Page loading... Please wait.
4|3|154 - प्राणिरजतादिभ्योऽञ्
॥ तस्मै पाणिनये नमः ॥
4|3|154
SK 1532
प्राणिरजतादिभ्योऽञ्   🔊
सूत्रच्छेदः
प्राणि-रजत-आदिभ्यः (पञ्चमीबहुवचनम्) , अञ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश्च अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादिनाम् अपवादः। अनुदात्तादेः अञ् विहित एव परिशिष्टम् इह उदाहरणम्। प्राणिभ्यस्तावत् कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः राजतम्। सैसम्। लौहम्। रजतादिषु ये ऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्यो ऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थम्। रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदास। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः।
`अणादीनामपवादः` इति। आदिशब्देनाञादीनां ग्रहणम्। `संख्यापि परिमाणग्रहणेन गृह्रते` इति। कथं पुनरेतल्लभ्यते, यावता परिमाणशब्दः प्रस्थादिषु रूढः, न संख्यायाम्? नैष दोषः; यथैव हि प्रस्थादिपरिच्छेदहेतुस्तथा संख्यापि। अत उपमानात् संख्यायामपि परिमाणशब्दो वर्तिष्यते परिमाणमिव परिमाणमिति। नन्वेवं मुख्ये सति गौणग्रहणमयुक्तम्? अयमत्र दोषः -- इह हि तन्त्रेण द्वौ परिमाणशब्दावुच्चारितौ, तत्र द्वितीयं पदमुदात्तम्, तेन संख्यापि गृह्रते। `नैष्किकम्` इति। प्राग्वतेष्ठञ्` 5|1|18 । `शत्यः, शतिकः` इति। `शताच्च ठन्यतावशते` 5|1|21 । `सहरुआम्` इति। `शतमानविंशतिकसहरुआवतनादण्` 5|1|27 ।`अध्यर्धपूर्व` 5|1|28 इत्यादिना सादृशष्यार्थे वतौ सति यदिष्टं सम्पद्यते तद्दर्शयति। आदिशब्देन प्रकृत्यादिपरिग्रहः। `द्विसहरुआम्` इति। द्वयोः सहरुआयोर्विकार इति तद्धितार्थे द्विगुः। `प्राग्वतेः संख्यापूर्वपदात् तदन्तविधिरलुकि` (5.1.20 वा।) इति तदन्तविधिरभ्यनुज्ञानाद्यथा क्रीतार्थे `शतमानविंशतिसहरुआवसनात्` 5|1|29 इति पक्षे लुग्भवति, ततेहापि। `द्विसाहरुआम्` इति। `संख्यायाः संवत्सरपूर्वस्य` 7|3|15 इत्युत्तरपदवृद्धिः। `दविनिष्कः` इति। यथा क्रीतार्थे निष्कशब्दात् प्राग्वतेष्ठञ् 5|1|18 भवति तस्य `द्वित्रिपूर्वान्निष्कात्` 5|1|30 इति पक्षे लुक्, तथेहापि। `द्विनैष्किकम्` इति। `परिमाणान्तस्यासंज्ञान्नाणयोः` 7|3|17 इत्युत्तरपदवृद्धिर्भवति॥
अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्यौदातेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्यौदातं तस्मादणोऽपवादः अनुदातादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तितिरिशब्दस्तरतेः ठ् सन्वच्चाभ्यासस्यऽ इति किप्रत्ययान्तोऽन्तोदातः, शेषौ ठ्लघावन्तेऽ इति मध्योदातौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्याद्यौदातौ । गृध्रशब्दो रन्प्रत्ययान्त आद्यौदातः । कथं तर्हि कापोतमित्याद्यौदाहृतम्, सत्युदातार्थे प्राणिग्रहणेऽनुदातादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च ठनुदातादेरञः प्राण्यञ्विप्रतिषेधेनऽ इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्, ठ्नहिवृत्तिऽ इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वादनुदातादिः । तत्रानउदातलक्षणस्याञो बाधकं मयट्ंअ परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ॥
सिद्धान्तकौमुदी
शौकम् । बाकम् । राजतम् ॥
प्राणिरजतादिभ्योऽञ् - प्राणिरजतादिभ्योऽञ् । शौकंबाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः ।प्राणिना कुर्पूर्व॑मित्याद्युदात्तत्वात्अनुदात्तादेश्चे॑त्यञो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः ।
प्राणिरजतादिभ्योऽञ् - प्राणि । अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं । तदाह — -शौकं बाकमिति । शुकबकशब्दौप्राणिनां कुपूर्वाणा॑मित्याद्युदात्तौ । राजतमिति । रजत सीस उदुम्बर कण्ट कारेत्यादयो रजतादयः । तेषु अनुदात्तादीनां पुनः पाठो मयड्बाधनार्थः । अन्यथा हि परत्वान्मयट् स्यादेव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.