Page loading... Please wait.
4|3|121 - रथाद्यत्‌
॥ तस्मै पाणिनये नमः ॥
4|3|121
SK 1501
रथाद्यत्‌   🔊
सूत्रच्छेदः
रथात् (पञ्चम्येकवचनम्) , यत् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
रथशब्दात् यत् प्रत्ययो भवति तस्य इदम् इत्येतस्म्न् विषये। अणो ऽपवादः। रथस्य इदम् रथ्यं, चक्रं वा युगं वा। रथाङ्ग एव इष्यते, न अन्यत्र अनभिधानात्। रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्।
`नान्यत्र` इति। सन्नाहादौ॥
रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः ठ्तद्वहति रथयुगप्रासङ्गम्ऽ इति द्रष्टव्यः । स्यादेतत्---अयमेव तद्वोढर्यपीष्यताम्, ठ्तद्वहतिऽ इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति ठ्द्विगोर्लुगनपत्येऽ इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥
सिद्धान्तकौमुदी
रथ्यं चक्रम् ॥
रथाद्यत् - रथाद्यत् ।तस्येद॑मित्येव । रत्यं चक्रमिति । "रथाद्रथाङ्गे" इति वचनाच्चकमिति विशेष्यम् ।
रथाद्यत् - रथाद्यत् । अणोऽपवादः ।रथाद्रथाङ्गे॑इति वार्तिकमिभिप्रेत्याह — -रथ्यं चक्रमिति ।रथसीताहलेभ्यो यद्विधौ॑इति तदन्तविधिरूपसङ्ख्यायते । परमरथ्यम् । उत्तमरथ्यम् । द्वयो रथयोरङ्गं द्विरथम् । इहद्विगोर्लुगनपत्ये॑इति यतो लुक् । ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हिरथस्य वोढा रथ्यः॑इति ।तद्वहती॑त्यनेनेति चेत् । एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यीष्यतां,तद्वहति रथयुगप्रासङ्ग॑मित्यत्र रथग्रहणं त्यज्यतामिति चेत् ।मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयस्य लुक्प्रसङ्गात् ।तद्वहती॑ति यत्प्रत्ययस्य तु प्राग्दीव्यतीयत्वाऽभावान्न लुगितिद्विरथ्य ॑इति सिध्यतीति । ननुद्विगोर्लुगनपत्ये॑इत्यत्राऽचीत्य[स्या]पकर्षणात्कथमत्र यतो लुक्प्रसक्तिरिति चेत् । अत्राहु — -॒तद्वहती॑त्यत्र रथग्रहणमेव ज्ञापकम् — -॒एतस्य यतो हलादेरपि लुग् भवती॑ति । अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यात् । तथा च द्वयो रथयोरङ्गमिति विग्रहे द्रिरथमिति प्रयोगः सुस्थ इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.