Page loading... Please wait.
4|3|168 - कंसीयपरशव्ययोर्यञञौ लुक् च
॥ तस्मै पाणिनये नमः ॥
4|3|168
SK 1547
कंसीयपरशव्ययोर्यञञौ लुक् च   🔊
सूत्रच्छेदः
कंसीय-परशव्ययोः (षष्ठीद्विवचनम्) , यञ्-अञौ (प्रथमाद्विवचनम्) , लुक् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्राक् क्रीताच् छः 5|1|1, कंसीयः। उगवादिभ्यो यत् 5|1|2, परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोः लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्ताऽदित्वादेव अञि सिद्धे लुगर्थं वचनम्। ननु च यस्य इति च 6|4|148 इति लोपे कृते हलस् तद्धितस्य 6|4|150 इति यलोपो भविष्यति? ना एअदस्ति, ईति इति तत्र वर्तते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादःचतुर्थाध्यायस्य चतुर्थः पादः।
`कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः--द।उ।} धृषिभ्यः कुःरक` (द।उ।1।108) इत्यनुवत्र्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च--द।उ।, तिच्च इति प्रांउंयासपाठः} णिच्च` (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह-- `प्रातिपदिकाधिकारात्` इत्यादि। प्रातिपदिकादिति वत्र्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवत्र्तते। `अनुदात्तत्वादेव` इति। परशव्यशब्दो हि `तित्स्वरितम्` 6|1|179 इत्यन्तस्वरितः। `तेनानुदात्तादिः` इति। `ईतीति तत्र वत्र्तते` इति। `यस्यते च` 6|4|148 इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः
प्राक् क्रीताच्छेन कंसीय इति । ठ्प्राक् क्रीताच्छःऽ इत्यधिकारे ठ्तस्मै हितम्ऽ इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ ठ्वृतृहनिकषिकमिभ्यः सःऽ इति सः, कंसशब्दे सप्रत्ययः । यश्च पराश्रृणोतीति परशुः, ठाङ्परयोः खनिश्रृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह---प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह---ठ्ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्ऽ इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम्---नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥
सिद्धान्तकौमुदी
कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥। इति तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌ ।
कंसीयपरशव्ययोर्यञञौ लुक् च - कंसीयपरशब्द । अत्र यञञोर्न लुक्, विधिवैयथ्र्यात् । नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते । तदाह — छयतोरिति । कंसीयमिति । कंसो नाम धातुर्लोहविशेषः ।तस्मै हित॑मिति छः । कांस्यमिति । कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौयस्येति चे॑त्यकारलोपः । परशब्दमिति ।तस्मै हित॑मित्यधिकारेउगवादिभ्यो य॑दिति ओर्गुणेवान्तो यी॑त्यवादेशः । पारशव इति । परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः ।हलस्तद्धितस्ये॑ति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात्आपत्यस्य चे॑त्यपि लोपो न प्रसज्यत इति भावः ।*****इति बालमनोरमायाम् प्राग्दीव्यतीयाः ।*****अथ प्राग्घितीय प्रकरणम् । — — — — — — — — — -
कंसीयपरशव्ययोर्यञञौ लुक् च - कंसीयमिति ।प्राक्क्रीताच्छः॑इत्यधिकारेतस्मै हित॑मिति छः । तस्यै छस्यापवादतयाउगवादिभ्यो यत् — -परशव्यं दारु । परशव्यशब्दस्याऽनुदात्तादित्वादञि[#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम् । नचयस्येति॑यलोपे कृतेहलस्तद्धितस्ये॑ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च ।अथ विसर्गसन्धिः॥ — — — — — — — विष्णुस्त्रातेति । प्रातिपदिकात्स्वैजसमौ॑डिति सुप्रत्यये तस्य रुत्वेखरवसानयो॑रिति विसर्गे च कृतेविसर्जनीयस्य स॑ इति सः । अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.