Page loading... Please wait.
4|3|48 - कलाप्यश्वत्थयवबुसाद्वुन्
॥ तस्मै पाणिनये नमः ॥
4|3|48
SK 1423
कलाप्यश्वत्थयवबुसाद्वुन्   🔊
सूत्रच्छेदः
कलापि-अश्वत्थ-यव-बुसात् (पञ्चम्येकवचनम्) , वुन् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कालातित्येव। कलापिनश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयम् ऋणम् इत्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूशः कलापिनो भवन्ति स कलापी। यस्मिनश्वत्थाः फलन्ति सो ऽश्वत्थः। यस्मिन् यवबुसं सम्पद्यते स यवबुसशब्देन उच्यते। कलापिनि काले देयम् ऋणम् कलापकम्। अश्वत्थकम्। यवबुसकम्।
कथं पुनः कलापादयः शब्दाः काले वत्र्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह-- `कालाप्यादयः शब्दाः` इत्यादि। एवमेव विषयं स्पष्टीकरोति-- `यस्मिन्काले` इत्यादि। अआत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्द्वारेण कालविशेषो न संज्ञायते। तस्मादआत्थफलसहचारिणि कालेऽआत्थशब्दो वत्र्तत इति दर्शयितुमाह-- `यस्मान्नआत्थाः फलन्ति` इत्यादि। अआत्थशब्दो यद्यपि वृक्षे वत्र्तते, तथापि फले वत्र्तते एव॥
मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम् ठ्कालविशेषविचिभ्यःऽ इत्युक्तम् ? अत आह---कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति ठ्फले लुक्ऽ इति लुगन्तोऽश्वत्थशब्द इत्याह---यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥
सिद्धान्तकौमुदी
यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥
कलाप्यश्वत्थयवबुसाद्वुन् - कलाप्यआत्थ । कलापिन्, अआत्थ, यवबुस — एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः । कलापकमिति । वुन् । अकादेशः । "नस्तद्धिते" इति टिलोपः । अआत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अआत्थशब्दस्य प्लक्षादित्वे तु ततःप्लक्षादिभ्योऽ॑णिति फले अणो विधानसामथ्र्याल्लुगभावे अआत्थशब्दः फले लाक्षणिक इति भावः ।
कलाप्यश्वत्थयवबुसाद्वुन् - कलाप्य । अआत्थ इति ।फले लुक् । इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अआत्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कलाप्यश्वत्थयवबुसाद्वुन् (1618) (देयमृणाधिकरणे वुन्प्रत्ययः) (सूत्रार्थोपपादकभाष्यम्) अयुक्तोऽयं निर्देशः। कालादिति वर्तते, न च कलापी नाम कालोऽस्ति।। नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। कलापिसहचरितः कालः कलापी काल इति।।