Page loading... Please wait.
5|1|92 - सम्परिपूर्वात्‌ ख च
॥ तस्मै पाणिनये नमः ॥
5|1|92
SK 3494
सम्परिपूर्वात्‌ ख च   🔊
सूत्रच्छेदः
सम्-परि-पूर्वात् (पञ्चम्येकवचनम्) , ख (लुप्तप्रथमान्तनिर्देशः)(अव्ययम्)
अनुवृत्तिः
तेन  5|1|79 (तृतीयैकवचनम्) , निर्वृत्तम्  5|1|79 (प्रथमैकवचनम्) , भृतः  5|1|80 (प्रथमैकवचनम्) , भावी  5|1|80 (प्रथमैकवचनम्) , अधीष्टः  5|1|80 (प्रथमैकवचनम्) , तम्  5|1|80 (द्वितीयैकवचनम्) , छः  5|1|92 (प्रथमैकवचनम्) , वत्सरान्तात्  5|1|92 (पञ्चम्येकवचनम्) , छन्दसि  5|1|92 (सप्तम्येकवचनम्) , भूतः  5|1|180 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 कालात्  5|1|78 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन निर्वृत्तम्" (तथा) "तमधीष्टो भृतो भूतो भावी" (इति) सम्-परि-पूर्वात् वत्सरान्तात् छन्दसि छः खः च
सूत्रार्थः
"संवत्सर" तथा "परिवत्सर" एताभ्यां शब्दाभ्याम् "निर्वृत्तम्" इत्यस्मिन् अर्थे तथा च "अधीष्टः", "भृतः", "भूतः", तथा "भावी" एतेषु अर्थेषु वेदेषु "ख" तथा "छ" एतौ प्रत्ययौ कृतौ दृश्येते ।
"संवत्सर" तथा "परिवत्सर" एताभ्याम् शब्दाभ्याम् वत्सरान्ताच्छश्छन्दसि 5|1|91 इत्यनेन पूर्वसूत्रेण
तेन निर्वृत्तम् 5|1|79 इत्यत्र निर्दिष्टे "निर्वृत्तम्" अस्मिन् अर्थे ; तथा च तमधीष्टो भृतो भूतो भावी 5|1|80 इत्यत्र निर्दिष्टेषु अधीष्टादिषु अर्थेषु वेदेषु छ-प्रत्ययविधानम् कृतम् अस्ति । वर्तमानसूत्रेण एताभ्यामेव शब्दाभ्याम् एतयोः एव अर्थयोः वेदस्य विषये ख-प्रत्ययः अपि उच्यते ।

यथा - संवत्सरेण निर्वृत्तम् संवत्सरीणम् संवत्सरीयम् च । परिवत्सरं अधीष्टः भृतः भूतः भावी वा परिवत्सरीणः परिवत्सरीयः च ।

ज्ञातव्यम् - वेदेषु बहुत्र "युगम्" इति संज्ञा "पञ्चवर्षाणाम् समूहः" अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे "पञ्चकम् युगम्" इति प्रयोगः बहुत्र दृश्यते । अस्मिन् "पञ्चके" युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - "संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर" - एतानि नामानि अपि दत्तानि सन्ति । अत्र विद्यमानौ संवत्सर-परिवत्सरशब्दौ एव अस्मिन् सूत्रे गृह्येते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
संपरिपूर्वात् वत्सरान्तात् प्रातिपदिकाच् छन्दसि विषये। निर्वृत्तादिष्वर्थेसु खः प्रत्ययो भवति, चकाराच् छश्च। संवत्सरीणाः, संवत्सरीया। परिवत्सरीणम्, परिवत्सरीया।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.