Page loading... Please wait.
4|4|122 - रेवतीजगतीहविष्याभ्यः प्रशस्ये
॥ तस्मै पाणिनये नमः ॥
4|4|122
SK 3468
रेवतीजगतीहविष्याभ्यः प्रशस्ये   🔊
सूत्रच्छेदः
रेवती-जगती-हविष्याभ्यः (पञ्चमीबहुवचनम्) , प्रशस्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
रेवती-जगती-हविष्याभ्यः प्रशस्ये छन्दसि संज्ञायाम् यत्
सूत्रार्थः
षष्ठीसमर्थेभ्यः "रेवती", "जगती", "हविष्या" शब्देभ्यः "प्रशंसनम्" अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।
"प्रशस्य" एतत् "प्र + शस्" इत्यस्य क्यप्-प्रत्ययान्तरूपम् । "प्रशंसनम्" / "प्रशंसा" इति अर्थः ।षष्ठीसमर्थात् "रेवती"शब्दात्, "जगती"शब्दात्, "हविष्या"शब्दात् च "प्रशंसनम्" अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

1. "रेवती" इति नक्षत्रस्य नाम । रेवत्याः प्रशस्यम् = रेवती + यत् → रेवत्यम् ।
2. "जगती" इति छन्दसः नाम । जगत्याः प्रशस्यम् = जगती + यत् → जगत्यम् ।
3. "हविष्या" इत्युक्ते आहुतिः । हविष्यायाः प्रशस्यम् =
हविष्या + यत्
→ हविष्य् + यत् [यस्येति च 6|4|148 इति आकारलोपः]
→ हविष्य्य
→ हविष्य [हलो यमां यमि लोपः 8|4|64 इति वैकल्पिकः यकारलोपः]

वेदेषु प्रयोगः -
1. रेवत्यम्, जगत्यम् - (मानवश्रौत्रसूत्रम्) - यद्वो रेवती रेवत्यँ यद्वो हविष्या हविष्यम् ।
2. हविष्यम् - (ऋग्वेदः 1.162.4) यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति ।

ज्ञातव्यम् - अत्र वस्तुतः षष्ठीसमर्थम् पदम् सूत्रे न विद्यते, परन्तु "प्रत्ययार्थम्" स्वीकृत्य अत्र षष्ठीसमर्थात् प्रत्ययविधानं कृतम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति। प्रशंसनं प्रशस्यम्, भावे क्यप् प्रत्ययो भवति। यद्वो रेवती रेवत्यम्। यद्वो जगती जगत्यम्। यद्वो हविष्या हविष्यम्। हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम्। यस्य इति च 6|4|148 इति लोपे कृते हलो यमां यमि लोपः 8|4|64 इति लोपः।
`षष्ठीसममर्थेभ्यः` इति। सामथ्र्याद्धि षष्ठयेव समर्थविभक्तिर्विज्ञायते। यथा हि-- `{शंस----प्रांउ।पाठ}शंसु स्तुतौ` (धा।या।728) इत्यतोऽस्मादेव निपातनाद्भावे क्यप्प्रत्ययः; `कृत्यल्युटो बहुलम्` 3|3|113 इति बहुलवचनात्। तत्रावश्यं कृद्योगलक्षणया षष्ठआ भवितव्यम्। अयमपि योगः पूर्ववदणि प्राप्ते वेदितव्यः॥
रयिरस्यास्तीति रेवती, ठ्रयेर्मतौ बहुलम्ऽ इति बहुलवचनात्सम्प्रसारणमम् । उगित्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति । ठ्शंसु स्तुतौऽ इत्यस्मात् ठ्कृत्यल्युटो बहुलम्ऽ इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, ठुगवादिभ्यो यत्ऽ ॥
सिद्धान्तकौमुदी
प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.