Page loading... Please wait.
4|4|116 - अग्राद्यत्‌
॥ तस्मै पाणिनये नमः ॥
4|4|116
SK 3462
अग्राद्यत्‌   🔊
सूत्रच्छेदः
अग्रात् (पञ्चम्येकवचनम्) , यत् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , तत्र  4|4|98 (अव्ययम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , भवे  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र भवे" (इति) अग्रात् छन्दसि संज्ञायाम् यत्
सूत्रार्थः
"भवः" अस्मिन् अर्थे सप्तमीसमर्थात् "अग्र"शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।
सप्तमीसमर्थात् "अग्र"शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते । अग्रे भवः अग्र्यः ।
यथा - यजुर्वेदे 16.30 (इत्युक्ते रुद्रपाठे नमकम्) इत्यत्र - "नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमोऽग्र्याय च प्रथमाय च" इति प्रयोगः दृश्यते ।

ज्ञातव्यम् - वस्तुतः अत्र "यत्" प्रत्ययः अधिकाररूपेण उपस्थितः अस्त्येव । परन्तु अस्मिन् सूत्रे "यत्"प्रत्ययस्य पुनर्विधानम् कृतम् अस्ति । "अग्रिमसूत्रेण निर्दिष्टौ "घ" तथा "छ"प्रत्ययौ यत्-प्रत्ययं न बाधेयाताम्" - इति स्पष्टीकर्तुम् अत्र यत्-प्रत्ययस्य पुनर्विधानम् कृतम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अग्रशब्दात् यत् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अग्रे भवम् अग्र्यम्। किम् अर्थम् इदं यावता सामान्येन यद् विहित एव? घच्छौ च 4|4|117 इति वक्ष्यति ताभ्यां बाधा मा भूतिति पुनर् विधीयते।
`सामान्येन यद्विहितः` इति। `भवे च्छन्दसि` 4|4|109 इत्यनेन। अथ यद्ग्रहणं किमर्थम्, न यथाविहितमेवोच्येत? नैवं शक्यम्; `अग्रश्चाड्डिमच्` (वा। 448) इत्येवामग्रशब्दाड्डिमजप्युक्तः, तत्र यथा विहिते प्रत्यय उच्यमाने डिमचपि स्यात्। तस्माद्यद्ग्रहणं कत्र्तव्यम्॥
ठृज्रेन्द्राग्रऽ इत्यग्रशब्दो निपातितः । सामान्येनेति । ठ्भवे च्छन्दसिऽ इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा ठग्राद् घच्छौ चऽ इति चकाराद्भविष्यति, ठग्रपश्चाडिडमच्ऽ इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम् ठ्ताश्च एव चाध्यजननःऽ, ठेतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्ऽ इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ॥
सिद्धान्तकौमुदी
अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.