Page loading... Please wait.
5|2|121 - अस्मायामेधास्रजो विनिः
॥ तस्मै पाणिनये नमः ॥
5|2|121
SK 1928
अस्मायामेधास्रजो विनिः   🔊
सूत्रच्छेदः
अस्-माया-मेधा-स्रजः (पञ्चम्येकवचनम्) , विनिः (प्रथमैकवचनम्)
अनुवृत्तिः
इति  5|2|94 (अव्ययम्) , मतुँप्  5|2|94 (प्रथमैकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , अस्मिन्  5|2|94 (प्रथमैकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , अन्यतरस्याम्  5|2|109 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) अस्-माया-मेधा-स्रजः विनिः, मतुँप् अन्यतरस्याम्
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः असन्तेभ्यः प्रातिपदिकेभ्यः, तथा "माया", "मेधा" तथा "स्रज्" एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः "विनि" तथा "मतुप्" प्रत्ययौ भवतः ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । केभ्यश्चन शब्देभ्य एतयोः अर्थयोः "विनि" इति अपि अपरः प्रत्ययः वर्तमानसूत्रेण पाठ्यते । क्रमेण पश्यामः -

1. असन्ताः शब्दाः - ये शब्दाः "अस्" इत्यनेन समाप्यन्ते, ते "असन्ताः (= अस् + अन्ताः)" इति नाम्ना ज्ञायन्ते । यथा - चन्द्रमस्, पयस्, विद्वस्, यशस्, तपस् - आदयः । एतेभ्यः शब्देभ्यः "अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः "विनि" प्रत्ययः भवति ।

यथा -
अ) यशः अस्य अस्ति सः यशस्वी । प्रक्रिया इयम् -
यशस् + विनि
→ यशस् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]
→ यशस् + विन् [स्वादिष्वसर्वनामस्थाने 1|4|17 इति पदसंज्ञायां प्राप्तायाम् तसौ मत्वर्थे 1|4|19 इति भसंज्ञा विधीयते । अतः सकारस्य रूँत्वम् न भवति ।]
→ यशस्विन् ।

आ) तपः अस्य अस्ति सा तपस्विनी । "तपस्विन्" इति प्रातिपदिकम् । स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4|1|5 इत्यनेन ङीप्-प्रत्ययं कृत्वा "तपस्विनी" इति प्रातिपदिकम् सिद्ध्यति । तस्य प्रथमैकवचनम् "तपस्विनी" इति ।

इ) पयः यस्मिन् विद्यते तत् पयस्वि । "पयस्विन्" इति प्रातिपदिकम्, नपुँसकलिङ्गस्य प्रथमैकवचनम् "पयस्वि" इति ।

पक्षे वर्तमानसूत्रेण "मतुप्" प्रत्ययः अपि भवति इति स्मर्तव्यम् । यथा - पयस्वान्, यशस्वान् - आदयः ।

2. "माया", "मेधा" (talent) तथा "स्रज्" (garland) एतेभ्यः शब्देभ्यः अपि "अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः विनि-प्रत्ययः भवति । यथा -
अ) माया अस्य अस्मिन् वा अस्ति सः मायावी । माया + विन् → मायाविन् इति प्रातिपदिकम् ।
आ) मेधा अस्य अस्मिन् वा अस्ति सः मेधावी । मेधा + विन् → मेधाविन् इति प्रातिपदिकम् ।
(इ) स्रक् अस्य अस्मिन् वा अस्ति सः स्रग्वी । प्रक्रिया इयम् -
स्रज् + विनि
→ स्रज् + विन् [इकारः उच्चारणार्थः, तस्य लोपः]
→ स्रग् + विन् [स्वादिष्वसर्वनामस्थाने 1|4|17 इति पदसंज्ञा । पदान्ते विद्यमानस्य जकारस्य चोः कुः 8|2|30 इति कुत्वे गकारः ।]
→ स्रग्विन् ।

पक्षे वर्तमानसूत्रेण "मतुप्" प्रत्ययः अपि भवति । यथा - मायावान्, मेधावान्, स्रग्वान् ।

विशेषः - "माया" इति शब्दः व्रीह्यादिभ्यश्च 5|2|116 इत्यत्र निर्दिष्टे व्रीह्यादिगणे अपि स्वीकृतः अस्ति । अतः तेन सूत्रेण "माया" शब्दात् "इनि" तथा "ठन्" एतौ प्रत्ययौ अपो भवतः । माया अस्य अस्मिन् वा अस्ति सः मायी मायिकः वा ।

स्मर्तव्यम् -
1. "विनि" प्रत्यये नकारोत्तरः इकारः इत्संज्ञकः नास्ति । केवलम् "विन्" इति उच्यते चेत् नकारस्य इत्संज्ञा भवेत्, या न इष्यते ; अतः नकारस्य इत्संज्ञाबाधनार्थम् अन्ते इकारः स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपः भवति ।

2. सिद्धान्तकौमुद्याम् अस्मिन् सूत्रे कानिचन वार्त्तिकानि पाठितानि सन्ति । एतानि सर्वाणि वार्त्तिकानि भाष्ये काशिकायां च अग्रिमे सूत्रे बहुलं छन्दसि 5|2|122 इत्यत्र पाठ्यन्ते, अतः तेषाम् विवरणम् तत्रैव दत्तम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च ठ्तसौ मत्वर्थेऽ इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति। ठ्तसौ मत्वर्थेऽ इति भत्वाज्जश्त्वाभावः ॥
सिद्धान्तकौमुदी
यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ ।आमयस्योपसंख्यानं दीर्घश्च (वार्तिकम्) ॥ आमयावी ॥ ।शृङ्गवृन्दाभ्यामारकन् (वार्तिकम्) ॥ शृङ्गारकः । वृन्दारकः ॥ ।फलबर्हाभ्यामिनच् (वार्तिकम्) ॥ फलिनः । बर्हिणः ॥ ।हृदयाच्चालुरन्यतरस्याम् (वार्तिकम्) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ ।शीतोष्णतृप्रेभ्यस्तदसहने (वार्तिकम्) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ ।हिमाच्चेलुः (वार्तिकम्) ॥ हिमं न सहते हिमेलुः ॥ ।बलादूलः (वार्तिकम्) ॥ वलं न सहते बलूलः ॥ ।वातात्समूहे च (वार्तिकम्) ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ ।तप्पर्वमरुद्भ्याम् (वार्तिकम्) ॥ पर्वतः । मरुत्तः ॥
अस्मायामेधास्रजो विनिः - अस्मायामेधा ।अ॑सित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । "तसौ मत्वर्थे" इति भत्वान्न रुत्वमिति भावः । यशस्वानिति ।एकगोपूर्वा॑दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, "तसौ मत्वर्थे" इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । रुआग्वीत्यत्रव्रश्चे॑ति षत्वमाशङ्क्याह — क्वन्नन्तत्वादिति । आमयस्येति । आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । श्रृङ्गवृन्दाभ्यामिति । फलबर्हाभ्यामिति । ह्मदयाच्चालुरिति । वार्तिकत्रयमिदम् । मतुप्चेति । "वक्तव्य" इति शेषः, भाष्ये तथोक्तत्वात् । चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथा चाऽत्र चत्वारः प्रत्ययाः । तदाह — ह्मदयालुरित्यादि ।॒शीतोष्णतृप्रेम्यस्तन्न सहते॑ इति वार्तिकमर्थतः सङ्गृहणाति — शीतेति । शीत, उष्ण, तृप्र — एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमोच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।तन्न सहते इत्यर्थे वक्तव्य॑ इति शेषः । वातात्समूहे चेति । षष्ठन्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः । "तन्वक्तव्य" इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाऽभावान्न मतुप् ।
अस्मायामेधास्रजो विनिः - अस्मायामेधा । यशस्वीति ।तसौ मत्वर्थे ॑इति भत्वाद्रुत्वं न । यशस्वानिति । नित्यग्रहणात्पूर्वत्राऽसंबद्धमप्यन्यतरस्याङ्ग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव ।तसौ मत्वर्थे॑इति सूत्रे यशस्वी यशस्वानिति भाष्योदाहरणादिति भावः ।चोः कु॑रित्यनेन सिद्धे व्रश्चादिषत्वमाशङ्क्याह — -क्विन्नन्तत्वादिति । ह्मदयाच्चालुरन्यतरस्याम् । ह्मदयाच्चालुरन्यतरस्याम् । अन्यतरस्याङ्ग्रहणमिनिठनोः प्राप्त्यर्थम् । मतुप् सर्तत्र समुच्चीयत एव । चकारस्यचुटू॑इतीत्संज्ञा । तेन ह्मदयालुशब्दोऽन्तोदात्त इत्याहुः ।शीतोष्णतृप्रेभ्यस्तदसहने । शीतोष्णेति । इह चालुरनुवर्तते । परुडाश इति ।न तृप्रा उरुव्यचस॑मिति मन्त्रस्य भाष्ये तथा व्याख्यातत्वादिति भावः । माधव इति । सुब्धातुवृत्तौ स्थितमिदम् ।हिमाच्चेलुः । हिमाच्चेलुरिति । एकारदिरयं प्रत्यय इति माधवः ।बलादलः । बलादिति । सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ । तप्पर्वमरुद्भ्याम् । पित्त्वमनुदात्तत्वार्थम् । काशिकायां तुपर्वमरुद्भ्यां तन्वक्तव्यः॑इति स्थितम् । हरदत्तेनतुत॑न्निति प्रतीकमुपादाय आद्युदात्तत्वार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रबन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम् ।
लघुसिद्धान्तकौमुदी
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.