Page loading... Please wait.
4|3|60 - अन्तःपूर्वपदाट्ठञ्
॥ तस्मै पाणिनये नमः ॥
4|3|60
SK 1437
अन्तःपूर्वपदाट्ठञ्   🔊
सूत्रच्छेदः
अन्तः-पूर्वपदात् (पञ्चम्येकवचनम्) , ठञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अव्ययीभावातित्येव। अन्य्तःशब्दो विभक्त्यर्थे समस्यते। अतपूर्वपदातव्ययीभावाट् ठञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। आन्तर्वेश्मिकम्। आन्तर्गेहिकम्। समानशब्दाद् ठञ् वक्तव्यः। समाने भवं सामानिकम्। तदादेश्च। सामानग्रामिकम्। सामानदेशिकम्। अध्यात्मादिभ्यश्च। आध्यात्मिकम्। आधिदैविकम्। आधिभौतिकम्। अध्यात्मादिराकृतिगणः। ऊर्ध्वन्दमाच् च ठञ् वक्तव्यः। और्ध्वन्दमिकः। ऊर्ध्वशब्देन समानार्थ ऊर्ध्वन्दमशब्दः। ऊर्ध्वदेहाच् च। और्ध्वदेहित्कम्। लोकोत्तरपदाच् च। ऐहलौकिकम्। पारलौकिकम्। मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः। मुखतीयम्। पार्श्वतीयम्। जनपरयोः कुक् च। जनकीयम्। परकीयम्। मध्यशब्दादीयः। मध्यीयः मण्मीयौ च प्रत्ययौ वक्तव्यौ। माध्यमम्। ंध्यमीयम्। मध्यो मध्यं दिनण् च अस्मात्। मध्ये भवं माध्यन्दिनम्। स्थम्नो लुग् वक्तव्यः। अश्वत्थामा। अजिनान्ताच् च। वृकाजिनः। सिंहाजिहः। समानस्य तदादेश्च अध्यात्मादिषु च इष्यते। ऊर्ध्वन्दमाच्च देहाच्च लोकोत्तरपदस्य च। मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च। ईयः कार्यो ऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा। मध्यो मध्यं दिनण् च अस्मात् स्थाम्नो लुगजिनात् तथा।
`अन्तःशब्दो विभक्त्यर्थे समस्यते` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिना। विभक्त्यर्थस्त्वधिकरणम्, अन्तःशब्दस्याधिकरणप्रधानत्वात्।समानशब्दाट्ठञ्वक्तव्यः` इति। वक्तव्यशब्दो व्याख्येये। तत्रेदं व्याख्यानम्-- इहान्तःपूर्वादित्येवं सिद्धे यदधिकं पदग्रहणं तदधिकमिह कार्यं भवतीत्येवमर्थं क्रियते, तेन समानशब्दादपि इञ् भवतीति। एतेन शब्दान्तरादेव।अध्यात्मादिभ्य ऊध्र्वन्दमादूध्र्वदेहाल्लोकोत्तरपदाच्च ठञ् भवतीति वेदितव्यम्। `आध्यात्मिकम्` इति। `आध्यात्मिकम्` इति। आत्मन्यधि अध्यात्मम्, विभक्त्यिर्थेऽव्ययीभावः। `अनुशतिकादीनाञ्च` 7|3|20 इत्युभयपदवृद्धिः। `अध्यात्मादिराकृतिगणश्चायम्` इति। यद्येवम्, `समानशब्दाट्ठञ् वक्तव्यः` (वा।454) इत्यद्यनर्थकम्, अध्यात्मादिभ्यश्चेत्यनेनैव सिद्धत्वात्? नानर्थक्; अस्यैव प्रपञ्चार्थत्वात्। अध्यात्मादिरेव तत् प्रपञ्च्यते। ननु चाकारान्त ऊध्र्वशब्दः, तत् कुत इह मकारान्तत्वमायातमित्ाह-- `ऊध्र्वशब्देन` इत्यादि।`ऐहलौकिकः, पारलौकिकः` इति। पूर्ववदुभयपदवृद्धिः।`मुखतीयम्, पार्(ातीयम्` इति। `अपादाने चाहीयरुहोः` 5|4|45 इति तसिः। `आद्यादिभ्य उपसंख्यानम्` (वा।634) इत्यौपसंख्यानिको वा। `अव्ययानां भमात्रे टिलोपः` (वा।842) इत्यनेन टिलोपः। `मण्नीयौ च प्रत्ययौ वक्तव्यौ` इति। मध्यशब्दादित्यपेक्षते।`मध्यो मध्यं दिनण् चास्मात्` इति। मध्यशब्दो मध्यम्भावमापद्यते, दिनण् चास्मात् प्रत्ययो भवति। `स्थाम्नः` इति। स्थामशब्दान्तात् प्रातिपदिकात्। अआस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरदित्वात् सकारस्य तकारः। अआत्थाम्नि भव इत्यण्, तस्य लुक्।`आजिनान्ताच्च` इति। लुगिति सम्बध्यते। `वृकाजिनः` इति। अणो लुक्। `समानस्य` इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। `समानस्य` इति। आनन्तर्यलक्षणा षष्ठी। समानशब्दादनन्तरष्ठञिष्यत इत्यर्थः। `अध्यात्मादिषु` इति। वैषयिकेऽधिकरणे सप्तमी। अध्यात्मादिविषये ठञिष्यत इत्यर्थः। `कुग्जनस्य परस्य च` इति। चकारादीयश्च प्रत्ययः। `ऊध्र्वन्दमाच्च देहाच्च` इति। ऊध्र्वशब्दात् परस्मात् दमशब्दादूध्र्वशब्दाद्देशशब्दाच्च ठगिष्यत इत्यर्थः। `ईयः कार्योऽथ मध्यस्य` इति। अथशब्दः समुच्चये। मध्यशब्दस्यानन्तर ईयः कार्य इत्यर्थः। `मण्मीयौ प्रत्ययौ तथा` इति। मध्यशब्दादित्यपेक्ष्यते। मण्मीयौ मध्यशब्दस्यान्तरौ कत्र्तव्यौ। `अजिनात्तथा` इति। अजिनान्तात् लुग्वक्तव्य इत्यर्थः॥
आध्यात्मिकमिति । ठनश्चऽ इति टच् समासान्तः । आधिविदैकम्, आधिभौतिकमिति । अनुशतिकादित्वादुभयपदवृद्धिः । अध्यात्मादिराकृतिगण इति । एवं च समानशब्दादित्यादिरस्यैव प्रपञ्चः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वंशब्द इति । स चैतद्वृत्तिविषय एव । अपर आह---ठ्ठञ्सन्नियोगेन दम शब्द उतरे ऊर्ध्वशब्दस्यैव मान्तत्वं निपात्यतेऽ इति । ऊर्ध्वदेहाच्चेति । नात्र मान्तत्वम् । ऐहलौकिकमिति । पूर्ववदुभयपदवृद्धिः । मुखतीयम्, पार्श्वतीयमिति । मुख-पार्श्व-शब्दाभ्यां सप्तम्यान्ताभ्यामाद्यादित्वातसिः, तत ईयः, अव्ययत्वाट्टिलोपः । अयं गहादिपाठस्यैव प्रपञ्चः । एतेन परं व्याख्यातम् । मण्मीयाविति । गहादिषु ठ्मध्यमध्यमं चाण् चरणेऽ इति यत्पठितं तत्र ठ्पृथिवीमध्यवाची मध्यशब्दो गृह्यतेऽ इत्युक्तम्, भवार्थे तु ततोऽन्यत्रापि मध्यमीयमिति यता स्यादिति मीयप्रत्ययवचनम् । जातादिषु पृथिवीमध्यवाचिन एव मध्यमीय इति भवति, न मध्यान्तरवाचिनः । तथा गहादिपाठेन पृथिवीमध्यं निवासा एषामित्यस्मिन्नेवार्थे माध्यमा इति सिध्यति, मध्यान्तरवाचिनो भवार्थेऽपि यथा स्यादिति मण् प्रत्यय उक्तः । मध्यो मध्यंदिनण् चास्मादिति । मध्यशब्दो मध्यभावमापद्यते दिनण्चास्मात् प्रत्ययो भवतीत्यर्थः । स्थाम्न इति । स्थामन्शब्दान्तादित्यर्थः । अश्वत्थामेति । अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरादित्वात्सकारस्य तकारः, ततो भवार्थे ठ्स्थाम्नोऽकारःऽ इत्यकारः तस्मानेन लुक् । वृकाजिन इति । अणो लुक् । समानस्य तदादेश्चेति । आनन्तर्यत्वलक्षणा षष्ठी । अध्यात्मादिष्विति । विषयसप्तमी उर्ध्वन्दामाच्च देहाच्चेति । ऊर्ध्वंशब्दाद्दमशब्दान्ताच्चेत्यर्थः । ऊर्ध्वपूर्वादेव च देहान्तादिष्यते । उक्तं हि प्राक् ठुर्ध्वदेहाच्च, और्ध्वदेहिकम्ऽ इति । स्थाम्नो लुगजिनातथेति । पाठे उभयत्रापि तदन्तविधिः ॥
सिद्धान्तकौमुदी
अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥अध्यात्मादेष्ठञिष्यते (वार्तिकम्) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥
अन्तःपूर्वपदाट्ठञ् - अन्तःपूर्वपदाट्ठञ् । अन्तर्वेश्ममिति । विभक्त्यर्थेऽव्ययीभावः ।अनश्चे॑ति टच् । आन्तर्वेश्मिकमिति । ठञ् । इकः । सुब्लुक् । टिलोपः । आदिवृद्धिः । आन्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । आत्मनीत्यध्यात्मम् । तत्र भवमित्यर्थः ।
अन्तःपूर्वपदाट्ठञ् - अन्तः पूव । अन्तर्वेश्ममिति ।नपुंसकादन्यतरस्या ॑मिति समासान्तष्टच् ।अध्यात्मादेष्ठञिष्यते । अध्यात्ममिति ।अनश्चे॑ति टच् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तः पूर्वपदाट्ठञ्ञ् (1630) (तत्रभवाधिकरणे ठञ्ञ्) (वार्तिकावतरणभाष्यम्) अत्यल्पमिदमुच्यते। (5477 संग्राहकवार्तिकम्।। 1 ।।) - समानस्य तदादेश्च अध्यात्मादिषु चेष्यते - (भाष्यम्) समानस्य ‐ सामानिकः। तदादेः ‐ सामानग्रामिकः, सामानदेशिकः। अध्यात्मादिषु चेष्यते ‐ आध्यात्मिकः, आधिदैविकः, आधिभौतिकः।। (5478 वार्तिकम्।। 2 ।।) - उर्ध्वंदमाच्च देहाच्च - (भाष्यम्) ठञ्ञ्वक्तव्यः ‐ और्ध्वन्दमिकम्, और्ध्वदेहिकम्।। (5479 वार्तिकम्।। 3 ।।) - लोकोत्तरपदस्य च - (भाष्यम्) ठञ्ञ् वक्तव्यः। ऐहलौकिकम्, पारलौकिकम्।। (5480 वार्तिकम्।। 4 ।।) - मुखपार्श्वतसोरीयः - (भाष्यम्) मुख पार्श्व इत्येताभ्यां तसन्ताभ्यामीयप्रत्ययो वक्तव्यः। मुखतीयम्, पार्श्वतीयम्।। (5481 वार्तिकम्।। 5 ।।) - कुग्जनस्य परस्य च - (भाष्यम्) इर्यो वक्तव्यः, कुक्चागमः। जनकीयम्, परकीयम्।। (5482 वार्तिकम्।। 6 ।।) - इर्यः कार्योऽथ मध्यस्य - (भाष्यम्) मध्यीयः।। (5483 वार्तिकम् 7 ) - मण्मीयौ चापि प्रत्ययौ - (भाष्यम्) मण्मीयौ चापि प्रत्ययौ वक्तव्यौ। माध्यमः, मध्यमीयः।। (5484 वार्तिकम्।। 8 ।।) - मध्यो मध्यं दिनण् चास्मात् - (भाष्यम्) मध्यशब्दो मध्यंशब्दमापद्यते, दिनण् चास्मात्प्रत्ययो वक्तव्यः। माध्यन्दिन उद्गायति।। (5485 वार्तिकम्।। 9 ।।) - स्थाम्नो लुगजिनात्तथा - (भाष्यम्) स्थाम्नो लुग्वक्तव्यः। अश्वत्थामा। अजिनात्तथा। अजिनान्ताच्च लुग्वक्तव्यः। कृष्णाजिनः, उलाजिनः, सिंहाजिनः, व्याघ्राजिनः।। (5486 वार्तिकम् ।। 10 ।।) - बाह्यो दैव्यः पाञ्ञ्चजन्यो गाम्भीर्यं च ञ्ञ्य इष्यते -