Page loading... Please wait.
5|1|121 - न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
॥ तस्मै पाणिनये नमः ॥
5|1|121
SK 1783
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः   🔊
सूत्रच्छेदः
(अव्ययम्) , नञ्पूर्वात् (पञ्चम्येकवचनम्) , तत्पुरुषात् (पञ्चम्येकवचनम्) , अ-चतुर-संगत-लवण-वट-युध-कत-रस-लसेभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
भावः  5|1|119 (प्रथमैकवचनम्) , तस्य  5|1|119 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 आ च त्वात्  5|1|120 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य भावः" (इति) त्व-तलौ आ त्वात् च , अ-चतुर-संगत-लवण-वट-युध-कत-रस-लसेभ्यः नञ्पूर्वात् तत्पुरुषात् न
सूत्रार्थः
"भावः" इत्यस्मिन् अर्थे अग्रे विहिताः अपवादप्रत्ययाः चतुर-संगत-लवण-वट-युध-कत-रस-लस-शब्दान् वर्जयित्वा अन्येषां विषये नञ्-तत्पुरुष-समासात् पूर्वम् न विधीयन्ते ।
तस्य भावस्त्वतलौ 5|1|119 इत्यनेन सूत्रेण "भावः" अस्मिन् अर्थे "त्व" तथा "तल्" प्रत्ययौ उच्येते ।ब्रह्मणस्त्वः 5|1|136 इति सूत्रपर्यन्तम् एतयोः प्रत्यययोः भिन्नाः अपवादाः अपि पाठिताः सन्ति । एतेषाम् अपवादानाम् विषये द्वौ नियमौ वर्तमानसूत्रेण निर्दिष्टौ स्तः -

1.यदि प्रातिपदिकम् नञ्-तत्पुरुष-समासेन निर्मितम् अस्ति, तर्हि "भावः" अस्मिन् अर्थे त्व-तल्-प्रत्यययोः एव प्रयोगः करणीयः, अपवादरूपेण विहितानाम् प्रत्ययानाम् प्रयोगः न करणीयः ।
2. परन्तु, "चतुर", "संगत", "लवण", "वट". "युध", "कत", "रस", "लस" - एतेषाम् शब्दानां विषये नञ्-समासेन निर्मितम् प्रातिपदिकम् अस्ति चेद् यथोचितः अपवादप्रत्ययः प्रयोक्तव्यः ।

उदाहरणानि कानिचन एतादृशानि -

1. "भावः" अस्मिन् अर्थे पत्यन्तपुरोहितादिभ्यो यक् 5|1|128 इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण "पति" शब्दः यस्य अन्ते विद्यते तादृशात् शब्दात् "यक्" प्रत्ययः भवति । यथा - सेनापतेः भावः सैनापत्यम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितस्य "अपति" शब्दस्य विषये वर्तमानसूत्रेण अयम् यक्-प्रत्ययः निषिध्यते, अतः "अपतेः भावः" अस्मिन् अर्थे औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवत, याभ्याम् "अपतित्वम्" तथा "अपतिता" एतौ शब्दौ भवतः ।

2. इगन्ताच्च लघुपूर्वात्‌ 5|1|131 इत्यनेन सूत्रेण "शुचि" शब्दात् "भावः" अस्मिन् अर्थे "अण्" प्रत्ययः भवति - शुचेः भावः शौचम् । परन्तु नञ्-तत्पुरुष-समासेन निर्मितात् "अशुचि" शब्दात् वर्तमानसूत्रेण अस्य प्रत्ययस्य निषेधः भवति, अतः ओत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । न शुचिः अशुचिः, अशुचेः भावः अशुचित्वम्, अशुचिता ।

स्मर्तव्यम् -
[1] "अशौचम्" अयम् अपि कश्चन शब्दः भाषायाम् प्रयुज्यते, परन्तु तस्य अर्थः भिन्नः अस्ति -
अ) न विद्यते शौचम् यस्मिन् तत् अशौचम् - इति बहुव्रीहिसमासेन अत्र शब्दः सिद्ध्यति ।
आ) "न शौचम्" इति नञ्-तत्पुरुषसमासेन अयम् शब्दः सिद्ध्यति ।
[2] नञ्-बहुव्रीहिसमासेन निर्मितः यः "अशुचि" शब्दः, तस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तस्मात् शब्दात् अपि "भावः" अस्मिन् अर्थेे इगन्ताच्च लघुपूर्वात्‌ 5|1|131 इत्यनेनैव "अण्" प्रत्ययः एव क्रियते । न विद्यते शुचिः यस्य सः अशुचिः, अशुचेः भावः अशौचम् आशौचम् वा (नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् 7|3|30 इति उत्तरपदवृद्धिः, वैकल्पिका पूर्वपदवृद्धिश्च) ।

3. योपधाद्गुरूपोत्तमाद्वुञ् 5|1|132 इत्यनेन "रमणीयस्य भावः" अस्मिन् अर्थे "रामणीयक" इति शब्दः सिद्ध्यति । परन्तु नञ्-तत्पुरुष-समासेन निर्मितः यः "अरमणीय"शब्दः, तस्मात् "अरमणीयस्य भावः" अस्मिन् अर्थे वर्तमानसूत्रेण वुञ्-प्रत्ययः निषिध्यते, अतः औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । अरमणीयस्य भावः अरमणीयत्वम् अरमणीयता वा ।

अनेन सूत्रेण उक्तः निषेधः "चतुर", "संगत", "लवण", "वट". "युध", "कत", "रस", "लस" - एतेषाम् शब्दानां विषये न विद्यते । एतेषाम् सर्वेषाम् विषये गुणवचनब्राह्मणादिभ्यः कर्मणि च 5|1|124 अनेन सूत्रेण विहितः ष्यञ्-प्रत्ययः नञ्-तत्पुरुष-समासस्य विषये अपि विधीयते । यथा -
1. अचतुरस्य भावः आचतुर्यम् ।
2. असंगतस्य भावः आसङ्गत्यम्
3. अलवणस्य भावः आलवण्यम् ।
4. अवटस्य भावः आवट्यम् ।
5. अयुधस्य भावः आयुध्यम् ।
विशेषः - काशिकायाः केषुचन संस्करणेषु "युध" इत्यस्य स्थाने "बुध" इति शब्दः दृश्यते । अबुधस्य भावः आबुध्यम् ।
6. अकतस्य भावः आकत्यम् ।
7. अरसस्य भावः आरस्यम् ।
8. अलसस्य भावः आलस्यम् ।
विशेषः - गुणवचनब्राह्मणादिभ्यः कर्मणि च 5|1|124 अस्मिन् सूत्रे पाठितः ब्राह्मणादिगणः आकृतिगणः अस्ति इति स्वीक्रियते, अतः च एते सर्वे शब्दाः ब्राह्मणादिगणे समाविश्यन्ते । अतएव एतेभ्यः ष्यञ्-प्रत्ययः भवति ।

स्मर्तव्यम् -
1. अनेन सूत्रेण उक्तः निषेधः केवलं नञ्-तत्पुरुषसमासस्य विषये एव अस्ति ; नञ्-बहुब्रीहिसमासस्य विषये न । यथा, "न विद्यन्ते अस्य पटवः सः अपटुः" अस्मिन् अर्थे नञ्-बहुब्रीहिसमासेन जायमानात् "अपटु" शब्दात् तु इगन्ताच्च लघुपूर्वात्‌ 5|1|131 इत्यनेन अण्-प्रत्ययः भवत्येव - अपटोः भावः आपटवम् ।
2. भावकर्मार्थप्रकरणे गुणवचनब्राह्मणादिभ्यः कर्मणि च 5|1|124 इत्यस्मात् अग्रे उक्ताः प्रत्ययाः "भावः" अस्मिन् अर्थे तु सन्ति एव, परन्तु "कर्म" अस्मिन् अर्थे अपि प्रोक्ताः सन्ति ।अस्यां स्थितौ वर्तमानसूत्रेण उक्तः निषेधः द्वयोः अपि अर्थयोः विषये स्वीक्रियते इति ज्ञेयम् । यथा - न शुचिः अशुचिः, अशुचेः कर्म अशुचित्वम्, अशुचिता ।
3. यद्यपि अनेन सूत्रेण नञ्-तत्पुरुष-समासस्य विषये अपवादप्रत्ययविधानम् निषिध्यते, तथापि प्रारम्भे अपवाद-प्रत्ययं कृत्वा ततः नञ्-तत्पुरुषसमासविधानम् भवितुम् अर्हत्येव । यथा - शुचेः भावः शौचम् (अण्-प्रत्ययः), न शौचम् इति अशौचम् ।
4. अस्मिन् सूत्रे उक्तः निषेधः "भावः" अस्मिन् अर्थे विहितानाम् प्रत्ययानां विषये अस्ति । एतेभ्यः शब्देभ्यः "कर्म" अस्मिन् अर्थे अपि एतादृशम् एव प्रत्ययविधानम् भवति वा - अस्मिन् विषये व्याख्यानेषु स्पष्टरूपेण किमपि न उच्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इत उत्तरे ये भाव. प्रत्ययाः, ते नञ्पूर्वात् तत्पुरुषात् न भवन्ति चतुरादीन् वर्जयित्वा। वक्ष्यति पत्यन्तपुरोहितादिभ्यो यक् 5|1|128 इति। अपतित्वम्, अपतिता। अपटुत्वम्, अपटुता। अरमणीयत्वम्, अरमणीयता। नञ्पूर्वातिति किम्? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषातिति किम्? न अस्य पटवः सन्ति इति अपटुः, तस्य भावः आपटवम्। आलघवम्। अचतुरादिभ्यः इति किम्? आचतुर्यम्। आसङ्गत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम्।
अधिकारोऽयम्। तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते; न त्वतलोरिति मत्वाऽ‌ऽ-`इत उत्तरे ये भावप्रत्ययाः` इत्यादि। न तु `पृथ्वादिभ्य इमनिज्वा` 5|1|121 इत्येवमादिंभिर्योगैः परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते। न च तत्र काचित्? प्रकृतिर्नञ्पूर्वा गृह्रते, न च तदन्तविधिरस्ति; ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। तस्मात् तत्र नञ्पूर्वात्? प्राप्तिर्नास्तीति नास्त्यस्योपयोगः? सत्यम्; यत्र त्वन्तग्रहण्--`पत्यन्तपुरोहितादिभ्यो यक्` 5|1|127 इत्येवमादिषु योगेष्वस्ति, यत्र च स्वरूपग्रहणं नास्ति `योपधाद्गुरूपोत्तमाद्वुञ्` 5|1|131 इत्येवमादिषु, तत्र नञ्पूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते। `अपतित्वम्` इति। नञ्समासे कृत उत्तरकालं पत्यन्तादभावविवक्षायां `पत्यन्त` 5|1|127 इत्यादिना यग्न भवति। `अपटुत्वम्` इति। `इगन्त` 5|1|131 इत्यण्? न भवति। `अरमणीयत्वम्` इति। `योपदात्` 5|1|132 इत्यादिना वुञ्? न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम्, तेनास्मादिगन्तलक्षणोऽण्? भवति--`आपटवम्` इति। `आचतुर्यम्` इति। ब्राआहृणादित्वात्? ष्यञ्। ननु च नञ्समासा ब्राआहृणादिषु न षठन्ते, तत्कुतस्तेन ष्यञ्? नैष दोषः; आकृतिगणो हि ब्राआहृणादिरिष्यते। अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम्॥
ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति त्वतलोरयं प्रतिषेध इति भ्रान्ति वारयति। इत उतरे ये प्रत्यया इति। एतच्च ठा च त्वात्ऽ इति सम्बन्धाल्लभ्यते। चतुरादीनीति। चतुराद्यन्ताÄस्तत्पुरुषान्नञ्पूर्वानित्यर्थः। ननु ठ्पृथ्वादिभ्य इमनिज्वाऽ इत्यादिभिः परिणणिताभ्यः प्रकृतिभ्य उतरो बावप्रत्ययो विधीयते। न च तत्र काचिन्नञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिश्च ग्रहणवता प्रातिपदिकेन प्रतिषिध्धः। यत्र तर्हि स्वरूपग्रहणं नास्ति पत्यन्ताद्यग्भवति, हायनान्तादण् भवति, ठिगन्ताच्च लघुपूर्वात्ऽ, ठ्योपदाद्गुरुपोतमाद्वुञ्ऽ इति, तत्र नञ्पूर्वातत्पुरुषादस्त्येव प्रसङ्गस्तद्दर्शयति--वक्ष्यति पत्यन्त पुरोहितादिभ्यो यगिति। अपतित्वमपतितेति। ततु ठा च त्वात्ऽ इत्यधिकार इत्युक्तम्, ततश्च पत्यन्तेत्यनेनैव त्वतलोरप्यधिकृतयोविधानम्। ततः किम् ? यक इव त्वतलोरप्यं प्रतिषेधः प्राप्नोति। अस्त्वेवमधिकृतयो स्त्वतलोः प्रतिषेधः, ठ्तस्य भावःऽ इत्यनेन पुनस्त्वतलौ भविष्यतः; बाधकाभावात्। यदि पत्यन्तादिप्वेवास्योपयोगः, पत्यन्तेत्यस्यैव पुरस्तादिदं पठितव्यम्, तदेवोतरत्राप्यनुवर्तिष्यते। एवं तर्ह्त्र प्रदेशे प्रतिषेधाधिकअरस्योपादानादिमनिजादीनामपि प्रतिषेदो विज्ञायते। ननु चोक्तम्--ठ्तदन्तविध्यभावादप्रसङ्गःऽ इति ? एवं तर्ह्येतज्ज्ञापयति-अस्त्युतरत्र तदन्तविधिरित। किमेतस्य ज्ञापने प्रयोजनम् ? नञ्पूर्वाद्बहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्पृथ्वाद्यन्तादिमनिजादिः सिद्धो भवति--न विद्यन्ते पृथ्वो यस्य अपृथुः, परमपृथुः, तस्य भाव इति। नात्रोमनिजादिरिष्यते, अत एव वृत्तिकारेणापि नास्य पटवः सन्तीत्यपटुअरित्यादि व्यावर्त्य दर्शितम्, तस्मादिहास्य करणे प्रयोजनं चिन्त्यम्। आचतुर्यमित्यादौ ब्राह्मणादित्वात्ष्यञ् ॥
सिद्धान्तकौमुदी
इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः - न नञ्पूर्वात् । इतः परमिति । त्वतल्विधेरूध्र्वमित्यर्थः, नञ्पूर्वादित्युत्तरस्य प्रतिषेध इति भाष्यादिति । भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, — एतान्वर्जयित्वेत्यर्थः । अपतित्वमिति । इह॒पत्यन्तपुरोहितादिभ्यः॑ इति यक्न भवति । अपटुत्वमिति । इह॒इगन्ताच्च लघुपूर्वा॑दित्यण्न भवति । बार्हस्पत्यमिति ।पत्यन्तपुरोहितादिभ्यः॑ इति यक् । आपटवमिति ।इगन्ताच्च लघुपूर्वा॑दित्यण् । अपटुशब्दस्य बहुव्रीहित्त्वात्तत्पुरुषत्वाऽभावान्नास्याऽणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः । ब्राआहृणादित्वात्ष्यञ् । आसंगत्यमिति । असङ्गतशब्दात्ष्यञ् । आलवण्यमिति । अलवणशब्दात्ष्यञ् । आवटमिति । न वटः अवटः, तस्मात्ष्यञ् । आयुध्यमिति । आयुधशब्दात्ष्यञ् । आकत्यमिति । अकतशब्दात्ष्यञ् । आरस्यमिति । अरसशब्दात्ष्यञ् । आलस्यमिति । लसतीति लसः । न लसः अलसः । तस्मात्ष्यञ् ।
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतर- सलसेभ्यः - अपतित्वमिति । इहपत्यन्ये ॑ति यग् न भवति । अपटुत्वमिति । इह तुइगन्ताच्च लघुपूर्वा॑दित्यण् न भवति । आचतुर्यमित्यादि । ब्राआहृणादित्वात् ष्यञ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न नञ्ञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (2003) (निषेधाधिकरणम्) (निषेधप्रयोजनाक्षेपभाष्यम्) कस्यायं प्रतिषेधः? त्वतलोरित्याह। नैतदस्ति प्रयोजनम्। इष्येते नञ्ञ्पूर्वात्तत्पुरुषात्वतलौ ‐ अब्राह्मणत्वम्, अब्राह्मणतेति। अत उत्तरं पठति ‐ (5694 निषेध्यकथनवार्तिकम्।। 1 ।।) - न नञ्ञ्पूर्वादित्युत्तरस्य प्रतिषेधः - (भाष्यम्) न नञ्ञ्पूर्वात् इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते।। (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। परिगणिताभ्यः प्रकृतिभ्य उत्तरो भावप्रत्ययो विधीयते, न च तत्र काचिन्नञ्ञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते। यत्र तर्हि तदन्तविधिरस्ति ‐ पत्यन्तपुरोहितादिभ्यो यक्(5।1।128) इति। यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात् ‐ पत्यन्ताद्यग्भवति, नञ्ञ्पूर्वात्तत्पुरुषान्नेति।। (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः ‐ उत्तरो भावप्रत्ययो नञ्ञ्पूर्वाद्बहुव्रीहेर्भवतीति।। (आक्षेपभाष्यम्) नेष्यते। त्वतलावेवेष्येते। अविद्यमानाः पृथवोऽस्यापृथुः, अपृथोर्भावः ‐ अपृथुत्वम्, अपृथुतेति। (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः ‐ उत्तरो भावप्रत्ययोऽन्यपूर्वात्तत्पुरुषाद्भवतीति। (आक्षेपभाष्यम्) नैवेष्यते। त्वतलावेवेष्येते। परमः पृथुः ‐ परमपृथुः, परमपृथोर्भावः ‐ परमपृथुत्वम्, परमपृथुता। (प्रयोजनभाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः ‐ उत्तरो भावप्रत्ययः सापेक्षाद्भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इत्युक्तं तदुपपन्नं भवति।। (प्रयोजनाक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति ‐ सर्व एते तद्धिताः सापेक्षाद्भवन्तीति यदयं नञ्ञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः (6।2।155) इत्याह।।