Page loading... Please wait.
4|4|139 - मधोः
॥ तस्मै पाणिनये नमः ॥
4|4|139
SK 3485
मधोः   🔊
सूत्रच्छेदः
मधोः (पञ्चम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , मये  4|4|138 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
मये (इति) मधोः छन्दसि संज्ञायाम् यत्
सूत्रार्थः
मधु-शब्दात् मयट्-प्रत्ययस्य अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।
"मयट्" इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -
1. मयट् च 4|3|82 इत्यनेन ततः आगतः 4|3|74 अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतम् अस्ति ।
2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 4|3|143 इत्यनेन तस्य विकारः 4|3|134 तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः 4|3|135 इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतम् अस्ति ।
3. तत्प्रकृतवचने मयट् 5|4|21 इत्यनेन "प्रकृतम् (= प्राचुर्यम्)" अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।

एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु "मधु"शब्दात् "यत् "प्रत्ययः कृतः दृश्यते ।
मधुनः आगतः / मधुनः विकारः / मधुनः अवयवः / मधु प्रकृतम्
= मधु + यत्
→ मधो + य [ओर्गुणः 6|4|146 इति गुणः]
→ मधव् + य [वान्तो यि प्रत्यये 6|1|79 इति अवादेशः]
→ मधव्य

वेदेषु प्रयोगः - (पैप्पलादसंहिता 1.88.2, "विकारः" अस्मिन् अर्थै) - मधव्यान् स्तोकानपि यान् रराध सं मा तैः सृजतु विश्वकर्मा ।

ज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य "आगतः", "विकारः", "अवयवः" तथा "प्रकृतम्" एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - "आगतः" इत्यत्र पञ्चमीसामर्थ्यम् अपेक्षते, "विकारः" तथा "अवयवः" इत्यत्र षष्ठीसामर्थ्यम् अपेक्षते, तथा च "प्रकृतम्" इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यशब्दो निवृत्तः। मधुशब्दान् मयडर्थे यत्प्रत्ययो भवति। मधव्यान् स्तोकान्। मधुमयानित्यर्थः।
मयडर्थ आगते प्रकृतवचने यथायोगं रूप्यमयटोः प्राप्तयोर्यद्विधीयते। तत्र मयटो हि `द्व्यचश्छन्दसि` 4|3|148 इति प्राप्तस्य `नोत्वद्वर्धविल्वात्` 4|3|149 इति प्रतिषेध उच्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.