Page loading... Please wait.
5|1|36 - द्वित्रिपूर्वादण् च
॥ तस्मै पाणिनये नमः ॥
5|1|36
SK 1701
द्वित्रिपूर्वादण् च   🔊
सूत्रच्छेदः
द्वित्रिपूर्वात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अध्यर्धपूर्वद्विगोः  5|1|28 (षष्ठ्येकवचनम्) , यत्  5|1|34 (प्रथमैकवचनम्) , वा  5|1|35 (अव्ययम्) , शाणात्  5|1|35 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
आ-अर्हात् शाणात् द्वित्रिपूर्वात् अण् यत् च वा
सूत्रार्थः
सर्वेषु आर्हीय-अर्थेषु "द्वौ शाणौ", "त्रयः शाणाः" एतयोः विषये "अण्" तथा "यत्" प्रत्ययौ विकल्पेन भवतः ।
शाण-शब्दस्य पूर्वपदम् "द्वि" उत "त्रि" इति जायते चेत् सर्वेषु आर्हीयेषु अर्थेषु शाणाद्वा 5|1|35 इत्यनेन विकल्पेन यत्-प्रत्यये प्राप्ते पक्षे विकल्पेन अण्-प्रत्ययः अपि विधीयते । पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन लुक् जायते ।

द्वौ शाणौ परिमाणम् अस्य तत् -
1) द्वि + शाण + यत् → द्विशाण्यम् ।
2) द्वि + शाण + अण् → द्वैशाणम् । अत्र परिमाणान्तस्यासंज्ञाशाणयोः 7|3|17 इत्यनेन उत्तरपदवृद्धिः न भवति इति स्मर्तव्यम्, अस्मिन् सूत्रे "असंज्ञाशाणयोः" इति निषेधात् ।
3) द्वि + शाण + ठञ् → द्विशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन प्रत्ययलुक् भवति ।

ज्ञातव्यम् - अत्र प्राग्वतीय-प्रकरणस्य आर्हीय-विशिष्टाः अर्थनिरपेक्ष-अपवादाः समाप्यन्ते । अग्रिमसूत्रात् आरभ्य आर्हीयअर्थाः तेषाम् विशिष्टाः अपवादाः च पाठिताः सन्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शाणाद् वा 5|1|35 इत्येव। द्वित्रिपूर्वाच् छाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा। तेन त्रैरूप्यं समद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्य असंज्ञाशाणयोः 7|3|17 इति पर्युदासादिवृद्धिरेव भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
वार्तितके दर्शनात्सूत्रेष्वेतत्प्रक्षिप्तम्। त्रैरूप्यं भवतीति। अण्येकम्, यति द्वितीयम्, ठञो लुकि तृतीयम् ॥
सिद्धान्तकौमुदी
शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः (कौमुदी-1683) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
द्वित्रिपूर्वादण्। वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम्। भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह----शाणादित्येवेति। न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम्---`शत शाणाभ्यां वे`ति सूत्रयितव्ये `पणवादे`कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, ---शतशब्दः स्वरितत्वेनानुवर्तमानोऽपि `शाणाद्वा`इत्यत्रैव संबध्यते, तदुत्तरसूत्रे `द्वित्रिपूर्वादण् चे`त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति। तदिदं सामथ्र्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत्। त्रैरूप्यमिति। तदेतद्दर्शयति----द्वैशाणमित्यादिना। अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम्। ठञादयस्त्रयोदशेति। ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव। न च `शूर्पादञन्यतरस्या`मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेन `शाणाद्वे`ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात्। नापि सूत्रोपात्तैद्र्वादशभिः सह `द्वित्रिपूर्वादण् चे`ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः।उक्तरीत्या`कंसाट्टिठ`न्निति सूत्रे `अर्धाच्चेति वक्तव्यं`, `कार्षापणाट्टिठन्`इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते। `द्वित्रिपूर्वादण् चे`ति स वार्तिकस्थोऽण् तु भिद्यते, `शतमानविंशतिके`त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.