Page loading... Please wait.
5|2|11 - अवारपारात्यन्तानुकामं गामी
॥ तस्मै पाणिनये नमः ॥
5|2|11
SK 1812
अवारपारात्यन्तानुकामं गामी   🔊
सूत्रच्छेदः
अवारपार-अत्यन्त-अनुकामम् (द्वितीयैकवचनम्) , गामी (प्रथमैकवचनम्)
अनुवृत्तिः
खः  5|2|6 (प्रथमैकवचनम्) , तत्  5|2|7 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अवारपारम्, अत्यन्तम्, अनुकामम् गामी" (इति) खः
सूत्रार्थः
"गामी" इत्यस्मिन् अर्थे "अवारपार", "अत्यन्त" तथा "अनुकाम" एतेभ्यः द्वितीयासमर्थेभ्यः "ख"-प्रत्ययः भवति ।
"गामी" इत्युक्ते "गमिष्यति सः" । "गम्" धातोः आवश्यकाधमर्ण्ययोर्णिनिः 3|3|170 इत्यनेन "णिनि" प्रत्ययं कृत्वा "गामिन्" इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् ।

अस्मिन् सूत्रे "गामी" इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः "ख"प्रत्ययः उच्यते । क्रमेण पश्यामः -

1. "अवारपार" - "अवारपार" इत्युक्ते सागरस्य द्वितीयः तटः (other end of ocean). सागरम् अपि उल्लङ्घ्य यः गमिष्यते , तस्य निर्देशार्थम् "अवारपार"शब्दात् ख-प्रत्ययः क्रियते । अवारपारम् गामी अवारपारीणः ।

अस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - विगृहीतादपि इष्यते, विपरिताच्च । इत्युक्ते, "अवार", "पार", तथा "पारावार" - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः ।

2. "अत्यन्त" - "बहु" अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशम् अन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः ।

3. अनुकाम - "कामम् अनुसृत्य" (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यति इति गामी, भविष्यति गम्यादयः 3|3|3 इति। अकैनोर् भविस्यदाधमर्ण्ययोः 2|2|70। इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः। विपरीताच् च। पारावारीणः। विगृहीतादपि इष्यते। अवारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्ता इत्यर्थः। अनुकामं गामी अनुकामीनः। यथा इष्टं गन्ता इत्यर्थः।
`गामी` इति। `आवश्यकाधमण्र्ययोर्णिनिः` 3|3|170 इत्यावश्यकार्थे णिनिः। भविष्यति चायं काले गामिशब्दो वत्र्तते, यदाह--`गमिष्यतीति गामी`। सा च भविष्यति वृत्तिः `भविष्यति गम्यादयः` 3|3|3 इति वचनाल्लभ्यते; इत्याह--`भविष्यति` इत्यादि। `अकेनोर्भविष्यदाधमण्र्ययोरिति षष्ठीप्रतिषेधः` इति। तेन द्वितीयासमर्थतोपपद्यत इत्यभिप्रायः। कृद्योगा हि षष्ठी द्वितीयाया अपवादः, तेन षष्ठीप्रतिषेधे हि सति द्वितीययैव भवितव्यम्। `अवारपारम्` इति। अवारस्य पारमिति षष्ठीसमासोऽयम्। वा च षष्ठ्याः पूर्वनिपातो वक्तव्यः। तेन पक्षे पारावारमित्यपि भवति। `विगृहीतादपि` इति। [`भवति`-मुद्रितः पाठः] `विपरीताच्च` इति। कथं पुनरधिकारादेव द्वितीयासमर्थविभक्तौ लब्धायामिहाधिकं द्वितीयोपादानं कृतम्? एतेन तदधिकस्य विधिर्भवतीति सूचितम्। तेन विगृहीताद्विपरीताच्च प्रत्यय उपपद्यते। `अत्यन्तम्` इति। अन्तस्याभावोऽत्ययो वेति। `अव्ययं विभक्ति` 2|1|6 इत्यादिनाऽव्ययीभावः। अथ वा--अन्तमतिक्रान्तमिति `कुगति` 2|2|18 इत्यादिना तत्परुषः। क्रियाविशेषणञ्चैतत्। `भृशं गन्तेत्यर्थः` इति। भृशार्थत्वेन लोकेऽत्यन्तशब्दस्य प्रसिद्धत्वात्। `अनुकामम्` इति। कामसदृशमनुकामम्। कामनुरूपमित्यर्थः। यथार्थेऽव्ययीभावः। इदमपि क्रियाविशेषणमेव॥
गामीति। ठ्गमेरिनिःऽ, ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति। ठ्गत्यर्थकर्मणिऽ इत्यत्र यदुक्तम्--ठ्द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति--ग्रामं गन्ताऽ इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति--अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्, ठ्यथार्थे यदव्ययम्ऽ इति समासः ॥
सिद्धान्तकौमुदी
अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
अवारपारात्यन्तानुकामं गामी - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । "भविष्यति गम्यादयः" इति भविष्यत्कालता । "बहुलमाभीक्ष्ण्ये" इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।
अवारपारात्यन्तानुकामं गामी - अवारपार । गामीति ।गमेरिनिः, आङि णिच्चे॑ति बहुलवचनात्केवलादपि णिनिः ।भविष्यति गम्यादयः॑इति भविष्यत्कालता । न्यासकारस्तुआवश्यके णिनिः, सोऽपि भविष्यत्येवे॑त्याह । अवारपारमिति । अकतेनोर्भविष्यदाधमण्र्ययो॑रिति षषाठीप्रतिषेधः । केचित्तुगत्र्थकर्मणी॑ति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवतिग्रामं गन्ते॑तिवदिति व्याचख्युः । तदसत् ।अकेनो॑रिति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाऽभावात् । अवारीण इत्यादि ।विगृहीताद्विपरीतादपीष्यते॑इति भावः । अत्यन्तमिति । क्रियाविशेषणम् । अनुकाममिति । काम इच्छा , तस्य सदृशमनुकामम् । कामानुरूपमित्यर्थः ।अव्ययं विभक्ती॑ति यथार्थेऽव्ययीभावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.