Page loading... Please wait.
4|4|112 - वेशन्तहिमवद्भ्यामण्
॥ तस्मै पाणिनये नमः ॥
4|4|112
SK 3458
वेशन्तहिमवद्भ्यामण्   🔊
सूत्रच्छेदः
वेशन्त-हिमवद्‍भ्याम् (पञ्चमीद्विवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , तत्र  4|4|98 (अव्ययम्) , छन्दसि  4|4|110 (सप्तम्येकवचनम्) , भवे  4|4|110 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र भवे" (इति) छन्दसि संज्ञायाम् वेशन्तहिमवद्भ्याम् अण्
सूत्रार्थः
सप्तमीसमर्थात् "वेशन्त"शब्दात् तथा "हिमवत्"शब्दात् वेदेषु संज्ञायाः विषये "भवः" अस्मिन् अर्थे अण्-प्रत्ययः कृतः दृश्यते ।
"वेशन्त" इत्युक्ते सरः । "हिमवत्" इत्युक्ते हिमालयः । एताभ्यां शब्दाभ्यां "भवः" अस्मिन् अर्थे वेदेषु संज्ञायाः विषये "अण्" प्रत्ययः कृतः दृश्यते ।

1. वेशन्ते भवः
= वेशन्त + अण्
→ वैशन्त + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ वैशन्त् + अ [यस्येति च 6|4|148 इतो अकारलोपः]
→ वैशन्त

यथा - तैत्तिरीयसंहिता 7.4.13 इत्यत्र - वैशन्तीभ्यः स्वाहा, पल्वल्याभ्यः स्वाहा, वर्ष्याभ्यः स्वाहा ।

2. हिमवति भवः
= हिमवत् + अण्
→ हैमवत् + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ हैमवत

ज्ञातव्यम् - "तत्र भवः" अस्मिन् अर्थे छन्दसि भवे छन्दसि4|4|110 इत्यनेन यत्-प्रत्यये प्राप्ते वेशन्तशब्दस्य विषये हिमवत्-शब्दस्य विषये च तं बाधित्वा अनेन सूत्रेण अण्-प्रत्ययविधानम् क्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वेशन्तशब्दाद् धिमवच्छशब्दाच् च अण् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतो ऽपवादः वैशन्तीभ्यः स्वाहा। हैमवतीभ्यः स्वाहा।
Text Unavailable. Please use feedback link below to provide the text if you have.
वेशन्तः उ पल्वलम्, ठ्विशेर्झ चऽ, तत्र भव आपः वैशान्त्यः ॥
सिद्धान्तकौमुदी
भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.