Page loading... Please wait.
4|4|127 - वयस्यासु मूर्ध्नो मतुप्‌
॥ तस्मै पाणिनये नमः ॥
4|4|127
SK 3473
वयस्यासु मूर्ध्नो मतुप्‌   🔊
सूत्रच्छेदः
वयस्यासु (सप्तमीबहुवचनम्) , मूर्ध्नः (पञ्चम्येकवचनम्) , मतुप् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , च  4|4|125 (अव्ययम्) , मतोः  4|4|125 (षष्ठ्येकवचनम्) , लुक्  4|4|125 (प्रथमैकवचनम्) , इष्टकासु  4|4|125 (सप्तमीबहुवचनम्) , उपधानः  4|4|125 (प्रथमैकवचनम्) , मन्त्रः  4|4|125 (प्रथमैकवचनम्) , इति  4|4|125 (अव्ययम्) , आसाम्  4|4|125 (षष्ठीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"उपधानः मन्त्रः आसाम्" (इति) "वयस्यासु मूर्ध्नः" इति इष्टकासु मतुप्, मतोः च लुक्
सूत्रार्थः
"वयस्वान् मूर्धन्वान् उपधानमन्त्रः आसाम् इष्टकानाम्" अस्मिन् अर्थे प्रथमासमर्थात् मतुप्-प्रत्ययान्त-मूर्धन्-शब्दस्य वेदेषु संज्ञायाम् मतुप्-प्रत्ययः कृतः दृश्यते ।
यस्मिन् उपधानमन्त्रे "वयस्" तथा "मूर्धन्" द्वावपि शब्दौ स्तः, तादृशः उपधानमन्त्रः "वयस्वान्" अस्ति इत्यपि उच्यते, "मूर्धन्वान् अस्ति इत्यपि उच्यते । अस्य मन्त्रस्य विषये "आसाम् इष्टकानाम्" इत्यस्मिन् अर्थे प्रारम्भे वयस्वत्-शब्दात् तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4|4|125 इत्यनेन यत्-प्रत्ययः भवति । अग्रे तेनैव सूत्रेण "मूर्धन्वत्" शब्दात् अपि यत्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण (आरम्भे "मूर्धन्वत्" इत्यत्र विद्यमानस्य मतुप्-प्रत्ययस्य लुकं कृत्वा ततः पुनः) मतुप्-प्रत्ययः विधीयते ।

यथा - वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः इष्टकाः =
[1] वयस्वत्-शब्दात् यत्-प्रत्ययः -
वयस्वत् + यत्
→ वयस् + यत् [ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 4|4|125 इति मतुप्-प्रत्ययस्य लुक्]
→ वयस्य
[2] मूर्धन्वत्-शब्दात् मतुप्-प्रत्ययः -
मूर्धन्वत् + मतुप्
→ मूर्धन् + मत् [वयस्यासु मूर्ध्नो मतुप्‌ 4|4|27 इति मतुप्-प्रत्ययस्य लुक्]
→ मूर्धन् + वत् [मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8|2|9 इति वकारादेशः]
→ मूर्धन्वत्

वयस्वान् मूर्धन्वान् मन्त्रः आसाम् इष्टकानाम् ताः वयस्याः मूर्धन्वत्यः इष्टकाः ।

वेदेषु प्रयोगः - बौधायनश्रौतसूत्रेषु 10.38 - "...मूर्धन्वतीरुपदधाति विष्टम्भो वय इति चतस्रः पुरस्ताद्धँ सपातिनीस्तयादेवतं कृत्वा सूददोहसः करोत्यथ वसस्या उपदधाति..." ।

ज्ञातव्यम् -
1. अस्य सूत्रस्य प्रयोगः केवलं तेषाम् मन्त्राणाम् विषये एव भवति येषु "वयस्" तथा "मूर्धन्" द्वावपि शब्दौ स्तः । यदि मन्त्रे केवलं मूर्धन्-शब्दः विद्यते, तर्हि सः मन्त्रः "वयस्वान्" न भवति, केवलं "मूर्धन्वान्" भवति । अस्य मन्त्रस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्यां स्थितौ "मूर्धन्वत्" शब्दात् औत्सर्गिकः यत्-प्रत्ययः एव विधीयते, न हि मतुप्-प्रत्ययः ।

2. अनेन सूत्रेण द्वे कार्ये उच्येते - मूर्धन्वान् शब्दात् विद्यमानस्य मतुप्-प्रत्यस्य लुक्, तथा च नूतनरूपेण "मतुप्" प्रत्ययविधानम् । आरम्भिकम् लुकम् दर्शयितुमेव "मूर्ध्नः" इति लुप्त-मतुप्-प्रत्ययान्तस्य योजनम् सूत्रे कृतम् अस्ति । अस्मिन् विषये काशिकाकारः वदति - "मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा" । इत्युक्ते, यद्यपि मतुप्-प्रत्ययः "मूर्धन्वत्" शब्दात् विधीयते, तथापि सूत्रे उपस्थितः लुक्-मतुबन्तः "मूर्धन्" शब्दः अग्रे भविष्यमाणम् लुकम् निर्देशयति - इति आशयः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति। पूर्वस्य यतो ऽपवादः। यस्मिन् मन्त्रे वयःशब्दो मूर्धन्शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि, यथा मूर्धा वयः प्रजापतिश् छन्दः इति। तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि यति प्राप्ते मतुप् विधास्यते। मूर्धन्वतीर् भवन्ति। वयस्या एव मूर्धन्वत्यः। वयस्यासु इति किम्? यत्र मूर्धन्शब्द एव केवलो न वयःशब्दस्न् तत्र मा भूत्। मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा।
`मूर्धन्वतीः` इति। `उगितश्च` 4|1|6 इति ङीप्। वयस्यास्ता मूर्धन्वत्यश्चेति वयस्वामनुपधानो मन्त्रः, तासामिति वयस्याः। मूर्धन्वानुपधानो मन्त्रः, तासामिति मूर्धन्दत्यः।`यत्रि` इत्यादि। न ह्रेवंविधो यासामुपधानो मन्त्रस्ततो वयस्यात्विति वचनात्। अत्र मूर्धशब्द एवास्ति, न वयः शब्दः, ततो न भवति--मूर्धन्वत्य इति।`वक्तव्ये` इति। तद्वानित्यधिकारान्मतुबन्तान्मर्धशब्दात्प्रत्ययेन भवितव्यम्। अतः `मूर्धन्वतःर` इति युक्तं वक्तुम्, तन्मतुपो भाविनं लुकं चेतसि कृत्वा। एवंलघु सूत्रं भवति॥
वयस्यास्विति । च्छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः, ठ्विष्टम्भोवयःऽ इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्च्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद् ठ्विष्टम्भो वयःऽ इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा---च्छत्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु ठनो नुट्ऽ इति च्छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम्---ठ्वयसस्यासुऽ इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति च्छन्दसीत्यर्थः । ठ्वयस्याश्च ताः मूर्धन्वत्याश्चऽ इति ठुभयथापि च्छन्दस्यभिधीयतेऽ इत्युक्तं भवति । यत्र मूर्द्धन्शब्द एव केवल इति । यथा---ठग्ने यशस्विन्यशसे समर्पयऽ इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति । ठ्तद्वान्ऽ इति चऽ लुक् च मतोःऽ इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति, ठ्तेजो वै गायत्री तेज एव मुखतो धते मूर्द्धन्वती भवतिऽ इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु ठग्निर्मूर्धा भुवःऽ इत्यादिषु वयः शब्दस्याभावात् ॥
सिद्धान्तकौमुदी
तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.