Page loading... Please wait.
4|4|3 - संस्कृतम्
॥ तस्मै पाणिनये नमः ॥
4|4|3
SK 1551
संस्कृतम्   🔊
सूत्रच्छेदः
संस्कृतम् (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन संस्कृतम्" (इति) समर्थानाम् प्रथमात् परः ठक् |
सूत्रार्थः
तृतीयासमर्थात् "संस्कृतम्" अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा -
1. दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् ।
2. मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक ।

प्रक्रिया -
दधि + ठक्
→ दधि + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ दाधि + इक किति च 7|2|118 इति आदिवृद्धिः]
→ दाध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ दाधिक

एवमेव "मारिचिक" इत्यपि रूपम् सिद्ध्यति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "तेन" इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः "देवदत्तेन संस्कृतम्" एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।
2. संस्कृतं भक्षाः 4|2|16 इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्ति इति स्मर्तव्यम् ।
संस्कृतं भक्षाः 4|2|16 इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतम् अस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते ।
One-line meaning in English
To express an entity that has been cultured / processed, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ word indicating the substance used for culturing / processing.
काशिकावृत्तिः
तेन इति तृतीयासमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतम् दाधिकम्। शार्ङ्गवेरिकम्। मारीचिकम्। योगविभाग उत्तरार्थः।
योगविभाग उत्तरार्थः-- `कुलत्थकोपधादण्` 4|4|4 इत्ययमपवादः संस्कृत एव यथा स्यात्, `दीव्यति` इत्यादौ मा भूदित्येवमर्थो योगविभागः॥
योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥
सिद्धान्तकौमुदी
दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥
संस्कृतम् - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । "सस्कृतं भक्षाः" इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः ।
संस्कृतम् - संस्कृतम् । योग विभाग उत्तरार्थःष । बाहुकेति । सूत्रे षकारः सांहितिको, न त्वनुबन्ध इति न ङीष् । तथा चआकर्षात्पर्पादेः॑ इत्यादि श्र्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यति । निकषोपल इति । सुवर्णपरीक्षार्थः ।
लघुसिद्धान्तकौमुदी
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.