Page loading... Please wait.
4|4|53 - किशरादिभ्यः ष्ठन्
॥ तस्मै पाणिनये नमः ॥
4|4|53
SK 1603
किशरादिभ्यः ष्ठन्   🔊
सूत्रच्छेदः
किशर-आदिभ्यः (पञ्चमीबहुवचनम्) , ष्ठन् (प्रथमैकवचनम्)
अनुवृत्तिः
पण्यम्  4|4|51 (प्रथमैकवचनम्) , अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य पण्यम्" (इति) किशरादिभ्यः ष्ठन्
सूत्रार्थः
"अस्य पण्यम्" अस्मिन् अर्थे किशरादिगणस्य प्रथमासमर्थशब्देभ्यः ष्ठन्-प्रत्ययः भवति ।
"पण्य" इति पण् (व्यवहारे) धातोः "यत्" प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् 4|4|51 इत्यत्र निर्दिष्टे "पण्यम्" अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा किशरादिगणस्य शब्देभ्यः ष्ठन्-प्रत्ययः भवति ।

किशरादिगणे सर्वे गन्धविशेषवाचिनः शब्दाः दीयन्ते । किशरादिगणः अयम् -

किशर, नरद, नलद, सुमङ्गल, तगर, गुग्गुलु, उशीर, हरिद्रा, हरिद्रायणी ।

उदाहरणानि -
1. किशराः पण्यम् अस्य सः किशरिकः ।
2. नरदाः पण्यम् अस्य सः नरदिकः ।
3. सुमङ्गलाः पण्यम् अस्य सः सुमङ्गलिकः ।

"ष्ठन्" प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4|1|41 इत्यनेन ङीष्-प्रत्ययविधानम् । यथा -
किशराः पण्यम् अस्याः सा
= किशर + ष्ठन् +ङीष्
→ किशर + ठ + ई [इत्संज्ञालोपः]
→ किशर + इक + ई [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ किशर् + इक + ई [यस्येति च 6|4|148 इति अकारलोपः]
→ किशरिक + ई
→ किशरिक् + ई [यस्येति च 6|4|148 इति ईकारे परे अकारलोपः]
→ किशरिकी
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किशर इत्येवम् आदिभ्यः ष्ठन् प्रत्ययो तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। किशरादयो गन्धविशेषवचनाः। किशराः पण्यम् अस्य किशरिकः। किशरिकी। निरदिकः। नरदिकी। किशर। नरद। नलद। सुमङ्गल। तगर। गुग्गुलु। उशीर। हरिद्रा। हरिद्रायणी। किशरादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥
सिद्धान्तकौमुदी
किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥
किशरादिभ्यः ष्ठन् - किसरादिभ्यः ष्ठन् । तदस्य पण्यमित्येव ।ष्ठ॑न्निति च्छेदः । तदाह — षित्त्लान्ङीषिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.