Page loading... Please wait.
4|3|120 - तस्येदम्
॥ तस्मै पाणिनये नमः ॥
4|3|120
SK 1500
तस्येदम्  
सूत्रच्छेदः
तस्य (षष्ठ्येकवचनम्) , इदम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्दीव्यतोऽण्  4|1|83 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्य इति षष्ठीसमर्थादिदम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। अणादयः पञ्च महोत्सर्गाः। घादयश्च प्रत्यया यथाविहितं विधीयन्ते। प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्गसङ्ख्याप्रत्यक्षपरोक्षादिकं तत्सर्वम् अविवक्षितम्। उपगोरिदम् औपगवम्। कापटवम्। राष्ट्रियम्। अवारपारीणम्। अनन्तरादिष्वनभिधानान् न भवति, देवदत्तस्य अनन्तरम् इति। संवहेस्तुरणिट् च। संवोढुः स्वं सांवहित्रम्। सिद्धः एवात्राण्, इडर्थम् उपसङ्ख्यानम्। आग्नीधः शरणे रण् भं च। आग्नीध्रम्। समिधामाधाने षेण्यण्। सामिधेन्यो मन्त्रः। सामिधेनी ऋक्।
`तस्य` इति। पुंल्लिङ्गेनायं निर्देशः, पुंस्येव स्यात्, न द्विवचनबहुवचनान्तात्; प्रत्यक्षवाचिनश्च स्यात्; नापि विशेषवाचिनः; तच्छब्दस्य परोक्षवस्तुमात्रवाचित्वात्। प्रत्ययार्थोऽपीदमित्येकवचनेन नपुंसकलिङ्गेन निर्दिष्ट इत्येकस्मिन्नर्थे स्यात्-- नपुंसक एव,नान्यत्र; परोक्षे न स्यात्; इदमः प्रत्यक्षवाचित्वात्? इत्येतत्? सर्वमाशङ्क्याह--`प्रकृतिप्रत्ययार्थयोः` इत्यादि। प्रकृतौ षष्ठर्थमात्रं विवक्षितम्। प्रत्ययार्थेऽपि षष्ठर्थसम्बन्धिमात्रम्, येन विना षष्ठर्थो न सम्पद्यते। `यदपरम्` इत्यादिना मात्रशब्देन यद्व्यवच्छिन्नं तद्दर्शयति। आदिशब्देन सामान्यभिधायित्वं गृह्रते। अस्य तु सर्वत्र विवक्षाकारणम् `तस्यापत्यम्` 4|1|92 इत्यत्रैवक्तम्। अथेह कस्मान्न भवति-- देवदत्तस्यानन्तरम्, देवदत्तस्य समीपत्यादि? `अनन्तरादिषु` इत्यादि। `अनभिधानात्` इति। प्रत्ययान्तेनानन्तरादीनामप्रत्यायनमित्यर्थः।`संवहेस्तुः`इति। वहेस्त्रन्तादित्यर्थः। `सांवाहित्रम्` इति। सम्पूर्वाद्वहेस्तुरिट् च, यणादेशः। `सिद्ध एवात्राण्` इति। `प्राग्दीव्यतोऽण्` 4|1|83 इत्यनेन। यद्येवं किमर्थमुपसंख्यानम्? इत्याह-- `इडर्थम्` इत्यादि। उपसंख्याने ह्रसतीडागमो न स्यात्, `एकाच उपदेशेऽनुदात्तात्` 7|2|10 इतीट्प्रतिषेधात्।`अग्नीघः` इत्यादि। अग्नीघ इत्येतस्माच्छरणे गृहे वाच्ये रण् वक्तव्यः, भसंज्ञा च वक्तव्या, भसंज्ञायाञ्च सत्यां पदसंज्ञाभावाज्जशत्वं न भवति।`समिधाम्` इत्यादि। आधीयन्ते येन मन्त्रविशेषेण समिधस्तस्मिन् सनिधामाधानविशेषे समिच्छब्दात् वण्यण् प्रत्ययो वक्तव्यः = व्याख्येयः। व्याख्यानं तु --`हविर्निवाससामिधेनीषु` 3|1|129 इत्येतन्निर्देशमाश्रित्य वक्तव्यम्। `सामिधेनी` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्, `हलस्तद्धितस्य` 6|4|150 इति यलोपः॥
ठ्तस्या पत्यम्ऽ इत्यत्रोक्तमेवार्थं स्मारयति---प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ।ल्र्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति---यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम् ठ्तस्यापत्यम्ऽ इत्यत्रैवोक्तम् । वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमिताभावातेषामभावः । अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् ठृत्विग्विशेषः । ठ्त्वमग्निदृतीयतेऽ इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणमुगृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यातु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम्---ठ्प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणःऽ इति । च्छप्रत्ययं च ततः शरणे कुर्वन्ति, ठाग्नीध्रीयसकाशमुतरेणाग्नीध्रीयं धिष्ण्यं परीत्यऽ इति शरणवचनाच्छः । समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्, ठ्हलस्तद्धितस्यऽ इति यलोपः ॥
सिद्धान्तकौमुदी
उपगोरिदमौपगवम् ॥ ।वहेस्तुरणिट् च (वार्तिकम्) ॥ संवोढुः स्वं सांवहित्रम् ॥ ।अग्नीधः शरणे रण् भं च (वार्तिकम्) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ॥ ।समिधामाधाने षेण्यणू (वार्तिकम्) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥
तस्येदम् - तस्येदम् । इदमित्यर्थे षष्ठन्तादणादयः साधारणप्रत्यया, राष्ट्रावारेत्यादिभिर्विशिष्य विहिता घादयश्च प्रत्यया यताविहितं स्युरित्यर्थः । अत्र शेषे इत्यनुवृत्तम् । ततश्च अपत्यादिचतुरथ्र्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामान्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते । अपत्यादीनां तु न केनापि रूपेण इदंशब्दार्थत्वमितितस्यापत्य॑मित्यत्रोक्तम् ।वहेस्तुरणिट् चेति । वार्तिकमिदम् ।तु॑रिति तृन्तृचोः सामान्येन ग्रहणम् । वहधातोर्विहितो यस्तृप्रत्ययस्तस्मादण् स्यात्तृप्रत्ययस्य इडागमश्च । तत्र अण् पूर्वे सिद्ध इड्विध्यर्थमनूद्यते । संवोढुः स्वमिति । विग्रहदर्शनम् । वहेस्तृच्, तृन् वा । वहेरनुदात्तत्वात् "एकाच उपदेशे" इति नेट् । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहोरोदवर्णस्ये॑त्योत्त्वम् । सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विग्रहवाक्ये पूर्वमिट् । ततो निमित्ताऽभावान्न ढत्वादि । अग्नीधः शरणे इति । वार्तिकमिदम् ।शरण॑मित्यर्थे अग्नीच्छब्दात्षष्ठन्ताद्रण्, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं — गृहम् । अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः क्विप् ।अनिदिता॑मिति नलोपः । आग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चरत्नि चतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तो ।ञयं शब्दः । तैत्तिरीयेएतद्वै यज्ञस्यापराजितं यदाग्नीध्र॑दित्यादावाद्युदात्तत्वं तुआग्नीध्रसाधारणादञ् वक्तव्यः॑ इति स्वार्थिके अञि बोध्यम् । नन्वेवम्आग्नीध्रः प्रत्याश्रावये॑दित्यादौ कथमृत्विग्विशेषे आग्नीध्रशब्दः । तत्राह — तात्स्थ्यादिति । आग्नीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । आधीयते अनेनेत्याधानो मन्त्रः । आधानो मन्त्र इत्यर्थे षष्ठन्तात्समिच्छब्दात् षेन्यण्प्रत्ययटो वाच्य इत्यर्थः । षत्वं ङीषर्थमित्याह — सामिधेनीति । सामिधेन्यशब्दात् ङीष् ।हलस्तद्धितस्ये॑ति यलोपः ।
तस्येदम् - तस्येदम् । अणादयः पञ्च महोत्सर्गाः, घादयश्च षष्ठन्तात्संबन्धिनि स्युः । अनन्तरदिष्वनभिधानान्न, देवदत्तस्यानन्तरमिति ।वहेस्तु रणिट् च । बहेस्तु । इडर्थमिदमुपसङ्ख्यानम्, अण्, तु सिद्ध एवानूद्यते ।तु॑रिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिके प्रक्रियावाक्ये पूर्वमिट् ततो निमित्ताऽभावान्न ढत्वादोत्याशयेनोदाहरति — -सांवहित्रमिति । अग्निदिति । क्विप् । ऋत्विग्विशेषोऽयम् ।त्वमग्निदृतायते॑इत्यत्र तु छान्दसं ह्यस्वत्वम् ।आग्निध्रमिति । भत्वविधानाद्धस्य जशत्वं नेति भावः । सोऽपीति । अग्नीदपीत्यर्थः । ननुपिबाग्निध्रात्तवे॑त्यादावाद्युदात्तं प्रयुज्यते । वार्तिकेतुर॑णिति पाठादयमन्तोदात्त इथि चेत् । अत्राहुः — ॒आग्नीध्रकसाधारणादञि॑ति वार्तिकेन विहितो यः स्वार्थेऽञे तत्पक्षे तत्राद्युदात्तत्वं बोध्यमिति ।समिधामाधाने षेण्येण् । समिधामिति । कर्मणि षष्ठीयम् । आधानमिति करणे ल्युट् । कर्मणि षष्ठन्तादाधानकरणे षेण्यण् स्यात् । सामिधेन्य इति । यया अग्निः समिध्यते सा — समित् । संपदादित्वात्करणे क्विप् । तस्या आधान इति विग्रहः । सामिधेनीति । षित्त्वान्ङीष् । हलस्तद्धितस्ये॑ति यलोपः । यया ऋचा सामिदाधीयते सा सामिदाधीयते सा सामिधेनीत्यर्थः ।प्रवोवाजा अभिद्यवः॑इत्याद्याःआजुहोता दुवस्यत॑इत्यन्ताःसामिधेन्य॑ इति व्यवह्यियन्ते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तस्येदम् (1690) (ःथ्द्य;दमर्थाधिकरणम्) (5509 पूर्वपक्षवार्तिकम्।। 1 ।।) - तस्येदमित्यसंनिहितेऽप्राप्तिरिदमः प्रत्यक्षवाचित्वात् - (भाष्यम्) तस्येदमित्यसंनिहितेऽप्राप्तिः। किं कारणम्? इदमः प्रत्यक्षवाचित्वात्। इदमित्येतत्प्रत्यक्षे वर्तते, तेनेहैव स्यात् ‐ तस्येदमिति, तस्याद इति। तस्य तदित्यत्र न स्यात्।। (5510 न्यासान्तरेण समाधानवार्तिकम्।। 2 ।।) - सिद्धं तु यद्योगा षष्ठी तत्र - (भाष्यम्) सिद्धमेतत्। कथम्? यद्योगा षष्ठी प्रवर्तते तत्रेति वक्तव्यम्।। (5511 पूर्वपक्षवार्तिकम्।। 3 ।।) - अनन्तरादिषु च प्रतिषेधः - (भाष्यम्) अनन्तरादिषु च प्रतिषेधो वक्तव्यः। तस्यानन्तरः, तस्य समीप इति। किं यद्योगा षष्ठी प्रवर्तत इत्यतोऽनन्तरादिषु प्रतिषेधो वक्तव्यः? नेत्याह। सर्वथाऽनन्तरादिषु प्रतिषेधो वक्तव्यः।। (5512 एकदेशिसमाधानवार्तिकम्।। 4 ।।) - सिद्धं तु परिगणनात् - (भाष्यम्) सिद्धमेतत्। कथम्? परिगणनं कर्तव्यम्।। (5513 परिगणनवार्तिकम्।। 5 ।।) - स्वे ग्रामजनपदमनुष्येभ्यः - (भाष्यम्) स्वे ग्रामजनपदमनुष्येभ्य इति वक्तव्यम्। स्रौघ्नः, माथुरः। ग्राम।। जनपद। आङ्गकः, वाङ्गकः। जनपद।। मनुष्य। दैवदत्तः, याज्ञदत्तः।। (5514 परिगणनवार्तिकम्।। 6 ।।) - पत्राद्वाह्ये - (भाष्यम्) पत्राद्वाह्य इति वक्तव्यम्। आश्वम्, औष्ट्रम्, गार्दभम्।। (5515 परिगणनवार्तिकम्।। 7 ।।) - रथाद्रथाङ्गे - (भाष्यम्) रथाद्रथाङ्ग इति वक्तव्यम्। आश्वरथम्, औष्ट्ररथम्, गार्दभरथम्।। (5516 परिगणनवार्तिकम्।। 8 ।।) - वहेस्तुरणिट् च - (भाष्यम्) वहेस्त्रन्तादण्वक्तव्य इट्च वक्तव्यः। संवोढुः स्वं सांवहित्रम्।। (5517 परिगणनवार्तिकम्।। 9 ।।) - अग्नीधः शरणे रञ्ञ्भं च - (भाष्यम्) अग्नीधः शरणे रञ्ञ्वक्तव्यो भसंज्ञा च वक्तव्या। अग्नीधः शरणमाग्नीध्रम्।। (5598 परिगणनवार्तिकम् ।। 10 ।।) - समिधामाधाने षेण्यण् - (भाष्यम्) समिधामाधाने षेण्यण् वक्तव्यः। समिधामाधानो मन्त्रः सामिधेन्यो मन्त्रः। सामि धेनी ऋक्।। (5519 परिगणनवार्तिकम्।। 11 ।।) - चरणाद्धर्माम्नाययोः - (भाष्यम्) चरणाद्धर्माम्नाययोरिति वक्तव्यम्। कठानां धर्म आम्नायो वा ‐ काठकम्। कालापकम्। मौदकम्। पैप्पलादकम् ‐ इति।। (सिद्धान्तभाष्यम्) तत्तर्हीदं बहु वक्तव्यम्, सूत्रं च भिद्यते। यथान्यासमेवास्तु। ननु चोक्तं तस्येदमित्यसंनिहितेऽप्राप्तिरिति। किमिदं भवान् प्रत्ययार्थमेवोपालभते, न पुनः प्रकृत्यर्थमपि। यथैव हि ‐ इदमित्येतत् प्रत्यक्षे वर्तते, एवं तदित्येतत्परोक्षे वर्तते। तेनेहैव स्यात्तस्येदमिति, अस्यामुष्य इत्यत्र न स्यात्। अस्त्यत्र विशेषः, एकशेषनिर्देशोऽत्र भविष्यति ‐ तस्य चास्य च अमुष्य च तस्येति भवति। इहापि तर्ह्येकशेषनिर्देशो भविष्यति ‐ तच्चादश्चेदं च ‐ इदमित्येव। यदप्युच्यते ‐ अनन्तरादिषु च प्रतिषेधो वक्तव्य इति। न वक्तव्यः। अनभिधानादनन्तरादिषूत्पत्तिर्न भविष्यति।।