Page loading... Please wait.
5|2|108 - द्युद्रुभ्यां मः
॥ तस्मै पाणिनये नमः ॥
5|2|108
SK 1915
द्युद्रुभ्यां मः   🔊
सूत्रच्छेदः
द्यु-द्रुभ्याम् (पञ्चमीद्विवचनम्) , मः (प्रथमैकवचनम्)
अनुवृत्तिः
इति  5|2|94 (अव्ययम्) , अस्मिन्  5|2|94 (सप्तम्येकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) द्यु-द्रुभ्याम् मः
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः "दिव्"शब्दात् तथा "द्रु" शब्दात् प्रथमासमर्थात् "म" प्रत्ययः भवति ।
तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन "अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण "मतुँप्" प्रत्ययः विधीयते । अस्य अपवादरूपेण प्रथमासमर्थात् "दिव्" (= स्वर्ग ) तथा "द्रु" (= शाखा / branch) एताभ्याम् शब्दाभ्याम् म-प्रत्ययः भवति । क्रमेण पश्यामः -

1. द्युः अस्मिन् अस्ति सः ("द्युः" इति दिव्-शब्दस्य प्रथमैकवचनम् । अतः अत्र प्रातिपदिकम् "दिव्" इति अस्ति ।]
= दिव् + म
→ द्यु + म [दिव उत्‌ 6|1|131 इति पदसंज्ञकस्य दिव्-शब्दस्य उकारादेशः । ]
→ द्युम

द्युः अस्मिन् अस्ति सः द्युमः । आकाशः इत्यर्थः ।

विशेषः - अस्मिन् सूत्रे "द्यु" इति निर्देशः "दिव्" इत्यस्य प्रथमैकवचनस्य निर्देशः अस्ति इति व्याख्यानात् स्पष्टीभवति ।

2. द्रुवः (शाखाः) अस्मिन् सन्ति सः = द्रु + म → द्रुमः । वृक्षः इत्यर्थः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दौ एतौ। रूढिषु मतुप् पुनर् न विकल्प्यते।
द्यौश्च द्रुश्च द्युद्रू, ताभ्यां मतुपि प्राप्ते मो विधीयते। धौरस्यास्तीति द्युमः, `दिव उत्` 6|1|127 इत्युत्त्वम्। केचित्--`द्युशब्द प्रकृत्यन्तरमह्नो नामधेयम्, तत इदं प्रत्ययविधानम्` इत्याहुः। `रूढिषु मतुप्? पुनर्न विकल्प्यते` इति। रूढिशब्दार्थस्य मतुपाऽनभिधानात्॥
द्यौशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ॥
सिद्धान्तकौमुदी
द्युमः । द्रुमः ॥
द्युद्रुभ्यां मः - द्युद्रुभ्यां मः ।दिव उ॑दिति कृतोत्वस्य दिव्शब्दस्य "द्यु" इति निर्देशः । दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति । रूढशब्दावेतौ ।
द्युद्रुभ्यां मः - द्युद्रुभ्यां मः । द्युम इति । द्यौरस्यास्ति ।दिव उ॑दित्युत्वम् । द्रुर्वृक्षः सोऽस्यास्ति जनकतयेति॑द्रुमोऽपि वृक्ष एव ।पलाशी द्रुद्रुमाऽगमाः॑इत्यमरः । इह सर्वत्र समुच्चीयमानोऽपि मतुब्राऊढशब्देषु नेष्यते, तदर्थस्य मतुपा अभिधातुमशक्यत्वात् । दृश्यत इति ।व॑इत्यनुवर्तते ।अर्णसो लोपश्च । अर्णव इति । अर्तेरसुन्, नुट्च । अर्णः=जलं, तद्वान् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.