयातत्पुरुषसमासः भवति । प्रक्रियायाम् अकर्तरि च कारके संज्ञायाम् 3|3|19 इत्यनेन गम्-धातोः घञ्-प्रत्ययः भवति । "गम् + घञ्" इत्यत्र वस्तुतः अतः उपधायाः 7|2|116 इत्यनेन उपधावृद्धिः विधीयते, परन्तु निपातनात् सः निषिध्यते, येन "गम" इति प्रातिपदिकम् सिद्ध्यति , अतश्च "एकाहगमः" इति समस्तपदम् जायते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्देशादेव समर्थविभक्तिः। अश्वशब्दाद् षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति। एकाहेन गम्यते इति एकाहगमः। अश्वस्य एकाहगमो ऽध्वा आश्वीनः। आश्वीनानि शतं पतित्वा।
`एकाहेन गम्यत इति एकाहगमः` इति। `अकत्र्तरि च` 3|3|19 इत्यादिना घञ्, निपातनान्न वृद्धिः। `कर्त्तृकरणे कृता बहुलम्` 2|1|31 इति समासः। `आआईनानि शतं पतित्वा` इति। एकाहेन यानि गम्यन्ते योजनानि तेषां शतं गत्वेत्यर्थः। शतं संख्येये वत्र्तमानं स्वसंख्योपादान एव स्वभावाद्वत्र्तते। तेनाआईनानि शतमित्याआईनशब्देन बह्वर्थप्रवृत्तिसामानादिकरण्येऽप्येऽप्येकवचनान्तमेव प्रयुज्यते॥
एकाहेन गम्यत इत्येकाहगमः, ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यपं बाधित्वा ठ्परिमाणाख्यायां सर्वेभ्यःऽ इति, अस्ति कचात्र परिमाणाख्या, एकाहेन गम्यत इति परिच्छेदावगमाद्, अस्मादेव निपातनादप्द्रष्टव्यः, ठ्ककर्तृकरणे कृता बहुलम्ऽ इति समासः। अश्वस्येति। कर्तरि षष्ठी। अश्वीनानि शतं पतित्वेति। यावन्ति योजनान्येकाहेनाश्वेन गम्यते, तावतां शतं गत्वेत्यर्थः ॥
सिद्धान्तकौमुदी
एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥
अश्वस्यैकाहगमः - अआस्यैकाहगमः । अआशब्दात्षष्ठन्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः ।एकाहगम॑शब्दं व्युत्पादयति — एकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरविति भावः ।कर्तृकरणे कृते॑ति समासः । अआस्येति कर्तरि षष्ठी । आआओनोऽध्वेति । अओन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः ।
अश्वस्यैकाहगमः - अआस्य । कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः । एकाहगम इति ।कर्तृकरणे कृते॑ति समासः । नन्विहग्रहणवृद्दनिश्चिगमश्चे॑त्यपं बाधित्वापारिमाणाख्यायां सर्वेभ्यः॑इति घञ्प्राप्नोति, अस्ति चाऽत्र परिमाणख्याएकाहेन गम्यते॑इति परिच्छेदावगमात् । अत्राहुः — -अस्मादेव निपातनादप्द्रष्टव्य इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.