Page loading... Please wait.
5|2|134 - वर्णाद्ब्रह्मचारिणि
॥ तस्मै पाणिनये नमः ॥
5|2|134
SK 1940
वर्णाद्ब्रह्मचारिणि   🔊
सूत्रच्छेदः
वर्णात् (पञ्चम्येकवचनम्) , ब्रह्मचारिणि (सप्तम्येकवचनम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (प्रथमैकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , इनिः  5|2|128 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) वर्णात् ब्रह्मचारिणि इनि
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः "वर्ण" शब्दात् ब्रह्मचारिणः निर्देशं कर्तुम् "इनि" प्रत्ययः भवति ।
अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण "वर्ण" (cast) शब्दात् "ब्रह्मचारिणः" निर्देशं कर्तुम् वर्तमानसूत्रेण "इनि" प्रत्ययः भवति । वर्ण + इनि → वर्णिन् ।

अस्य अर्थः अयम् - "ब्रह्मचारी" इत्युक्ते यः ब्रह्म चरति (= नियमान् आचरति) सः । चतुर्वर्णेभ्यः "ब्राह्मण", "क्षत्रिय" तथा "वैश्य" एतेषु त्रिषु वर्णेषु उपनयनसंस्कारः भवति इति मन्यते । अस्मात् संस्कारात् अनन्तरम् छात्रः केषाञ्चन नियमानाम् पालनं कृत्वा वेदाध्ययनम् कर्तुम् प्रारभते । अस्यैव निर्देशः "अयम् ब्रह्मचारी अस्ति / ब्रह्मचर्यस्य पालनम् करोति" इत्यनेन क्रियते । अस्य ब्रह्मचारिणः निर्देशार्थयम् "वर्ण" शब्दात् "इनि" प्रत्ययः भवति । यथा - वर्णः अस्य सः वर्णी ब्रह्मचारी ब्राह्मणः क्षत्रियः वैश्यः वा ।

स्मर्तव्यम् - "वर्ण" शब्दात् "ब्रह्मचारी" अर्थे गम्यमाने अत इनिठनौ 5|2|115 इत्यनेन मतुँप्, इनि तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण केवलम् "इनि" प्रत्ययस्यैव विधानं भवति, "मतुँप्" तथा "ठन्" प्रत्ययौ निषिध्येते । परन्तु यत्र "ब्रह्मचारी" इति निर्देशः न अपेक्षते तत्र तु अत इनिठनौ 5|2|115 इत्यनेन मतुबादयः प्रत्ययाः भवन्ति । यथा - वर्णः अस्य सः वर्णवान् ब्राह्मणः (A brahmin who is proud of his cast इत्याशयः) ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारि इति त्रैवर्णिको ऽभिप्रेतः। स हि विद्याग्रहणार्थम् उपनीतो ब्रहम चरति, नियमम् आसेवते इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणि इति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते।
`समुदायेन चेद्ब्राहृचारी भष्यते` इति। एतेन समुदायोपाधित्वं ब्राहृचारिणो दर्शयति। विद्याग्रहणार्थ यदोपनीयते ततः सेवितव्यो यो नियमविशेषस्तद्ब्राहृआ, तच्चरति ब्राहृचारी, आवश्यके णिनिः। तत्र नियमविशेषचरणे ब्राआहृणादीनामेव त्रयाणां वर्णानामधिकारः, न शूद्रस्येत्याह--`ब्राहृचारीति त्रैवर्णिकोऽभिप्रेतः` इति। त्रिषु वर्णेषु भवः, तत्रान्तर्भूतत्वात्? त्रैवणिकः। किं पुनः कारणं स एवाभिप्रेत इत्याह--`स हि` इत्यादि॥
ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्मौवेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह--नियममिति। तत्र ब्रह्मचारीति ठ्व्रतेऽ इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह--ब्राह्मणादयस्त्रयो वर्णा इति ॥
सिद्धान्तकौमुदी
वर्णी ॥
वर्णाद्ब्रह्मचारिणि - वर्णाद्ब्राहृचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.