Page loading... Please wait.
5|1|91 - वत्सरान्ताच्छश्छन्दसि
॥ तस्मै पाणिनये नमः ॥
5|1|91
SK 3493
वत्सरान्ताच्छश्छन्दसि   🔊
सूत्रच्छेदः
वत्सरान्तात् (पञ्चम्येकवचनम्) , छः (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
तेन  5|1|79 (तृतीयैकवचनम्) , निर्वृत्तम्  5|1|79 (प्रथमैकवचनम्) , भृतः  5|1|80 (प्रथमैकवचनम्) , भावी  5|1|80 (प्रथमैकवचनम्) , अधीष्टः  5|1|80 (प्रथमैकवचनम्) , तम्  5|1|80 (द्वितीयैकवचनम्) , भूतः  5|1|180 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 कालात्  5|1|78 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन निर्वृत्तम्" (तथा) "तमधीष्टो भृतो भूतो भावी" (इति) वत्सरान्तात् छन्दसि छः
सूत्रार्थः
यः शब्दः "वत्सर" इत्यनेन समाप्यते, तस्मात् "निर्वृत्तम्" इत्यस्मिन् अर्थे तथा च "अधीष्टः", "भृतः", "भूतः" तथा "भावी" एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते ।
"वत्सर" इत्युक्ते वर्षम् । यस्य शब्दस्य अन्ते "वत्सर" इति पदम् आगच्छति, तादृशः शब्दः "वत्सरान्तः" अस्ति इति उच्यते । अस्मात् "वत्सरान्त"शब्दात् तेन निर्वृत्तम् 5|1|79 इत्यनेन निर्दिष्टस्य "निवृत्तम्" अस्य अर्थस्य विषये ; तथा च तमधीष्टो भृतो भूतो भावी 5|1|80 इत्यनेन निर्दिष्टानाम् "अधीष्टः, भृतः, भूत, भावी" - एतेषाम् अर्थानाम् विषये वेदेषु छ-प्रत्ययः कृतः दृश्यते ।

अस्य सम्यक् अर्थं ज्ञातुम् प्रारम्भे काचन पीठिका ज्ञेया । वेदेषु बहुत्र "युगम्" इति संज्ञा "पञ्चवर्षाणाम् समूहः" अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे "पञ्चकम् युगम्" इति प्रयोगः बहुत्र दृश्यते । अस्मिन् "पञ्चके" युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - "संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर" - एतानि नामानि अपि दत्तानि सन्ति । एतानि पञ्च नामानि एव अस्मिन् सूत्रे "वत्सरान्त" इत्यनेन निर्दिष्टानि सन्ति । एतेभ्यः एव -
(अ) तेन निर्वृत्तम् 5|1|79 इत्यनेन निर्दिष्टे "निवृत्तम्" अस्मिन् अर्थे ; तथा च
(आ) तमधीष्टो भृतो भूतो भावी 5|1|80 इत्यनेन निर्दिष्टेषु "अधीष्टः, भृतः, भूत, भावी" एतेषु अर्थेषु
वेदेषु छ-प्रत्ययः कृतः दृश्यते । अनेन "संवत्सरीय", "परिवत्सरीय", "इदावत्सरीय", "इद्वत्सरीय" तथा "वत्सरीय" - एते शब्दाः सिद्ध्यन्ति ।

ज्ञातव्यम् - "संवत्सर" तथा "परिवत्सर" शब्दाभ्याम् सम्परिपूर्वात्‌ ख च 5|1|92 इत्यनेन अग्रिमसूत्रेण "ख" प्रत्ययः अपि उच्यते, येन "संवत्सरीण" तथा "परिवत्सरीण" एते रूपे सिद्ध्यतः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वत्सरान्तात् प्रातिपदिकात् निवृत्तादिष्वर्थेषु छन्दसि विषये छन्ः प्रत्ययो भवति। ठञो ऽपवादः। इद्वत्सरीयः। इदावत्सरीयः।
Text Unavailable. Please use feedback link below to provide the text if you have.
इद्वत्सर-इदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्घर्षयोः संज्ञे। एवं संवत्सर-परिवत्सरशब्दावपि ॥
सिद्धान्तकौमुदी
निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.