Page loading... Please wait.
4|3|56 - दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्
॥ तस्मै पाणिनये नमः ॥
4|3|56
SK 1433
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्   🔊
सूत्रच्छेदः
दृति-कुक्षि-कलशि-वस्ति-अस्ति-अहेः (पञ्चम्येकवचनम्) , ढञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयम् अजरं विषम्। अस्तिशब्दः प्रातिपदिकं, न तिङन्तः।
दृतिकुक्षिभ्यां शरीरावयत्वाद्यति प्राप्ते;कुक्षिशब्दो धूमादष्वपि पठते, तस्मात् `धूमादिभ्यश्च` 4|2|126 इति वुञि प्राप्ते; शेषेभ्यस्त्वणि ढञि विधीयते।अस्तिशब्दस्तिङन्तो मा विज्ञायीत्यत आह-- `अस्तिशब्दः` इत्यादि। `विभक्तिस्वरप्रतिरूपकाश्चेति निपाता भवन्ति` इति निपातसंज्ञकं तिङन्तसदृशं प्रातिपदिकमेतत्, न तिङन्तः। एतच्च तिङन्तेन समानार्थम्, यथा-- अस्तिक्षीरा ब्राआहृणीति। भिन्नार्थश्च यथा धने वत्र्तते, यथा--- अस्तिमानिति। धनवानिति गम्यते। तदिह विशेषस्यानभिधानादुभयस्यापि ग्रहणम्॥
दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम्---अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥
सिद्धान्तकौमुदी
दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् - दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि — इत्येभ्यः । "सप्तम्यन्तेभ्यः" इति शेषः । दार्तेयमिति । दृतौ भवमित्यर्थः । ढञ्, एयः, आदिवृद्धिः, रपरत्वम् । दृतिश्चर्मभस्त्रिका । कौक्षेयमिति । दूमादित्वाद्वुञि प्राप्ते ठञ् । कलिशिर्घटः ।कलशिर्मथनपात्र॑मित्यमरव्याख्यातारः ।वस्तिर्नाभेरधो द्वयो॑रित्यमरः । तत्र भवो बास्तेयः । अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च । तत्र भव आस्तेयः । अहिः-सर्पः, तत्रभवः-आहेयः ।
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् - दृतिकुक्षि । दृतिश्चर्मकारः, शरीरावयवविशेषश्च । कुक्षिशब्दो धूमादिस्ततोधूमादिभ्यश्चे॑ति वुञि प्राप्तेऽनेन ढञ् । कलशिः — मन्थापात्रं ।॒कलशिमुदधिगुर्वी बल्लवा लोडयन्ति॑इति माघः ।बस्तिर्नाभेरधो द्वयोः॑इत्यमरः । तत्र भवं वास्तेयम् ।अस्ती॑ति तिङन्तप्रतिरूपको निपातः । स च तिङन्तेन समानार्थो भिन्नर्थश्च । आद्यो यथा — -अस्तिक्षीरा गौः । द्वितीयो यथा, — अस्तिमान् । धनवानित्यर्थः । तदिहाऽविशेषादुभयोरपि ग्रहणमास्थेयमिति हरदत्तः । अहौ भवमाहेयम् ।॒त्रिष्वाहेयं विषास्थ्यादी॑त्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.