Page loading... Please wait.
5|2|16 - अध्वनो यत्खौ
॥ तस्मै पाणिनये नमः ॥
5|2|16
SK 1817
अध्वनो यत्खौ   🔊
सूत्रच्छेदः
अध्वनः (पञ्चम्येकवचनम्) , यत्-खौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
तत्  5|2|7 (द्वितीयैकवचनम्) , अलंगामी  5|2|15 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अलङ्गामी" (इति) अध्वनोः यत्-खौ
सूत्रार्थः
"अलङ्गामी (= पर्याप्तम् गच्छति)" अस्मिन् अर्थे द्वितीयासमर्थात् "अध्वन्" शब्दात् यत् तथा खः प्रत्ययौ भवतः ।
"अध्वन्" इत्युक्ते "मार्गः" । "कस्मिंश्चित् मार्गे पर्याप्तम् गच्छति" (sufficiently travels a road) अस्मिन् अर्थे अध्वन्-शब्दात् यत् तथा ख-प्रत्ययौ भवतः । प्रकिये एतादृश्यौ -

1) अध्वानम् अलङ्गामी सः
= अध्वन् + यत्
→ अध्वन् + य [नस्तद्धिते 6|4|144 इति टिलोपे प्राप्ते तं बाधित्वा ये चाभावकर्मणोः 6|4|168 इति यकारादौ तद्धितप्रत्यये परे प्रकृतिभावः]
→ अध्वन्य

2) अध्वानम् अलङ्गामी सः
= अध्वन् + ख
→ अध्वन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति ईन-आदेशः]
→ अध्वनीन [ [नस्तद्धिते 6|4|144 इति टिलोपे प्राप्ते आत्माध्वानौ खे 6|4|169 इति प्रकृतिभावः।

अध्वानम् अलङ्गामी सः अध्वन्यः अध्वनीनः वा ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ततिति द्वितीया समर्थविभक्तिरनुवर्तते। अलङ्गामी इति च प्रत्ययार्थः। अध्वन्शब्दात् द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः। अध्वानम् अलङ्गामी अध्वन्यः, अध्वनीनः। ये च अभवकर्मणोः 6|4|168, आत्माध्वानौ खे 6|4|169 इति प्रकृतिभावः।
Text Unavailable. Please use feedback link below to provide the text if you have.
द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः--अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपातेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; ठकेनोःऽ इति प्रतिषेधात्। इह ठध्वनो यच्चऽ इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उतरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्यर्थं यत्खावित्युक्तम् ॥
सिद्धान्तकौमुदी
अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः (कौमुदी-1154) । आत्माध्वानौ खे (कौमुदी-1671) इति सूत्राभ्यां प्रकृतिभावः ॥
अध्वनो यत्खौ - अद्वनो यत्खौ । अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलंगच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.