Page loading... Please wait.
5|1|35 - शाणाद्वा
॥ तस्मै पाणिनये नमः ॥
5|1|35
SK 1700
शाणाद्वा   🔊
सूत्रच्छेदः
शाणात् (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
अध्यर्धपूर्वद्विगोः  5|1|28 (षष्ठ्येकवचनम्) , यत्  5|1|34 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
आ-अर्हात् शाणात् यत् वा
सूत्रार्थः
सर्वेषु आर्हीय-अर्थेषु "शाण" शब्दस्य विषये अध्यर्धपूर्व-द्विगुसमासात् विकल्पेन यत्-प्रत्ययः भवति ।
"शाण" (मापनस्य किञ्चन परिमाणम्) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा -

1. पञ्च शाणं परिमाणम् अस्य = पञ्चशाण + यत् → पञ्चशाण्यम् ।
पक्षे ठञ् - पञ्चशाण + ठञ् → पञ्चशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन प्रत्ययस्य लुक् भवति ।

2. अध्यर्धेन शाणेन क्रीतम् अध्यर्धशाण्यम् अध्यर्धशाणम् वा ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - शताच् च इति वक्तव्यम् । इत्युक्ते, "शत" शब्दस्य विषये द्विगुसमासे कर्तव्ये पणमाषपादशताद्यत् 5|1|34 इत्यनेन यत्-प्रत्यये नित्यरूपेण प्राप्ते अनेन वार्त्तिकेन सः विकल्प्यते । पक्षे संख्याया अतिशदन्तायाः कन् 5|1|22 इत्यनेन कन्-प्रत्ययः भवति, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन लुक् भवति । यथा - पञ्च शतम् परिमाणम् अस्य तत् पञ्चशत्यम्, पञ्चशतम् वा ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अध्यर्धपूर्वात् द्विगोः इत्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञो ऽपवादः। पक्षे सो ऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम्। शताच् च इति वक्तव्यम्। अध्यर्धशत्यम्, ध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
ठञोऽपवाद इति। यद्यप्युन्मानवचनः शाणशब्दः, तथाप्यार्हादित्यत्र क्रियापरिमाणस्य ग्रहणादस्यपि पर्युदासाट्ठञ एव प्रसङ्ग इति भावः। शताच्चेति वक्तव्यमिति। पूर्वेण नित्ये यति प्राप्ते वचनम्। यदभावपक्षे सङ्खयालक्षणस्य कनो लुक् ॥
सिद्धान्तकौमुदी
यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥
शाणाद्वा (द्वित्रिपूर्वादण् च) - अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह — द्वित्रिपूर्वादण् । च वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततश्च यतो ।ञभावे ठञपि लभ्यते । तदाह-तेन त्रैरूप्यमिति । अणा, यता, ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह — परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ।प्राग्वते॑रिति ठञ्,आर्हा॑दिति ठक्,शताच्चे॑ति ठन्यतौ, "संज्ञायाः" इति कन्,विंशतितिंरशद्भ्या॑ति ड्बुन्,कंसा॑दिति टिठन्,शूर्पा॑दित्यञ्,शतमाने॑त्यण्, "विंशतिकात्खः" इति खः, खार्याः॑ इति ईकन्,पणपादे॑ति यत्,द्वित्री॑ति वार्तिकोक्ताऽण् । इत्येव त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभक्तय इति ।समर्थानां प्रथमाद्वे॑ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।
शाणाद्वा (द्वित्रिपूर्वादण् च) - द्वित्रिपूर्वादण् । वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम् । भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह — — शाणादित्येवेति । न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम् — -॒शत शाणाभ्यां वे॑ति सूत्रयितव्येपणवादे॑कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, — -शतशब्दः स्वरितत्वेनानुवर्तमानोऽपिशाणाद्वा॑इत्यत्रैव संबध्यते, तदुत्तरसूत्रेद्वित्रिपूर्वादण् चे॑त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति । तदिदं सामथ्र्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत् । त्रैरूप्यमिति । तदेतद्दर्शयति — — द्वैशाणमित्यादिना । अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम् । ठञादयस्त्रयोदशेति । ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव । न चशूर्पादञन्यतरस्या॑मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेनशाणाद्वे॑ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात् । नापि सूत्रोपात्तैद्र्वादशभिः सहद्वित्रिपूर्वादण् चे॑ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः ।उक्तरीत्या॒कंसाट्टिठ॑न्निति सूत्रेअर्धाच्चेति वक्तव्यं॑,कार्षापणाट्टिठन्इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते ।द्वित्रिपूर्वादण् चे॑ति स वार्तिकस्थोऽण् तु भिद्यते,शतमानविंशतिके॑त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शाणाद्वा (1917) (यतोऽधिकरणम्) (5628 उपसंख्यानवार्तिकम्।। 1 ।।) - शतशाणाभ्यां वा - (भाष्यम्) शतशाणाभ्यां वेति वक्तव्यम्। अध्यर्धशतम्, अध्यर्धशत्यम्। पञ्ञ्चशतम्, पञ्ञ्चशत्यम्। अध्यर्धशाणम्, अध्यर्धशाण्यम्। पञ्ञ्चशाणम्, पञ्ञ्चशाण्यम्।। (5629 उपसंख्यानवार्तिकम्।। 2 ।।) - द्वित्रिपूर्वादण्च - (भाष्यम्) द्वित्रिपूर्वादण्चेति वक्तव्यम्। द्विशाणम्, त्रिशाणम्। द्वैशाणम्, त्रैशाणम्। द्विशाण्यम्, त्रिशाण्यम्।।