Page loading... Please wait.
4|3|166 - लुप् च
॥ तस्मै पाणिनये नमः ॥
4|3|166
SK 1545
लुप् च   🔊
सूत्रच्छेदः
लुप् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वा इत्येव। जम्ब्वाः फले ऽभिधेये प्रत्ययस्य वा लुप् भवति। युक्तवद्भावे विशेषः। जम्ब्वाः फलम् जम्बूः फलम्, जम्बु फलम्, जाम्बवम् इति वा। लुप्प्रकरणे पह्लपाकशुषाम् उपसङ्ख्यानम्। व्रीहयः। यवाः। माषाः। मुद्गाः। तिलाः। पुष्पमूलेसु बहुलम्। मल्लिकायाः पुष्पम् मल्लिका। नवमल्लिका जातिः। बिदार्याः मूलं बिदारी। अंशुमती। बृहती। न च भवति। पाटलानि पुष्पाणि। शाल्वानि मूलनि। बहुलवचनात् क्वचिदन्यदपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति।
`कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः--द।उ।} धृषिभ्यः कुःरक` (द।उ।1।108) इत्यनुवत्र्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च--द।उ।, तिच्च इति प्रांउंयासपाठः} णिच्च` (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह-- `प्रातिपदिकाधिकारात्` इत्यादि। प्रातिपदिकादिति वत्र्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवत्र्तते। `अनुदात्तत्वादेव` इति। परशव्यशब्दो हि `तित्स्वरितम्` 6|1|179 इत्यन्तस्वरितः। `तेनानुदात्तादिः` इति। `ईतीति तत्र वत्र्तते` इति। `यस्यते च` 6|4|148 इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः
युक्तवद्भावे विशेष इति । लुपि हि सति ठ्लुपि युक्तवद्व्यक्तिवचनेऽ इति प्रकृत्यर्थगते लिङ्गवचने भवतः, लुकि त्वभिधेयवल्लिङ्गवचने स्याताम् । फलापाकशुषामिति । फलपाकेन शुष्यन्तीटि फलपाकशुषः । व्रीहयो मुद्गा इति । बिल्वाद्यणो लुक्, यवमाषतिलशब्दाः ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदाताः, तेभ्य औत्सर्गिकस्याणो लुक् । मल्लिकाशब्दो मादीनामिति मध्योदातः । अस्यार्थः---अत्र ठ्द्वितीयः प्रागीषात्ऽ इति त्र्यषामिति वर्तते, मकारादीनां त्र्यषां द्वितीयमक्षरमुदातं भवति । नवमालिकाशब्दः ठ्लघावन्तेऽ इति मध्योदातो जातिशब्दः । विदारीबृहतीशब्दौ गौरादिङीषन्तौ । अंशुशब्दः प्रातिपदिकरवरेणान्तोदातः, ततो मतुप् ठ्ह्रस्वनुड्भ्यां मतुप्ऽ इति मतुबाद्यौदातः, ङीबनुदातः । तदेवमंशुमतीशब्दे मतुबकार उदातः । पाटलानीति । बिल्वादित्वादण्, साल्वशब्दः प्रातिपदिकस्वरेणान्तोदातः । क्वचिदन्यदपि भवतीति । लुपोऽन्यदपि कचित्कार्यं भवति, तत्पुनर्लुग्लुपोरभावश्च । कदम्बमित्यादावनुदातादिलक्षणस्याञो लुक् । कदम्बादयः शब्दाः ठ्लगावन्तेऽ इति मध्योदाताः । बैल्वानीति । अत्रोभयाभावः, बिल्वाद्यण् ॥
सिद्धान्तकौमुदी
जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि यक्तवत् (कौमुदी-1294) जम्ब्वाः फलं जम्बूः ॥ ।फलपाकशुषामुपसंख्यानम् (वार्तिकम्) ॥ व्रीहयः । मुद्गाः ॥ ।पुष्पमूलेषु बहुलम् (वार्तिकम्) ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥
लुप् च - लुप् च । लुकैव सिद्धे सुब्विधेः फलमाह — लुपि युक्तवदिति जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्तवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथाच जम्ब्वाः फलान्यपि जम्बूरेव ।फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुष — ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः ।फले लुगि॑त्यस्यापवादः । व्रीहय इति । व्रीह्राख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्गाः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वं, नतु विशेष्यनिघ्नत्वम् । पुष्पमूलेष्विति । वार्तिकमिदम् ।विकारावयवप्रत्ययस्य लुप् स्या॑दिति शेषः । पुष्पं मल्लिकेति ।अथ द्वितीयं प्रागीषा॑दित्यनुवृत्तौमादीनां चे॑ति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः । ततःअनुदात्तादेश्चे॑त्यञो लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । "लघावन्ते" इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । "लघावन्ते" इत्यन्तोदात्तो जातिशब्दः । ततःअनुदात्तादेश्चे॑त्यञोऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् ।विदारीति । जातिङीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्ता दित्वादञि तस्य लुप्, युक्तवत्त्वात्स्त्रीत्वम् । पाटलानीति । बिल्वादित्वादण् । एवं साल्वानि । नन्वशोकस्य पुष्पम् अशोकं, करवीरस्य पुष्पं-करवीरमित्यत्रापिपुष्पमूलेषु बहुल॑मिति लुपि युक्तवत्त्वात्पुंस्त्वे अशोकः पुष्पं, करवीरः पुष्पमिति स्यादित्यत आह — बहुलग्रहणादिति । तथाच युक्तवत्त्वस्याऽप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति । भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लुप् च (1736) (लुपोऽधिकरणम्) (5554 संग्रहवार्तिकम्।। 1 ।।) - लुप्प्रकरणे फलपाकशुषामुपसंख्यानम् - (भाष्यम्) लुप्प्रकरणे फलपाकशुषामुपसंख्यानं कर्तव्यम्। व्रीहयः, यवाः, माषाः, मुद्गाः, तिलाः।। (5555 संग्रहवार्तिकम्।। 2 ।।) - पुष्पमूलेषु च बहुलम् - (भाष्यम्) पुष्पमूलेषु बहुलं लुब्वक्तव्यः। मल्लिका, करवीरम्, बिसम्, मृणालम्। न च भवति ‐ पाटलानि मूलानि।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्।। पादश्च समाप्तः।।