Page loading... Please wait.
4|3|75 - ठगायस्थानेभ्यः
॥ तस्मै पाणिनये नमः ॥
4|3|75
SK 1454
ठगायस्थानेभ्यः   🔊
सूत्रच्छेदः
ठक् (प्रथमैकवचनम्) , आयस्थानेभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम्। आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम्। बहुवचनं स्वरूपविधिनिरासार्थम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
आय इति स्वामिग्राह्यए भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ॥
सिद्धान्तकौमुदी
शुल्काशालाया आगतः शौल्कशालिकः ॥
ठगायस्थानेभ्यः - ठगायस्थानेभ्यः । "तत आगत इत्यर्थे" इति शेषः । हट्टादिषु स्वामिग्राह्रो भागः-आयः । स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः ।
ठगायस्थानेभ्यः - ठगाय । एत्येनं स्वामी, स्वमिनमयमेतीति वा — आयः=स्वामिग्राह्रो भागः । स यस्मिन्नुपद्यते तदायस्थानम् । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः । वृद्धाच्छं परत्वादयं बाधते । आपणिकः । आकरिकः ।
लघुसिद्धान्तकौमुदी
शुल्कशालाया आगतः शौल्कशालिकः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.